ॐ गुरुपरमात्मने नमः

- १-३९ प्रथमतरङ्गः -- अनुबन्धानां सामान्यतो निरूपणम्
- १४-३८ साधनचतुष्टयनिरूपणम्
- १५-३२ अधिकारिनिरूपणम्


आवर्तः २८ – अपरोक्षसाक्षात्साधनम्

ज्ञानस्य *४ साक्षात्साधनं तु श्रोत्रेन्द्रियसंबद्धवेदान्तवाक्यमेव।

*४. नेत्राञ्जनं नेत्ररोगनिवृत्तिद्वारा सूर्यावलोकने उपकरोति नेत्रस्य। नेत्रमेव तु सूर्यं साक्षाद्यथा पश्यति, तथा श्रवणादीन्यपि ज्ञानप्रतिबन्धकीभूतसंशयविपर्ययरूप(दोष)रोगनिवृत्तिद्वारा ब्रह्मज्ञानसाधनानि भवन्ति। साक्षाज्ज्ञानसाधनं तु श्रोत्रसंबद्धमहावाक्यमेव।

The direct means to jñāna is the vedānta vākya what has saṁbandha with the śrotrendriyas.

The netra añjana removes diseases of the eyes and aids the eyes to see the sun. But it is the eyes along that directly perceive the sun. In the same way, śravaṇa etc remove the obstacles to jñāna that are saṁśaya and viparyaya which are like the disease; and thus becomes a means to brahma jñāna. The direct means to jñāna is the mahāvākya which has sambandha with the śrotrendriya alone.

तच्च द्विप्रकारम्। अवान्तरवाक्यं महावाक्यं चेति। जीवात्मपरमात्मस्वरूपप्रतिपादकवाक्यं अवान्तरवाक्यम्। तदैक्यप्रतिपादकवाक्यं महावाक्यं इति चोच्यते। अवान्तरवाक्येन परोक्षमेव ज्ञानं जायते। महावाक्येन त्वपरोक्षमेव।

The vedānta vākya is two-fold – avāntara vākya and mahā vākya. The avāntara vākya describes the svarūpa of jīvātma and paramātma. The mahāvākya teaches their aikya. Only parokṣa jñāna is born of the avāntara vākyas. Through the māhāvākya, aparokṣa jñāna results.

‘अस्ति ब्रह्म’ इति ज्ञानं परोक्षम्। ‘अहमेव ब्रह्म’ इति ज्ञानं अपरोक्षम्। “त्वमेव ब्रह्मासि” इति गुरूपदिष्टमहावक्यश्रवणानन्तरं श्रोतुः शिष्यस्य पुष्कलसाधनसंपन्नस्य “अहं ब्रह्मास्मि” इत्यपरोक्षमेव ज्ञानं जायते। श्रोत्रेणासंबद्धं वाक्यं नैव ज्ञानं जनयेत्। अतः श्रोत्रेन्द्रियसंबद्धमहावाक्यमेवापरोक्षज्ञानहेतुः। महावाक्येन सर्वेषां ज्ञानमपरोक्षमेव जायते, न तु परोक्षमिति नियमः।

The jñāna “brahma is” is parokṣa. The jñāna “I am brahma” is aparokṣa. After the śravaṇa of the upadeśa of the mahāvākya by the guru of the form “you are brahma”, the śiṣya who has sufficient sādhanas gets aparokṣa jñāna of the form “I am brahma”. The vākya which has no sambandha with the śrotra does not produce knowledge. Thus, the mahāvākya which has sambandha with the śrotrendriya along is the means for aparokṣa jñāna. Thus, the mahāvākya generates aparokṣa jñāna alone, and never parokṣa jñāna, by rule.