ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्

- ३१७-४६३ पूर्वोक्तप्रश्नस्योत्तरम्

आवर्तः ३२० – स्वप्नज्ञानं प्रत्यक्षम्। न जाग्रत्पदार्थानां स्मृतिरूपम्

पूर्वकालसंबन्धवतः पदार्थस्य ज्ञानं स्मृतिर्भवति। यथा पूर्वं दृष्टस्य गजस्य ‘स गजः’ इति स्मृतिरूपं ज्ञानमुत्पद्यते। पुरतः स्थितं गजं दृष्ट्वा तु ‘अयं गजः’ इति जायमानं ज्ञानं तु न स्मृतिः। किन्तु प्रत्यक्षमेव। स्वप्ने ‘अयं गजोऽग्रे तिष्ठति’, ‘इयं नदी प्राचीं दिशं प्रवहति’, ‘अयं पर्वतो रम्यो विराजते’ इत्येवं ज्ञानं भवति। तस्माज्जाग्रति दृष्टानां पदार्थानां स्मरणं न स्वप्ने भवति। किन्तु गजादीनां प्रत्यक्षज्ञानमेव भवति। किञ्च यदुक्तं ‘जाग्रत्यनुभूतपदार्थविषयकज्ञानमेव स्वप्ने भवति। नाननुभूतपदार्थविषयकज्ञानं जायते। तस्माज्जाग्रत्पदार्थज्ञानजन्यसंस्कारात्स्वप्नज्ञानमुदेति। संस्कारजन्यं ज्ञानं स्मृतिरिति कथ्यते’ इति। तन्न युज्यते। तथा हि, प्रत्यक्षज्ञानं द्विविधम् – एकमभिज्ञारूपप्रत्यक्षम् अपरं च प्रत्यभिज्ञारूपप्रत्यक्षम् इति।

(१) केवलमिन्द्रियसन्निकर्षजन्यं ज्ञानम् अभिज्ञाप्रत्यक्षम् इति वर्ण्यते। यथा ‘अयं गजः’ इति नेत्रेन्द्रियसन्निकर्षमात्रजन्यं गजज्ञानमभिज्ञाप्रत्यक्षम्।

(२) पूर्वानुभवजन्यसंस्कारेणेन्द्रियसन्निकर्षेण चोत्पन्नं ज्ञानं *१ प्रत्यभिज्ञाप्रत्यक्षम् इति वर्ण्यते। यथा पूर्वानुभूते गजे पुरतो दृष्टे सति सोऽयं गजः’ इति ज्ञानं प्रत्यभिज्ञाप्रत्यक्षम्। अत्र च पूर्वदृष्टहस्तिज्ञानजन्यसंस्कारो गजेन सह नेत्रेन्द्रियसंबन्धश्चेत्युभयमपि प्रत्यभिज्ञाप्रत्यक्षकारणम्। अतश्च संस्कारजन्यं ज्ञानं स्मृतिरेवेति न नियमः। प्रत्यभिज्ञाप्रत्यक्षस्यापि संस्कारजन्यत्वात्। परन्तु इन्द्रियसन्निकर्षमन्तरा केवलसंस्कारजन्यं ज्ञानं स्मृतिज्ञानम् इति कीर्त्यते।

१. प्रत्यक्षज्ञानसामग्रीसहितसंस्कारजन्यं ज्ञानं प्रत्यभिज्ञाप्रत्यक्षम् इति कथ्यते। संस्कारसहितेन्द्रियजन्यं ज्ञानं प्रत्यभिज्ञाप्रत्यक्षमिति लक्षणस्य बाह्यप्रत्यभिज्ञाप्रत्यक्षे संभवेऽप्यान्तरप्रत्यभिज्ञाप्रत्यक्षेऽस्य लक्षणस्यासंभवादव्याप्तिः स्यात्। तस्मात्प्रथमोक्त। मेवोभयविधप्रत्यभिज्ञाप्रत्यक्षसाधारणं निर्दुष्टं लक्षणम्। अत्रायं विशेषः – संस्कारजन्यं ज्ञानं स्मृतिरित्युक्ते प्रत्यभिज्ञानस्यापि संस्कारजन्यत्वात्तत्रातिव्याप्तिः स्यात्। तद्वारणाय स्मृतिलक्षणे मात्रपदं निवेश्यम्। संस्कारमात्रजन्यं ज्ञानं स्मृतिरित्युक्ते संस्कारमात्ररूपसामग्र्या अनुभवनाशानन्तरं सदा विद्यमानत्वात् सदा स्मृत्युत्पत्तिप्रसङ्गः। अतस्तद्वारणाय स्मृतिलक्षणे उद्भूतपदमपि निवेश्यम्। तथा च ‘उद्भूतसंस्कारमात्रजन्यं ज्ञानं स्मृतिः’ इति निर्दुष्टं स्मृतिलक्षणम्।

(१) स्वप्ने जायमानं गजादिज्ञानं न संस्कारमात्रजन्यम्। अपि तु निद्रारूपदोषजन्यमपि। गजादिरिव स्वप्ने कल्पितेन्द्रियादिकमपि वर्तते। तस्मात् स्वप्ने गजादीनां ज्ञानमिन्द्रियजन्यम्। यद्यपि स्वाप्नपदार्थः साक्षिभास्यो नेन्द्रियजन्यज्ञानविषयः। तथाप्यविवेकिदृष्ट्या स्वाप्नज्ञानमिन्द्रियजन्यमिति कथ्यते। तथा च स्वाप्नपदार्थज्ञानं न जाग्रत्पदार्थगोचरा स्मृतिः।

(२) किञ्च निद्रातः प्रबुद्धः पुरुषो वदति ‘स्वप्नेऽद्य गजमहमपश्यम्’ इति। स्वाप्नगजज्ञानं यदि स्मृतिः स्यात् तदा प्रबुद्धः ‘स्वप्नेऽद्य गजमहमस्मार्षम्’ इति वदेत्। न तु कोऽपि तथा वदति। तस्मान्न स्वप्ने जाग्रत्पदार्थविषयिणी स्मृतिः।

(३) अपि च ‘जाग्रति दृष्टानामथवा श्रुतानां पदार्थानामेव ज्ञानं स्वप्ने जायते’ इति नास्ति नियमः। अपि तु जाग्रत्यज्ञातपदार्थानामपि ज्ञानं स्वप्ने भवति। इह जन्मनि कदाप्यदृष्टस्याश्रुतस्य च विलक्षणस्य पदार्थस्य ज्ञानमपि कदाचित्स्वप्ने भवति। “अनुभूतश्चाननुभूतश्च” इति श्रुतेः। तस्मात् स्वप्ने जायमानं ज्ञानं न स्मृतिः।

(४) यद्यपि इह जन्मन्यनुभूतपदार्थज्ञानजन्यसंस्कार एव स्मृतिहेतुरिति नास्ति नियमः। जन्मान्तरीयानुभवजन्यसंस्कारस्यापि स्मृतिहेतुत्वदर्शनात्। तथा हि, प्रवृत्तिं प्रति अनुकूलता (इष्टसाधनता) ज्ञानं कारणम्, तदभावे प्रवृत्त्यदर्शनात्। ततश्च जातमात्रस्य शिशोः स्तन्यपाने प्राथमिकप्रवृत्ते कारणभूतम् ‘स्तन्यपानं ममेष्टसाधनम्’ इति ज्ञानं भवति। तत्र च जन्मान्तरे शिशोः स्तन्यपानस्यानुकूलतानुभूता। तादृशानुभवाहितसंस्कारवशादस्मिन् जन्मनि शिशोः प्राथमिकी स्तन्यपानस्यानुकूलतास्मृतिर्जातेति वक्तव्यम्। तस्माज्जन्मान्तरीयानुभवजन्यसंस्कारादपि स्मृतिर्भवति। एवमेवेह जन्मन्यननुभूतपदार्थविषयकस्मृतिरपि जन्मनान्तरीयानुभवजन्यसंस्कारवशात् स्वप्ने संभवत्येव। तथापि जाग्रति यस्य पदार्थस्य ज्ञानं कस्मिन्नपि जन्मनि कदापि न संभवेत् तादृशपदार्थस्य प्रतीतिः स्वप्ने भवति। यथा कदाचित् कश्चन स्वप्ने स्वमस्तकं च्छिन्नमन्यत्र पतितं स्वचक्षुषा पश्यति तत्र न कोऽपि जाग्रति च्छिन्नं स्वशिरोऽन्यत्र पतितं स्वचक्षुषा दृष्टवान्। तस्माज्जाग्रत्पदार्थानुभवजन्यसंस्कारवशात्स्वप्ने स्मृतिर्भवीति कथनमत्यन्तमसङ्गतम्।

(५) स्वप्नस्य स्मृतिरूपत्वखण्डनेऽनन्ता युक्तयो ग्रन्थकारैस्तत्र तत्रोक्ताः। तत्र च ‘स्मृतिज्ञानस्य विषयो न क्वचिदपि सम्मुखे विद्यमानतया प्रतीयते। स्वाप्नगजादयस्तु स्वप्नकाले सम्मुखे वर्तमानतया प्रतीयन्ते। तस्मात् स्वप्ने गजादिज्ञानं न स्मृतिः’ इतीदं पूर्वोक्तं दूषणं प्रबलम्।