- १४-३८ साधनचतुष्टयनिरूपणम्
- १५-३२ अधिकारिनिरूपणम्
- २९-३१ महावाक्यमपरोक्षज्ञानहेतुरित्यत्राक्षेपसमाधानानि
आवर्तः ३० – प्रथमाक्षेपस्य समाधानम् – शब्दः परोक्षमेव ज्ञानमुत्पादयेत्, दशमपुरुषकथा
प्रथमाक्षेपस्य *२ समाधानम् – यदुक्तं शब्दसामान्यं परोक्षमेव ज्ञानं जनयेदिति, नैतत्साधु। यतोऽयमेव स्वभावः शब्दस्य यत् परोक्षापरोक्षरूपद्विविधज्ञानजनकत्वमिति।
*२. इंदं शारीरकमीमांसायास्तात्पर्यम्।
samādhāna for the first ākṣepa – the claim that “normal śabdas generate only parokṣa jñāna” is not correct. Because the nature of śabda is that it can generate both kinds of jñāna – parokṣa and aparokṣa.
*३ देशकालपरिच्छिन्नं (आवृतं) वस्तु व्यवहितं इत्युच्यते। तदनच्छिन्नं (तदनावृतं) अव्यवहितं इति च। व्यवहितविषयकं शाब्दं ज्ञानं परोक्षमेव, न कदाचित् कथञ्चिदप्यपरोक्षं भवति; स्वर्गेन्द्रदेवतादीनां व्यवहितानां ज्ञानस्य शास्त्ररूपशब्दप्रमाणेन जायमानस्य नित्यं परोक्षत्वात्। अव्यवहितवस्तुविषयकं शाब्दं ज्ञानं परोक्षमपरोक्षं च भवति।
*३. दूरदेशे स्थितं वस्तु देशतो व्यवहितम्। भूतभविष्यद्वस्तु कालतो व्यवहितं इत्युच्यते।
A vastu which is hidden by time or distance is called vyavahita. If it is not hidden by them, it is called avyavahita. If the jñāna is vyavahita, it is parokṣa, and will never be aparokṣa. jñāna about svarga, indra, devatās etc, which are obtained through śabda pramāṇa, are are vyavahita are always going to be parokṣa. If śābda jñāna is avyavahita, it may be either parokṣa or aparokṣa.
यदा अव्यवहितवस्तुविषयकं ज्ञानं ‘अस्ति’ इति शब्देन जायते तदा अव्यवहितस्यापि वस्तुनो ज्ञानं परोक्षमेव भवति। यथा “दशमोऽस्ति” इत्यत्र “अस्ति” शब्देन जायमानमव्यवहितस्यापि दशमपुरुषस्य ज्ञानं परोक्षमेव भवति। यदा अव्यवहितवस्तुविषयकं ज्ञानं “इदमस्ति” इत्यादिशब्दप्रमाणेन जायते तदा तज्ज्ञानमपरोक्षमेव भवति, न परोक्षम्। यथा “दशमस्त्वमसि” *१ इत्यत्र “त्वमसि” शब्देन जायमानं दशमपुरुषज्ञानमपरोक्षमेव भवति। एवमेव प्रकृतस्य ब्रह्मणः सर्वप्राणिप्रत्यगात्मभूतत्वादत्यन्ताव्यवहितस्य नित्यापरोक्षरूपस्यापि ज्ञानं, “तदस्ति” इत्यवान्तरवाक्येन परोक्षमेव जायते। महावाक्यं तु ‘दशमस्त्वमसि’ इतिवत् श्रोतुरात्मत्वेनापरोक्षतया ब्रह्म बोधयति। अत एव महावाक्येनाव्यवहितप्रत्यब्रह्मापरोक्षज्ञानमेव जायते, न तु परोक्षमिति।
If jṅāna is for an avyavahita vastu, and is born of the word “is”, then even though it is avyavahita, it will be parokṣa. When we say “the tenth is there”, it is born of the word “is”. This avyavahita jñāna of the daśama puruṣa will be parokṣa. When the avyavahita vastu jñāna is born of the words “this is” through śabda pramāṇa etc, then it will be aparokṣa, and not parokṣa. In the phrase “this tenth is you”, the jñāna born of “tvam asi” will be aparokṣa. Even though brahma is the pratag ātma for all beings, and is avyavahita, even though the jñāna is of a vastu that is nitya and aparokṣa, though the avāntara vākya “tad asti”, it only results in parokṣa jñāna. The māhāvākya just like the phrase “you are the tenth” brings about the aparokṣa knowledge of the ātma. Thus the mahāvākya generates aparokṣa jñāna of avayavahita pratag brahma, and not parokṣa jñāna.
दशमपुरुषकथा
*१. दशमपुरुषकथा – दश पथिकाः देशान्तरगमनसमये मध्येमार्गं काञ्चिन्नदीं गभीरां प्राप्य, एकैकशस्तीर्त्वा, परं पारमासाद्य, सर्वे वयमुत्तीर्णा न वेति सन्दिहानाः, तत्प्रत्ययार्थं प्रत्येकं स्वात्मानं विहाय गणयन्तः ‘नवैव वयं स्मः, एको नद्यां ममार’ इति रुरुदुः।
तदा कश्चन पान्थः तेषां परिदेवनं श्रुत्वा, बुद्ध्वा च दुःखनिदानं, कृपया प्रथमतो ‘दशमोऽस्ति’ इत्यवोचत्। तदा तेषां परोक्षमेव ज्ञानं दशमविषयमभूत्। तेष्वेकः ‘कुत्रास्ते दशमः’ इत्यपृच्छत्। सोऽब्रवीत् “स दशमः त्वमसि” इति। तदैव तस्य स्वविषयकदशमत्वज्ञानमपरोक्षमेवाजायत।
तथा चापरोक्ष्ये सत्यपि दशमस्य, करणे च चक्षुषि सति, ‘दशमस्त्वमसि’ इति परोपदेशमन्तरा स्वविषयकं ज्ञानं परोक्षकल्पमेवासीत्। यथैवात्र ‘त्वमेवासि दशमः’ इत्याप्तोपदिष्टवाक्यमपरोक्षज्ञाने साक्षात् स्वयं करणं, एवमेव प्रत्यग्ब्रह्मापरोक्षज्ञानेऽपि गुरूपदिष्टमहावाक्यमपि साक्षादेव करणं भवति। तस्य च संशयादिदोषप्रतिबन्धकशून्यशुद्धान्तःकरणं सहकारिसाधनम्। (चतुर्थतरङ्गे अस्य विस्तरः)
When ten travellers were going to another city, they encountered a deep river in the middle of their path. They crossed over it single-file and reached the opposite bank. There they doubted “did we all cross over safely?” and counted themselves to confirm. They concluded “we are only nine, one of us perished in the river” and cried.
Then another traveller heard them lament, understood the cause of their sorrow, and out of compassion immediately said “The tenth is alive”. Thus, they had parokṣa jṅāna of the tenth. One of them asked, “Where is the tenth?”. He replied “You are the tenth”. Then they had the aparokṣa jñāna of themselves as the tenth.
Even though the aparokṣa of the tenth was always present, and the eyesight which is the means to see it was always present, it was as if parokṣa without the upadeśa from another. In the same way, just as the upadeśa vākya from an āpta of the form “you are the tenth” is the direct cause for aparokṣa jñāna; so also the mahāvākya upadeśa from a guru is the direct cause of the aparokṣa jñāna for pratyag brahma. The śuddha antaḥkaraṇa devoid of obstacles such as saṁśaya etc are secondary means. This will be elaborated upon later in the fourth taraṅga.