ॐ गुरुपरमात्मने नमः

- १-३९ प्रथमतरङ्गः -- अनुबन्धानां सामान्यतो निरूपणम्
- १४-३८ साधनचतुष्टयनिरूपणम्
- १५-३२ अधिकारिनिरूपणम्
- २४-२६ ज्ञाने मुख्यान्तरङ्गसाधनश्रवणादीनां लक्षणम्


आवर्तः २६ – निदिध्यासनलक्षणम्

भेदप्रत्यय(अनात्मप्रत्यय)अनन्तरितब्रह्माकारप्रत्ययप्रवाह एव *१ निदिध्यासनं उमुच्यते। निदिध्यासनपरिपाकावस्थैव समाधिः इति, निदिध्यासनेऽन्तर्भावान्न *२ समाधिः पृथक्साधनत्वेन गण्यते।

nididhyāsana is the brahmākāra pratyaya flow that is uninterrupted by any other anātma pratyaya. It’s mature form is samādhi. Since samādhi is included in nididhyāsa, it is not enumerated as a separate sādhana.

*१. अयमेव भेदः साक्षात्कारनिदिध्यासनयोः –

स्वयमेव नम्रीभूतवृक्षशाखावत्, विनैव स्वप्रयत्नं, “अहं ब्रह्मास्मि” इति वेदान्तजन्या अनात्माकारवृत्तिरूपान्तरायरहिता ब्रह्माकारवृत्तिः साक्षात्कार उच्यते।

निदिध्यासनं तु स्वप्रयत्नादानमितवृक्षशाखावत्स्वप्रयत्नमात्रसाध्या ब्रह्माकारवृत्तिः। प्रयत्नोपरमे तु शाखाया उन्नमनवत्, निदिध्यासननिवृत्तौ निवर्तेतैव ब्रह्माकारवृत्तिरपि। इति।

sākṣātkāra (samādhi) is the brahmākāra vr̥tti that results, without interruption from other vr̥ttis. It is born from the vedānta vākyas, without special self-effort, just as some tree branches naturally bow downwards.

nididhyāsana is the brahmākāra vr̥tti that results from self-effort, like a tree whose branches do not naturally bow down. When the effort stops, the vr̥tti ceases, just as a forcefully lowered branch goes back upwards.

२. अत्र समाधिशब्देन त्रिपुटीभानरहितनिर्विकल्पकसमाधिरभिधीयते। निदिध्यासनशब्देन ध्यातृध्यानध्येयात्मकत्रिपुटीयुक्तसविकल्पसमाधिरुच्यते। तथा चोक्तं पञ्चदश्याम् –

“ताभ्यां निर्विचिकित्सेऽर्थे चेतसः स्थापितस्य यत्।
एकतानत्वमेतद्धि निदिध्यासनमुच्यते॥ (तत्त्व.54)

ध्यातृध्याने परित्यज्य क्रमात् ध्येयैकगोचरम्।
निवातदीपवच्चितं समाधिरभिधीयते॥” (तत्त्व.55) इति।

samādhi has no tripuṭīs, and is nirvikalpaka. nididhyāsana has the tripuṭīs, and is savikalpaka.