ॐ गुरुपरमात्मने नमः

- १-३९ प्रथमतरङ्गः -- अनुबन्धानां सामान्यतो निरूपणम्
- १४-३८ साधनचतुष्टयनिरूपणम्
- १५-३२ अधिकारिनिरूपणम्


आवर्तः २७ – श्रवणादिप्रयोजननिरूपणम्

श्रवणादिप्रयोजननिरूपणम् – श्रवणादीनि यद्यपि न साक्षाज्ज्ञानसाधनानि, अप्रमाणत्वात्; तथापि तानि ज्ञानप्रतिबन्धकीभूतबुद्धिदोषासंभावनाविपरीतभावनादीन् नाशयन्ति। असंभावना = *३ संशयः। विपरीतभावना = *४ विपर्ययः।

*३. इयं रज्जुर्वा सर्पो वेति कोटिद्वयविषयकं ज्ञानं संशयः

*४. रजौ ‘अयं सर्पः’ इत्यविद्यावृत्तिर्विपर्ययः। अयमेव भ्रान्तिज्ञानं, विपरीतभावना, विपरीतज्ञानं, ज्ञानाध्यास इति चोच्यते। प्रकृते मिथ्याभूतेषु देहादिष्वनात्मसु सत्यत्वबुद्धिः आत्मत्वबुद्धिश्च विपर्ययः

śravaṇa etc are not direct means for jñāna, since the are not pramāṇas. However, they destroy asaṁbhāvanā, viparīta bhāvanā etc, that are buddhi doṣas which are obstacles to jñāna. asaṁbhāvanā = doubt. viparīta bhāvanā = wrong perception.

*३. saṁśaya is jñāna which has two possibilities such as “is this a rope” or “is this is a snake”.

*४. the avidyā vr̥tti concluding “this is a snake” in a rope is viparyaya. This is called bhrānti jñāna, viparīta bhāvanā, viparīta jñāna and jñāna adhyāsa. In the present content, satya buddhi and ātma buddhi in the deha and other anātma padārthas is viparyā.

श्रवणस्योपयोगः – वेदान्तवाक्यं किमद्वितीयं ब्रह्म बोधयति, उत यत्किञ्चिदर्थान्तरमिति *१ प्रेमाणगतसन्देहः श्रवणेन निवर्त्यते।

*१. प्रमाणम् = उपनिषद्वाक्यानि शब्दप्रमाणम्।

the utility of śravaṇa – Do the vedānta vākyas teach brahma that is advitīya, or some other meaning? This doubt about the pramāṇa is removed through śravaṇa. The pramāṇa is the upaniṣad vākyas, i.e. śabda pramāṇa.

मननस्योपयोगः – जीवब्रह्मणोरभेदः सत्यः उत भेद इति *२ प्रेमेयगतसन्देहः। स चानेकप्रकारोऽपि मननेन निवार्यते।

*२. प्रमेयः = मोक्षादिज्ञेयविषयः।

the utility of manana – Is the abheda between jīva and brahma true or false? This is the doubt about the prameya. All kinds of these doubts are removed through manana. The prameyas are mokṣa and other topics.

निदिध्यासनस्योपयोगः – ‘देहादिदृश्यप्रपञ्चः सर्वोऽपि सत्यः, जीवब्रह्मणोर्भेदश्च सत्यः’ इति धीर्विपरीतभावना। सा च *३ निदिध्यासनेन निवार्यते।

*३. एवं संशयद्वये निवृत्तेऽपि साक्षात्कारात् पूर्वमविद्यायाः सत्वात् “अहं ब्रह्म न भवामि, जीव एवाहं; मत्तो भिन्नमेव ब्रह्म; देहादिजगत् सत्यम्” इत्येवंविधानेकसंशयाः [विपर्ययाः] पुनःपुनर्जायेरन्। तन्निवृत्तये सदा निदिध्यासितव्यमेव।

the utility of nididhyāsana – “deha and the perceptible world is true, the bheda between jīva and brahma is true” – this understanding is viparīta bhāvanā. It is removed through nididhyāsana.

When the two saṁśayas are removed, but sākṣātkāra has not yet taken place, due to the presence of avidyā, many viparyayas of the form “I am not brahma; I am jīva only; brahma is different from me; the body and world is true” arise again and again. To remove them, constant nididhyāsana is required.

एवं श्रवणादित्रयं ज्ञानप्रतिबन्धकीभूतासंभावनाविपरीतभावनानिवृतिद्वारा परम्परया अपरोक्षज्ञानसाधनं भवति। न तु साक्षात्।

In this way, śravaṇa etc, through the removal of the ostacles to jñāna that are asaṁbhāvanā and viparīta bhāvanā, are the indrect means to aparokṣa jñāna. Not directly.