ॐ गुरुपरमात्मने नमः

- १-३९ प्रथमतरङ्गः -- अनुबन्धानां सामान्यतो निरूपणम्
- १४-३८ साधनचतुष्टयनिरूपणम्
- १५-३२ अधिकारिनिरूपणम्

- १५-३२ महावाक्यमपरोक्षज्ञानहेतुरित्यत्राक्षेपसमाधानानि

आवर्तः २९ – आक्षेपः – वाक्यादेवापरोक्षज्ञाने सति श्रवणादि व्यर्थं भवेत्

अत्र *१ केचिदाक्षिपन्ति –

*१. पञ्चदशप्रकरणादिकृद्विद्यारण्यप्रभृतयः।

(1) श्रवणादीनि महावाक्यानि च समुच्चित्यैवापरोक्षज्ञानं जनयन्ति। केवलानि तु वाक्यानि परोक्षमेव ज्ञानं जनयेयुः, नापरोक्षम्।

(2) केवलवाक्यान्येव यद्यपरोक्षज्ञानं जनयेयुस्तर्हि व्यर्थानि स्युः श्रवणमनननिदिध्यासनानीति।

Here, some – including vidyāraṇya and others – object:

(1) śravaṇa etc and the mahāvākyas together generate aparokṣa jñāna. The vākyas alone only generate parokṣa jñāna, and not aparokṣa jñāna.

(2) if the vākyas alone generate aparokṣa jñāna, then śravaṇa, manana and nididhyāsana would serve no purpose.

न च “केवलमहावाक्यादपरोक्षमेव ज्ञानं जायते, श्रवणादीनां त्वसंभावनाविपरीतभावनानिवृत्तावुपयुक्तत्वान्न व्यर्थते”ति वाच्यम्।

अपरोक्षज्ञानविषये वस्तुनि कस्याप्यसंभावनाविपरीतभावनानुदयात्, केवलादपि महावाक्यादपरोक्षमेव ज्ञानं जायत इति वदतां मते, तत्त्वमस्यादिमहावाक्यैर्ब्रह्मापरोक्षज्ञानोत्पत्त्यनन्तरं असंभावनाविपरीतभावनानुत्पत्तेः श्रवणादिसाधनानां व्यर्थतैव स्यात्।

It is not right two say – “the mahāvākyas alone generate aparokṣa jñāna; śravaṇa etc help with the removal of asambhāvanā, viparīta bhāvanā and are thus not useless.”

In the case of vastus which are the objects of aparokṣa jñāna, asambhāvanā and viparīta bhāvanā cannot take place for anyone. If only the mahāvākyas are said to generate aparokṣa jñāna, once the utpatti of aparokṣa brahma jñāna has taken place through the tat tvam asi etc mahāvākyas, asambhāvanā and viparīta bhāvanā are not tenable and thus śravaṇa etc are of no use.

अस्मन्मते तु (पूर्वपक्षिमते) केवलवाक्येन परोक्षमेव ज्ञानं प्रथमं जायते। श्रवणादिसहकृतेन वाक्येन तु पश्चादपरोक्षमित्यङ्गीकारान्न श्रवणादिवैयर्थ्यम्। इत्यनेकग्रन्थकृत्तात्पर्यमिति।

In our view (pūrvapakṣi view) – through the vākyas alone, parokṣa jñāna results. The vākyas along with śravaṇa etc later generates aparokṣa jñāna. Thus, śravaṇa etc are not useless. This is the conclusion of many granthas.