ॐ गुरुपरमात्मने नमः

- १-३९ प्रथमतरङ्गः -- अनुबन्धानां सामान्यतो निरूपणम्
- १४-३८ साधनचतुष्टयनिरूपणम्
- १५-३२ अधिकारिनिरूपणम्

- १५-३२ ज्ञाने मुख्यान्तरङ्गसाधनश्रवणादीनां लक्षणम्

आवर्तः २४ – श्रवणलक्षणम्

वस्तुतो विचार्यमाणे श्रवणादीन्यपि नान्तरङ्गसाधनानि ज्ञानस्य, किन्तु तत्त्वमस्यादिमहावाक्यान्येव, प्रमाणफलत्वात् ज्ञानस्य।

“तं त्वौपनिषदं पुरुषम्” (बृ.3.9.26),
“वेदान्तविज्ञानसुनिश्चितार्थाः” (मु.3.2.6) इत्यादिश्रुतिभ्यः।

श्रवणं नाम युक्त्या *२ षड्विधतात्पर्यलिङ्गैर्वेदान्तवाक्यानामद्वितीये प्रत्यगभिन्नब्रह्मणि तात्पर्यनिर्णयानुकूलचेतोवृत्तिविशेषः।

With proper inquiry, even śravaṇa etc are not ataraṅga sādhanas for jñāna. It is the mahāvākyas such as ‘tat tvam asi’ alone, and jñāna is the result of their pramāṇa.

śravaṇa is the vr̥tti-viśeṣa with determination of the tātparya of the vedānta vākyas in pratyag-abhinna-brahma with the yuktis and six-fold tātparya liṅgas.

*२. धूमज्ञानेन वह्निज्ञानस्य जायमानत्वाद्यथा धूमो वह्निनिश्चये लिङ्गं, तथाऽद्वैतस्वरूपे प्रत्यगभिन्नब्रह्मणि वेदान्तानां तात्पर्यमिति, उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गनिर्णीयमानत्वात्तानि तात्पर्यलिङ्गानीत्युच्यन्ते। युक्तिशब्देन चैतानि लिङ्गानि गृह्यन्ते। तानि च लिङ्गानि षडिधानि –

“उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये॥” इति वचनात्।

Just as the smoke is the liṅga to determine fire, so also the determination of pratyag abhinna brahma as the tātparya of the vedānta vākyas is based on the six tātparya liṅgas.

They are – 1. upakrama and upasamhāra, 2. abhyāsa, 3. apūrvatā, 4. phalam, 5. arthavāda and 6. upapatti.

(1) छान्दोग्ये षष्ठप्रपाठके “सदेव सोम्य इदमग्र आसीदेकमेवाद्वितीयम्” (छा.6.2.1) इति प्रकरणोपक्रमे योऽर्थ उक्तः स एव उपसंहारे ऽपि “ऐतदात्म्यभिदꣳ सर्वं तत्सत्यं स आत्मा” (छा.6.16.3) इत्युपसंहृतः। इत्युपक्रमोपसंहारैकरूप्यमेकं लिङ्गम्।

In the sixth prapāṭhaka of the chāndogya upaniṣat, the tātparya meaning is given in the beginning and end. This is the first liṅga.

(2) यथा अर्थी पुरुषः स्वाभिलषितमर्थं भिन्नभिन्नवाक्यैः पुनः पुनः प्रकटीकुर्यादेवं भिन्नभिन्नयुक्तिमद्वचनैः प्रत्यग्ब्रह्मैक्यं “तत्त्वमसि” (छा.6.8.7) इति नवकृत्वः पुनः पुनः अभ्यस्यते। इत्यभ्यासोऽपि द्वितीयं लिङ्गम्।

Just as an arthī describes his desires again and again with different sentences, so also the mahāvākya is repeated nine times. This is the second liṅga.

(3) अद्वितीयं प्रत्यगभिन्नं ब्रह्म वेदान्तेतरप्रमाणागम्यमिति स्वप्रकाशत्वेन नित्यापरोक्षमिति चार्थः “श्रद्धत्स्व सोम्य” (छा.6.12.2), “आचार्यवान् पुरुषो वेद” (छा 6.14.2) इति गुरुवेदान्तवाक्यश्रद्धामात्रसमधिगम्यत्वबोधकवचनैर्गम्यत इत्यपूर्वतापि तृतीयं लिङ्गम्।

The advitīya brahma which is svaprakāśa and nitya aparokṣa cannot be known through any other pramāṇa. These vākyas which require śraddhā in guru and vedānta vākya is the third liṅga.

(4) “तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये” (छा.6.14.2) इत्यनेन कार्यकरणसङ्घाताद्व्यावृत्तो “ब्रह्मवित् ब्रह्मैव भवती”त्यद्वैतब्रह्मभावापत्तिरूपफलं प्रतिपाद्यत इति फलं चतुर्थं लिङ्गम्।

The fourth liṅga is the result, which is brahmabhāva āpatti.

(5) “तदैक्षत बहु स्यां प्रजायेय, तत्तेजोऽसृजत” (छा. 6.2.3) इत्यादिसृष्टिवाक्यैर्भेदनिन्दापूर्वकमभेदः स्तूयत इत्यर्थवादोऽपि पञ्चमं लिङ्गम्।

The fifth liṅga is arthavāda seen through bheda nindā vākyas, which accomplish abheda stuti.

(6) प्रतिपिपादयिषितस्याद्वैतस्यानुकूलदृष्टान्तप्रदर्शनमुपपत्तिः।

“यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्” (छा.6.1.4)
“यथा सोम्यैकेन लोहमणिना” (छा.6.1.5)
“यथा सोम्यैकेन नखनिकृन्तनेन” (छा.6.1.6)
“एवमेव खलु सोम्यान्नेन शुङ्गेनापो मूलमन्विच्छाद्भिः सोम्य शुङ्गेन तेजो मूलमन्विच्छ तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ सन्मूलाः सोम्येमाः सर्वाः प्रजाः सदायतनाः सत्प्रतिष्ठाः” (छा.6.8.4)

इत्यादिवचनैः कारणसद्रूपव्यतिरेकेण कार्यं नास्त्येव, मायामात्रमिदं दृश्यमिति मृल्लोहादिदृष्टान्तमुखेन जगत्सर्वं प्रत्यक्चेतनं ब्रह्मैवेत्युपपत्तिरुच्यत इत्युपपत्तिरपि षष्ठं लिङ्गम्।

The upapatti is appropriate examples showing the desired advaita. The upaniṣat shows that there is no effect apart from the cause, and all that is seen is māyā, through the examples of clay, iron etc. The entire jagat is pratyak cetana brahma. This is the sixth liṅga.

एवमुपक्रमोपसंहारादिषड्विधलिङ्गैर्वेदान्तवाक्यानामद्वैते प्रत्यगात्मनि तात्पर्यनिर्णयानुकुलचेतोवृत्तिः श्रवणम्। एवमेव सर्वेषामपि वेदान्तानामद्वैते तात्पर्यावधारणं बोध्यम्।

उपक्रमः = प्रकरणारम्भः, उपसंहारः = प्रकरणसमाप्तिः॥

In the same way, all of vedānta has it’s tātparya in advaita.