ॐ गुरुपरमात्मने नमः

- १-३९ प्रथमतरङ्गः -- अनुबन्धानां सामान्यतो निरूपणम्
- १४-३८ साधनचतुष्टयनिरूपणम्
- १५-३२ अधिकारिनिरूपणम्
- २४-२६ ज्ञाने मुख्यान्तरङ्गसाधनश्रवणादीनां लक्षणम्


आवर्तः २५ – मननलक्षणम्

मननं नाम *१ प्रत्यग्ब्रह्मैक्यसाधक-तद्भेदबाधकयुक्तिभिः *२ सदाऽद्वितीयब्रह्मात्मैक्यानुसन्धानम्।

manana is anusandhāna of brahma with yuktis that support pratyag brahma aikya, and yuktis that oppose it’s bheda.

*१. ऐक्य साधकयुक्तयः

(1) अनुमानप्रमाणम् – यत् सच्चिदानन्दस्वरूपं, न तत् ब्रह्मणो भिद्यते। यत् सच्चिदानन्दस्वरूपं न भवति तत् ब्रह्मणो भिद्यते। यथेश्वरः सच्चिदानन्दस्वरूपत्वादेव ब्रह्मणो न भिद्यते, व्यावहारिको घटादिस्त्वनृतजडदुःखात्मकत्वेन सच्चिदानन्दस्वरूपत्वाभावाद्ब्रह्मणो भिद्यते। एवं जीवोऽपि ब्रह्मैव, सच्चिदानन्दस्वरूपत्वात् ईश्वरवत् इत्यनुमानम्।

(2) उपमानप्रमाणम् – यथा घटाकाशमठाकाशयोर्घटमठरूपोपाधी विना न स्वतो भेदोऽस्ति, तथा अन्तःकरण(बुद्धि)मायारूपोपाधी अन्तरा जीवब्रह्मणोरपि भेदो नैव सिद्ध्यति।

(3) अर्थापत्तिप्रमाणम् – “नेह नानास्ति किञ्चन” (बृ.4.4.19), ( क. 2.1.11), “न तु तत् द्वितीयमस्ति” (बृ. 4.3.23), “अतोऽन्यदार्तम्” (बृ. 3.7.23) इत्यादिश्रुत्युक्तभेदनिन्दान्यथानुपपत्त्या वस्तुतोऽभेदासिद्धौ श्रुतिवैयर्थ्यप्रसङ्गादवश्यमैक्यमभ्युपेयम्। यथा देवदत्तशरीरगतपीनत्वबुद्धया भोजनाभावबुद्धिर्बाध्यते, एवं भेदधीरपि “नेह नानास्ति” (बृ.4.4.19), ( क. 2.1.11), “नेति नेति” (बृ.2.3.6) इत्यादिश्रुतिभिर्बाध्यत एव। इदं च युक्तित्रयमभेदसाधकम्।

*२. भेदबाधकयुक्तय

(1) अनुमानप्रमाणम् – प्रत्यक्परचितोर्भेदो मिथ्या, उपाध्यधीनत्वात् घटाकाशमठाकाशयोः भेदवत्। यन्नैव तन्नैवं (यदौपाधिकं न भवति तन्मिथ्या न भवति), यथा व्यावहारिकघटपटादिभेदः औपाधिकत्वाभावादेव सत्यः (न मिथ्या) तद्वत्। अत एव यत्र यत्रोपाधिनिबन्धनो भेदस्तत्र तत्र मिथ्यैव सः।

(2) उपमानप्रमाणम् – यथा बिम्बप्रतिबिम्बयोर्भेदो मिथ्या तथा जीवब्रह्मणोरपि।

(3) अर्थापत्तिप्रमाणम् – महावाक्यैरुपनिषत्सु जीवब्रह्मणोरभेद एव निश्चितः। यदि प्रतीयमानोऽपि भेदो वस्तुतो न मिथ्या स्यात्तर्हि महावाक्यैरभेदो न प्रतिपाद्येत, प्रतिपाद्यते तु। तस्मादर्थापत्तिप्रमाणादपि जीवब्रह्मणोः भेदो मिथ्यैव।

(4) अनुपलब्धिप्रमाणमपि - जाग्रत्स्वप्नयोरुपाधेः सत्वाज्जीवब्रह्मणोर्भेदः प्रतीयते। सुषुप्तौ तदभावाद्भेदो नैवोपलभ्यत इत्यतो जीवब्रह्मणोर्भेदः परमार्थतो नैवेति निश्चीयते। इत्यनुपलब्धिप्रमाणम्।

एवमेता भेदखण्डनयुक्तयः।