॥श्रीः॥
श्रीमत्परमहंसपरिव्राजकाचार्य-श्रीविद्यारण्यमुनिविरचित-श्रीब्रह्मविदाशीर्वादपद्धतिः॥
हिरण्यगर्भादिस्थावरान्तेषु शरीरेषु यदेकं चैतन्यमस्ति, तदेवाहमस्मीति दृढज्ञानं निरन्तरं भूयात्॥१॥
निर्विकल्पसमाधिप्रतिबन्धकलयविक्षेपकषायरसास्वादेभ्यो रक्षितं मे चित्तमविघ्नेन ब्रह्मणि अवस्थितं भूयात्॥२॥
निर्विकल्पसमाधौ चत्वारो विघ्नाः स्युः।
नित्यनिर्विकारासङ्गाद्वितीयपरिपूर्णसच्चिदानन्दस्वप्रकाशचिदेकरसब्रह्मानुभवसिद्धिर्भूयात्॥३॥
- ब्रह्म नित्यं वाऽनित्यं वेति संशयवारणाय नित्यमिति।
- नित्यमपि विकारि स्यादिति वारयितुं निर्विकारमिति।
- नित्यनिर्विकारस्यापि संबन्धः स्यादिति वारयितुमसङ्गमिति।
- असङ्गस्यापि द्वितीयत्वं स्यादिति वारयितुमद्वितीयमिति।
- अद्वितीयं सदपि कालादिपरिच्छिन्नता स्यादिति वारयितुं परिपूणमिति।
अहमादिदृश्यविलक्षणास्मत्प्रत्ययालम्बनभूतप्रत्यक्चिन्मात्रस्वरूपात्मानुभवसिद्धिर्भूयात्॥४॥
- सर्वं दृश्यजातं परिच्छिन्नं दुःखमेव।
- निरपेक्षान्तरत्वं प्रत्यक्त्वम्।
सजातीयविजातीयस्वगतभेदरहिताखण्डसच्चिदानन्दाद्वितीयब्रह्मात्मानुभवसिद्धिर्भूयात्॥५॥
- सजातीयानां परस्परं भेदः सजातीयभेदः, यथा ब्राह्मणादीनामन्योन्यभेदः।
- स्वभिन्नजातीयवस्त्वन्तरात् स्वस्य भेदो विजातीयभेदः, यथा ब्राह्मणक्षत्रिययोरन्योन्यभेदः।
- अवयविनः स्वावयवाद्भेदः स्वगतभेदः, यथा शरीरस्य करचरणादिभ्यः, वृक्षस्य शाखादिभ्यश्च भेदः।
नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वितीयब्रह्मात्मानुभवसिद्धिर्भूयात्॥६॥
- मायातत्कार्यरहितत्वान्निर्मलत्वं शुद्धत्वम्
स्वगतादिभेदरहिताखण्डसच्चिदानन्दलक्षणब्रह्माभिन्नकूटस्थप्रत्यक्स्वरूपः सर्वसाक्षीति चिद्रूपानुभवसिद्धिर्भूयात्॥७॥
- जीवत्वापादकं विशेषणं यत् तदधिष्ठानस्य कूटस्थ इति नाम।
- सर्वसाक्षि ब्रह्मैव।
स्वात्मनोऽन्यत्वेन प्रतिभातं सकलं साक्ष्यं जगत्, स्वाविद्याविलसितत्वेन स्वानन्यत्वात् स्वात्ममात्रमिति, अद्वितीयब्रह्मात्मानुभवसिद्धिर्भूयात्॥८॥
- स्वप्रकाशोऽपि साक्ष्येव धीवृत्त्या व्याप्यतेऽन्यवत्।
- साक्षिणो विषयभूतमज्ञानादिकं साक्ष्यं इत्युच्यते।
- सविलासाविद्यानिवृत्तेरधिष्ठानब्रह्मचैतन्यमात्रत्वान्न ततोऽतिरिच्यते सा।
असम्भावनाविपरीतभावनारहितत्वेन करतलामलकवत् अहं ब्रह्मास्मीति अप्रतिबद्धापरोक्षब्रह्मसाक्षात्कारो दृढीभूयात्॥९॥
- असंभावना संशयः।
- विपरीतभावना विपर्ययः।
- विघ्नो नाम पापमेव। पापेन प्रतिबद्धानि भूत्वा शुभकार्याणि न सिद्ध्यन्ति।
- ‘अस्ति ब्रह्म’ इति ज्ञानं परोक्षम्। ‘अहमेव ब्रह्म’ इति ज्ञानं अपरोक्षम्।
यो ब्रह्मादिस्तम्बपर्यन्तानां सर्वेषां प्राणिनां देहमध्ये तत्तद्देहसाक्षित्वेन भासमानः, परिपूर्णात्माऽस्ति, सोऽयं परमात्मा, केवलं मुमुक्षोः पुरुषस्य मे, स्वरूपमित्येवंरूपात्मसाक्षात्कारो दृढीभूयात्॥१०॥
- शरीरव्यक्तिभेदात् ‘त्वं,’ ‘अंह’ ‘अयं’ इत्यादिव्यवहारभेदाच्चात्मनानात्वानुमानं न प्रमाणम्। स्थूलसूक्ष्मकारणशरीराणां जाग्रत्स्वप्नशरीराणां च भेदेऽपि अहमहमिति प्रत्यभिज्ञायमानस्यात्मनो भेदाभावात्।
- ‘त्वं तत्’ इत्युक्त्या त्वंपदार्थस्य तत्पदार्थेनाभेद उक्तो भवति। तत्पदार्थस्यार्थो व्यापकत्वम्। तेन परिच्छिन्नत्वभ्रमो निवर्तते।
- असिद्धे नित्यनिरतिशयैकविधसुखप्राप्तावेवेच्छा नैसर्गिकी सर्वप्राणिनाम्। … तस्मात् सर्वेऽपि मुमुक्षव एव।
- मुमुक्षुता नाम तीव्रतरमोक्षेच्छा।
वासनाक्षयमनोनाशतत्वज्ञानाभ्यासवशात् ज्ञानरक्षा तपःसिद्धिः सर्वसमत्वं दुःखनिवृत्तिः सुखाविर्भाव इत्येतत् पञ्चप्रयोजनसिद्धिर्भूयात्॥११॥
तत्त्वानुसन्धाने चतुर्थपरिच्छेदे द्रष्टव्यम् –
- विवेकदोषदर्शनसत्सङ्गसन्निधित्यागप्रतिकूलवासनोत्पादनेन मलिनवासनानामन्तःकरणगतानामनुत्पादो वासनाक्षयाभ्यासः।(४.४)
- रजस्त्मोवृत्तिभिरुपचीयमानमन्तःकरणं पीनमात्मदर्शनायोग्यं भवतीत्यतस्तत्सिद्ध्यर्थं वृत्तिनिरोधेन सूक्ष्मतापादनं मनसो नाश इच्युच्यते॥ (४.५)
- उत्पन्नस्य तत्त्वज्ञानस्याभ्यासो नाम पुनःपुनः केनाप्युपायेन तत्त्वानुसन्धानम्। (४.२)
तत्त्वानुसन्धाने चतुर्थपरिच्छेदे द्रष्टव्यम् (४.१८) –
- उत्पन्नब्रह्मसाक्षात्कारस्य पुनःपुनः संशयविपर्ययानुत्पादो ज्ञानरक्षा।
- ज्ञानिनो जीवन्मुक्तस्याखिलवृत्तीनामनुदयान्निरङ्कुशं चित्तैकाग्र्यं संपद्येत, तदेव तपः। तच्च लोकसङ्ग्रहाय भवति।
- सर्वसमत्वं विसंवादः। जीवन्मुक्तस्य व्युत्थानदशायामसकृत्कृतनिन्दानिश्रवणेऽपि पाखण्डकृतनिष्ठुरादिदर्शनादावपि चित्तवृत्त्यनुदयाद्विसंवादो न भवति।
- दुःखनिवृत्तिर्द्विविधा – ऐहिकदुःखनिवृत्तिरामुष्मिकदुःखनिवृत्तिश्चेति।
- मुक्तस्य ज्ञानयोगाभ्यासेन अज्ञानतत्कृतावरणविक्षेपनिवृत्त्या बाधकाभावात् परिपूर्णब्रह्मानन्दानुभवः सुखाविर्भावः।
मैत्री-करुणा-मुदितोपेक्षारूपसद्वासनापाटवेन रागादिदुर्वासनाक्षयः सम्यग्भूयात्॥१२॥
तत्त्वानुसन्धाने चतुर्थपरिच्छेदे द्रष्टव्यम् –
- मलिनवासना जन्महेतवः। प्रतिकूलवासना मैत्र्यादिवासनाः। (४.४)
- सुखिप्राणिष्वेते मदीया इति मत्रिं, दुःखिप्राणिषु यथा मम दुःखं मा भूदेवमन्येषामपि दुःखं मा भूदिति करुणां, पुण्यकारिषु पुरुषेषु मुदितां, पापिषूपेक्षां भावयतो रागद्वेषासूयामदमात्सर्यादिनिवृत्त्या चित्तप्रसादो भवति। (४.४)
निरन्तरस्वात्मानुसन्धानवशात् मनसो वृत्तिरूपपरिणामत्यागेन, निरुद्धताकारेण, आत्मपरिणामो दृढीभूयात्॥१३॥
शमादिपूर्वकश्रवणमनननिदिध्यासनाभ्यासबलात् विषयासक्तिः प्रज्ञामान्द्यं विपर्ययः दुराग्रहश्चेति वर्तमानप्रतिबन्धचतुष्टयनिवृत्तिद्वारा अप्रतिबद्धापरोक्षब्रह्मसाक्षात्कारो दृढीभूयात्॥१४॥
- इष्टवस्तुषु ‘अहं’, ‘मम’ इति दृढतरवासनारूपा विषयासक्तिः
- परोक्तार्थग्रहणसामर्थ्याभावरूपबुद्धिमान्द्यम्
- आचार्याद्याप्तोक्तार्थे विश्वासाभावादन्यथाकल्पनरूपः कुतर्कः (विपर्ययः)
-
देहादिष्वात्मबुद्धिरूपो विपर्ययाख्यदुराग्रह
इत्येतच्चतुष्टयं वर्तमानप्रतिबन्धः।
उपक्रमादिषड्विधलिङ्गैः अशेषवेदान्तानां अद्वैते ब्रह्मणि तात्पर्यावधारणं दृढीभूयात्॥१५॥
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये॥
उपक्रमोपसंहारादिषड्विधलिङ्गैर्वेदान्तवाक्यानामद्वैते प्रत्यगात्मनि तात्पर्यनिर्णयानुकुलचेतोवृत्तिः श्रवणम्।
श्रीगुरुमुखात् श्रुताद्वितीयवस्तुनो वेदान्तानुगुणयुक्तिभिः अनवरतमनुचिन्तनं भूयात्॥१६॥
- मननं नाम प्रत्यग्ब्रह्मैक्यसाधकतद्भेदबाधकयुक्तिभिः सदाऽद्वितीयब्रह्मात्मैक्यानुसन्धानम्।
- अनुमान-उपमान-अर्थापत्तिक-युक्तित्रयमभेदसाधकम्।
- अनुमान-उपमान-अर्थापत्तिक-अनुपलब्धि-युक्तिचतुष्टयं भेदबाधकम्।
विजातीयदेहादिप्रत्ययानन्तरितसजातीयसच्चिदानन्दात्मप्रत्ययप्रवाहो निरन्तरं भूयात्॥१७॥
भेदप्रत्यय(अनात्मप्रत्यय)अनन्तरितब्रह्माकारप्रत्ययप्रवाह एव निदिध्यासनं उमुच्यते।
असङ्गोऽहं चिदात्माहमिति प्रत्यगात्मनि निवेशिते, वृत्तिरहित्ते संस्कारशेषमात्रतया सूक्ष्मरूपेणावस्थिते चित्ते आत्मनः स्वरूपभूतपरमानन्दो निरन्तरं सम्यगाविर्भूयात्॥१८॥
- समाधिशब्देन त्रिपुटीभानरहितनिर्विकल्पकसमाधिरभिधीयते।
- निर्विकल्पसमाधौ सवृत्तिकान्तःकरणस्य सत्त्वेऽपि न प्रतीतिः।
अहमात्मा साक्षी केवलः चिन्मात्रस्वरूपः, नाज्ञानं नापि तत्कार्यं, किन्तु नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दाद्वयं ब्रह्मैवाहमस्मीति अभेदेनावस्थानं समाधिः। तत्र च अन्तःसमाधिना दृग्दृश्यविवेके, बहिःसमाधिना ब्रह्मसर्गविवेके च दृढे जाते, तेन विवेकद्वयेनायं गलितदेहाभिमानः विज्ञातपरमात्मतत्वश्च भूयात्॥१९॥
देहाद्बहिः सकलनामरूपात्मकेषु वस्तुष्वपि, सर्पधारादिषु रज्जुरिव व्याप्तः, सच्चिदानन्दलक्षणो यः परमात्मा, स एव परशब्देनोच्यते। अन्तः अहमादिदृश्यविलक्षणः, अस्मत्प्रत्ययालम्बनभूतः, प्रत्यक्चिन्मात्रस्वरूपः यः साक्ष्याख्योजीवात्मा, स एव अवरशब्देनोच्यते। परश्चासौ अवरश्चेति परावरः प्रत्यगभिन्नः परमात्मा। तस्मिन्नेवं अन्तर्बहिश्च पररूपेण अवररूपेण च अवस्थिते, परमार्थतः परावरविभागरहिते प्रत्यगभिन्ने परावरे ब्रह्मणि, “त्वं वा अहमस्मि भगवो देवते”, अहं वै त्वमसि इति श्रुत्यनुसारेण “अहं ब्रह्मास्मि”, “ब्रह्मैवाहमस्मि” इति व्यतिहारेण, अखण्डैकरसत्वेन साक्षात्कृते सति, तेन परावरब्रह्मसाक्षात्कारेण अस्य परावरब्रह्मसाक्षात्कृतवतो मम हृदयग्रन्थिभेदसर्वसंशयनिवृत्तिसर्वकर्मक्षयरूपपरमपुरुषार्थः सम्यगाविर्भूयात्॥२०॥
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे॥ (मु॰उ॰२.२.९)
अहङ्कारात्मनोः एकत्वभ्रमनिवृत्तिरूपोऽयं ग्रन्थिभेदः दृढीभूयात्॥२१॥
आत्मा देहादिव्यतिरिक्तो वा न वा, व्यतिरिक्तत्वेऽपि कर्तृत्वधर्मयोगी वा न वा, अकर्तृत्वेऽपि तस्य ब्रह्मणा भेदोऽस्ति वा न वा, अभेदेपि तज्ज्ञानं कर्मादिसहितं वा मुक्तिसाधनं केवलं वा, तथापि आत्मा साक्षी वा कर्ता वा, साक्षित्वेपि अस्य ब्रह्मत्वमस्ति वा न वा, ब्रह्मत्वे सत्यपि तद्बुद्ध्या वेदितुं शक्यते वा न वा, शक्यत्वेऽपि तद्वेदनमात्रेण मुक्तिरस्ति वा न वा, मम परमार्थतः ब्रह्मत्वे सत्यपि तादृग्रूपं साक्षात्कृतं वा न वा, साक्षात्कृतेऽपि इतःपरं कर्तव्यमस्ति वा न वा, कर्तव्याभावेऽपि इदानीं मम जीवन्मुक्तिरस्ति वा न वा, जीवन्मुक्तत्वेऽपि वर्तमानदेहपातानन्तरं विदेहमुक्तिः भविष्यति वा न वा, तत्प्राप्तावपि कालान्तरे पुनर्जन्म भविष्यति वा न वा, इत्यादिसर्वसंशयनिवृत्तिर्भूयात्॥२२॥
अनारब्धानां आगामिजन्महेतूनां अनेककोटिजन्मार्जितानां प्रारब्धव्यतिरिक्तानां सञ्चितकर्माणां निवृत्तिरूपः परमपुरुषार्थः सम्यगाविर्भूयात्॥२३॥
यः पूर्णानन्देकबोधः तद्ब्रह्माहमस्मीति ब्रह्मात्मानुभवमात्रपर्यवसाने बुद्धिर्निरन्तरं भूयात्॥२४॥
यस्मिन् काले द्वैतभानं नस्ति, निद्राऽपि नागच्छति, तस्मिन् काले उपलभ्यमानं यत्सुखमस्ति स ब्रह्मानन्द इति ब्रह्मात्मानुभवसिद्धिः निरन्तरं भूयात्॥२५॥
- सुषुप्तावन्तःकरणवृत्तिर्ब्रह्माकारतां न प्राप्नोति। किन्तु कारणाज्ञानात्मतां भजते।
- निर्विकल्पसमाधौ तु ब्रह्माकारतयान्तःकरणवृत्तिर्वर्तते।
मनोव्यापाराभावसमये यत्सुखं भासते, तत् सुखमात्मस्वरूपमिति आत्मनिश्चयः सम्यग्भूयात्॥२६॥
स्वप्नः स्वातिरेकेण यथा नास्ति, तथैव स्वजाग्रदपि स्वातिरेकेण नास्ति, तेन अद्वीतीयात्मानुभवसिद्धिः सम्यग्भूयात्॥२७॥
- स्वप्नज्ञानं प्रत्यक्षम्। न जाग्रत्पदार्थानां स्मृतिरूपम्।
- जाग्रत्प्रपञ्चः सामग्रीं विनोत्पद्यते। तस्मात् स्वप्नप्रपञ्चवज्जाग्रत्प्रपञ्चोऽपि मिथ्यैव।
वासनाक्षयमनोनाशाभ्यां निर्वासने वृत्तिशून्ये चित्ते संशयविपर्ययदोषद्वयाभावेन उत्पन्नं ब्रह्मज्ञानं अबाधितत्वेन सुरक्षितं भूयात्॥२८॥
पञ्चम्यादिभूमिकात्रयरूपायां जीवन्मुक्तौ सम्पाद्यमानायां द्वैतभानाभावेन संशयविपर्ययप्रसङ्गाभावात् उत्पन्नं तत्त्वज्ञानं अबाधितत्वेन सुरक्षितं भूयात्॥२९॥
᳚”ज्ञानभूमिः शुभेच्छा स्यात् प्रथमा समुदाहृता।
विचारणा द्वितीया स्यात् तृतीया तनुमानसी॥
सत्त्वापत्तिः चतुर्थी स्यात्ततोऽसंसक्तिनामिका।
पदार्थभाविनी षष्ठी सप्तमी तुर्यगा स्मृता॥’ इति
भूमिकास्तिस्रः श्रवणमनननिदिध्यासनात्मिकाः। चतुर्थ्यां भूमौ साक्षात्कारोदयः। अत एव चतुर्थभूमिनिष्ठो ब्रह्मविदित्युच्यते।
पञ्चम्यादिभूमिनिष्ठानां विश्रान्तितारतम्येन दृष्टसुखतारतम्याद्वरवरीयोवरिष्ठा इत्युच्यन्ते। एते त्रयोऽपि जीवन्मुक्ता एव। (त॰अ॰ ४.१९ अ॰चि॰कौ)
स्वप्ने स्थूलशरीराभावेऽपि सुषुप्तौ सूक्ष्मशरीराभावेऽपि समाधौ कारणशरीराभावेऽपि जाग्रदाद्यवस्थाचतुष्टयेऽपि, यः चिद्रूपात्मा मणिषु सूत्रमिव अनुस्यूततया निरन्तरं भासते, स चिद्रूपात्मैव अहमस्मीति अन्वयव्यतिरेकाभ्यां शरीरत्रयव्यावृत्तिं तत्साक्षिचैतन्यस्यानुवृत्तिं च पश्यतो मम शरीरत्रयव्यतिरिक्तात्मानुभवः सम्यग्भूयात्॥३०॥
भगवन्तं परमेश्वरं प्रीतिपूर्वकं भजतो ममोपरि अनुग्रहार्थं भगवान् वासुदेवः आत्मभावस्थः सन् विवेकप्रत्ययरूपेण भक्तिप्रसादस्नेहयुक्तेन तद्भावनाभिनिवेशवातेरितेन ब्रह्मचर्यादिसाधनसंस्कारवत्प्रज्ञावर्तिना विरक्तान्तःकरणाधारेण विषयव्यावृत्तरागद्वेषाकलुषितचित्तनिवातापवरकस्थेन नित्यप्रवृत्तैकाग्र्यध्यानजनितसम्यग्दर्शनभास्वता ज्ञानदीपेन अज्ञानजं अविवेकतो जातं मिथ्याप्रत्ययरूपं मोहान्धकारं तमो नाशयत्वित्याशीः निरन्तरं भूयात्॥३१॥
गीताभाष्यं द्रष्टव्यम् (१०.१०-११)
परमेश्वरं प्रीतिपूर्वकं भजन्तो भक्ता येनानन्यबुद्धियोगेन सम्यग्दर्शनलक्षणेन भगवन्तं परमेश्वरं आत्मत्वेन उपयान्ति प्रतिपद्यन्ते, तं बुद्धियोगं भगवान् वासुदेवः मे ददातु इति आशीर्निरन्तरं भूयात्॥३२॥
विकारमन्तरेण स्वाध्यस्तं सर्वं साक्षादव्यवधानेन स्वरूपबोधेन ईक्षते पश्यतीति साक्ष्यनुभवसिद्धिः सम्यग्भूयात्॥३३॥
सविकल्पसमाधौ यद्यपि त्रिपुटीरूपद्वैतप्रतीतिरस्ति, तथापि तद् द्वैतं कारणब्रह्मात्मनैव प्रतीयते। न पृथक्।
देहेन्द्रियादिसकलजडावभासकत्वेन आत्मा चिद्रूप इति चिदात्मानुभवसिद्धिः सम्यग्भूयात् ॥३४॥
आत्मनि कदाचिदपि अप्रियाभावेन परमप्रेमास्पदत्वेन च आत्मा परमानन्दरूप इत्यानन्दात्मानुभवसिद्धिः सम्यग्भूयात्॥३५॥
अभारूपस्य विश्वस्य भानं भासकसन्निधिं विना कदाचिदपि न सम्भवतीति भारूपात्मा सर्वगत इति सर्वगतात्मानुभवसिद्धिः सम्यग्भूयात्॥३६॥
असज्जडदुःखात्मकाहङ्कारादिभ्यो विलक्षणतया प्रातिकूल्येन सत्यज्ञानानन्दरूपेण अञ्चति प्रकाशत इति, प्रत्यगात्मानुभवसिद्धिः सम्यग्भूयात्॥३७॥
पश्चाद्भासमानस्य जडस्य प्रथमतो भासमानं चैतन्यमेव वास्तवं स्वरूपमिति निश्चित्य जडमुपेक्ष्य चिन्मात्रमेव चित्तं निरन्तरं सम्यग्भूयात्॥३८॥
“सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति” इति वाक्येन देहेन्द्रियादिसाक्षिरूपं यत् प्रज्ञानं त्वम्पदार्थरूपं निर्णीतं, तदेव “एष ब्रह्म” इत्यादिवाक्येन जगत्कारणतया निर्णीतं परं ब्रह्म, न चानयोरीषदपि भेदोऽस्ति इत्यैतरेयमहावाक्यज्ञानसिद्धिः निरन्तरं भूयात्॥३९॥
यतः सर्वत्रावस्थितं प्रज्ञानं ब्रह्म, अतो मयि अवस्थितं प्रज्ञानं ब्रह्म, प्रज्ञानत्वाविशेषात् इत्यैतरेयमहावाक्योत्थितजीवब्रह्मैक्यज्ञानसिद्धिः निरन्तरं भूयात्॥४०॥
आत्मसन्निधौ विद्यमानत्वेन जडरूपस्यापि देहेन्द्रियादेः चेतनत्वेन भासमानत्वात्, आत्मा चिद्रूप इति चिदात्मानुभसिद्धिः सम्यग्भूयात्॥४१॥
आत्मसहितत्वेन दुःखात्मकस्य देहादेरपि प्रियतमत्वात्, आत्मा परमानन्दरूप इत्यानन्दात्मानुभवसिद्धिः सम्यग्भूयात्॥४२॥
देशतः कालतो वस्तुतः परिच्छेदरहिताद्वितीयात्मानुभवसिद्धिः सम्यग्भूयात्॥४३॥
पूर्वापरपरामर्शमन्तरेण सहसोत्पद्यमानस्य क्रोधादिवृत्तिविशेषस्य हेतोः चित्तसंस्कारस्य, विवेकजन्यायां क्षान्त्यादिवासनायां दृढायां सत्यां विनाशात्, बाह्यनिमित्ताभावेन क्रोधाद्यनुत्पत्तिः सम्यग्भूयात्॥४४॥
“यस्य प्रसादादहमेव विष्णुः, मय्येव सर्वं परिकल्पितं च” इति, आत्मस्वरूपं विजानामि, तस्य पादारविन्दयोः अचञ्चला भक्तिः निरन्तरं सम्यग्भूयात्॥४५॥
यस्य प्रसादादहमेव विष्णुः मन्येव सर्व परिकल्पितं च।
इत्थं विजानामि सदात्मरूपं तस्याङ्घ्रिपद्मं प्रणतोऽस्मि नित्यम्॥ वाक्यवृत्तिः २॥
अचिद्रूपस्य जगतः चित्सन्निधेर्विद्यमानत्वात्, चिद्रूपात्मा सर्वगत इति सर्वगतात्मानुभवसिद्धिः सम्यग्भूयात्॥४६॥
सर्वार्थसाधकत्वहेतुना सर्वसंबन्धेन च आत्मा परिपूर्ण इति परिपूर्णात्मानुभवः सम्यग्भूयात् ॥४७॥
देशकालाव्यवहितत्वेन परोक्षहेतोरभावात्, साधनान्तरनिरपेक्षतया स्वयंप्रकाशमानः चिदात्मा सर्वदा स्वतःसिद्धापरोक्ष इति अपरोक्षानुभवसिद्धिः सम्यग्भूयात्॥४८॥
यत्र यद्वस्तु अस्तीति ईक्षते तेन वस्तुना अन्यत्र अनन्वागतत्वेन आत्मा असङ्ग इति, असंसर्गात्मानुभवः सम्यग्भूयात्॥४९॥
निरवयवत्वेन असङ्गत्वेन च, आत्मनः केनापि सम्बन्धाभावात्, आत्मा नित्यमुक्त इति, नित्यमुक्तस्वरूपात्मानुभवः सम्यग्भूयात्॥५०॥
- ब्रह्मप्राप्तिस्तु न वेदान्तश्रवणफलम्, ब्रह्मणः स्वस्वरूपतया नित्यप्राप्तत्वात्।
अवेद्यत्वे सति अपरोक्षव्यवहारयोग्यत्वात्, आत्मा स्वयंप्रकाश इति स्वयंप्रकाशात्मानुभवः सम्यग्भूयात्॥५१॥
यदा स्वस्वरूपभूत एव परमानन्दो बुद्धाववभासते, तदैव स अपूर्वतया प्राप्तवद् व्यवह्रियते।
साधनान्तरनिरपेक्षतया स्वयमेव भासमानत्वात्, आत्मा स्वयंप्रकाश इति स्वयंप्रकाशात्मानुभवः सम्यग्भूयात्॥५२॥
इदं सर्वम् आत्मनि प्रतीयमानं यत् रूपरसादिकं जगत् मायामयं, न त्वेतत् वस्तुतोऽस्तीति तत्त्वनिश्चयो दृढीभूयात्॥५३॥
इति श्रीमत्परमहंसपरिव्राजकश्रीविद्यारण्यमुनिविरचितो ब्रह्मविदाशीर्वादः संपूर्णः॥