- ३२०-३२१ पूर्वोक्तप्रश्नस्योत्तरम्
आवर्तः ३२१ – स्वप्ने लिङ्गशरीरं स्थूलशरीराद्बहिर्गत्वा सत्यगिरिसमुद्रादिकं न पश्यति
स्वप्ने लिङ्गशरीरं स्थूलशरीराद्वहिर्गत्वा सत्यगिरिसमुद्रादिकं पश्यतीति यदुक्तं तत्रोत्तरमुच्यते – यदि स्थूलशरीराद्वहिर्गत्वा लिङ्गशरीरं सत्यं गिरिसमुद्रादिकं पश्यति तदा लिङ्गशरीरस्य बहिर्गमनात् मरणावस्थायां यथा स्थूलशरीरं भयङ्करं भवति तथा स्वप्नावस्थायामपि लिङ्गशरीराभावात् स्थूलशरीरममङ्गलं कुणपसदृशं च भवेत्। न तु तथा स्वप्ना वस्यायां स्थूलशरीरं भवति। किन्तु स्वप्नावस्थायामपि स्थूलशरीरं प्राणसहितं जाग्रतीव सुन्दरं च भवति। तस्मास्थूलशरीरं विहाय स्वमावस्थायां लिङ्गशरीरं न बहिर्गच्छति।
अथ यद्युच्यते – स्वमवस्थायां प्राणा न बहिर्गच्छन्ति। किन्त्वन्तः करणमिन्द्रियाणि च बहिर्गत्वा पर्वतादिकं पश्यति। प्राणानां बहिर्गमनाभावादेव मरणावस्थायामिव स्थूलशरीरं न भयङ्करं भवति। अपि च स्वप्ने प्राणानां बहिर्गमने न किञ्चिदपि प्रयोजनमस्ति। यतः प्राणानां ज्ञानशक्तिर्नास्ति। किन्तु क्रियाशक्तिरेवास्ति। तस्माद्वाद्यपदार्थज्ञानसामर्थ्यं येषामस्ति तान्येव बहिर्गच्छन्ति। ज्ञानशक्तिश्चान्तःकरणस्य ज्ञानेन्द्रियाणां चास्ति। प्राणानां कर्मेन्द्रियाणां च ज्ञानशक्तिर्नास्ति। किन्तु क्रियाशक्तिरेवास्ति। तस्मात् स्वमावस्थायां प्राणाः कर्मेन्द्रियाणि च स्थूलशरीरे एव तिष्ठन्ति। अतश्च मरण निमित्तकदाहादिभ्यः स्थूलशरीरं संरक्षितं भवति ! खमावस्थायामन्तःकरणं ज्ञानेन्द्रियाणि च बहिर्गत्वा सत्यगिरिसमुद्रादिकं दृष्ट्रा पुनः प्राणानां कर्मेन्द्रियाणां च समीपं प्रत्यागच्छन्तीति।
इदं न सङ्गच्छते – (1) स्थूलसूक्ष्म सङ्घातमध्ये प्राण एव स्वामी। प्राणहीन देहं क्षणार्धमपि गेहे न स्थापयन्ति। बहिररण्यं नीत्वा दहन्ति। प्राणरहित शरीरं स्पृष्ट्रा स्त्रान्ति च। अतः स्थूलशरीरस्य सारः प्राणः। तथा सूक्ष्मशरीरस्यापि प्रधानः प्राण एव। तथाहि प्राणा इन्द्रियाणि च ‘स्वेषु कः श्रेष्ठः’ इति विषये परस्परं विवादमापन्नाः प्रजापतिसमीपं गतास्तमपृच्छन् “को नः श्रेष्ठः” इति। स होवाच प्रजापतिः “यस्मिन् व उत्क्रान्ते स्थूलमिदं शरीममङ्गलं भवति स वः श्रेष्ठः।” इति। प्रजापतेर्वचनं श्रुत्वा क्रमेणैकैकमिन्द्रियं शरीरान्निर्गत्य संवत्सरं बहिरुषित्वा पुनः शरीरं प्राविशन्। तदा तत्तदिन्द्रियप्रवासकाले तत्तदिन्द्रियप्रयुक्तदर्शनादिरूपव्यापार विकलमपीद शरीरमन्धबधिरादिरूपं भूत्वा प्राणेनावष्टव्धं सद्विधृतमतिष्ठत्। प्राणे तूचि क्रमिषति विकलमिदं शरीरं भूमौ पिपतिषति स्म। तदा सर्वाणीन्द्रियाणि ‘प्राण एव नः श्रेष्ठः’ इति निश्चिक्युः। तस्माद्यावदेवास्मिन् देहे प्राणो निवसति तावदेवेतरेन्द्रियाणि तत्र तिष्ठन्ति। *१ प्राणे तूत्क्रान्ते इतरेन्द्रियाण्यपि नूत्क्रामन्ति। तस्मात् सूक्ष्मसङ्घातस्य राजेव प्राण एव प्रधानः। प्राणे शरीरादनिर्गतेऽन्तःकरणं ज्ञानेन्द्रियाणि च न बहिर्गच्छेयुः।
*१. अत्र प्राणशब्देनेन्द्रियशब्देन च तत्तदभिमानिदेवता ग्राह्याः।
(२) अथवा अन्तःकरणं ज्ञानेन्द्रियाणि च भूतानां सत्त्वगुणकार्याणि। अतस्तेषां ज्ञानशक्तिरस्ति न क्रियाशक्तिः। प्राणस्य तु क्रियाशक्तिरस्ति। प्राणस्य क्रियाशक्तिबलादेव मरणसमये लिङ्गशरीरं स्थूलमिदं शरीरं विहाय लोकान्तरं गच्छति। प्राणबलेनैवेन्द्रियद्वारान्तःकरणवृत्तिर्बहिर्घटादिदेशं गच्छति। प्राणसाहाय्यं विनान्तःकरणादिकं न बहिर्गन्तुं प्रभवति। अत एव योगशास्त्रे उच्यते – ‘प्राणनिरोधं विना मनोनिरोधो न सिद्ध्यति। प्राणसञ्चरणेन मनसः सञ्चरणं भवति। प्राणनिरोधान्मनोनिरोधो भवति’ इति च। अतो मनोनिरोधरूपराजययोगमनुष्ठातुमिच्छन् प्राणनिरोधरूपहठयोगमनुतिष्ठेत्। अनेनापि हेतुनान्तःकरणस्य गमनं प्राणाधीनं भवति। प्राणे बहिरनिर्गतेऽन्तःकरणं ज्ञानेन्द्रियाणि च न बहिर्गच्छेयुः।
(३) स्वप्नावस्थायां स्थूलशरीरं प्राणसहितमेव दृश्यते। अतश्च स्वप्ने अन्तःकरणं बहिर्गत्वा सत्यपदार्थान् विषयीकरोतीत्येतन्न संभवति।
(४) अथवा कश्चन रात्रौ स्वप्ने स्वसंबन्धिभिर्मिलितो नानाव्यवहारान् करोति। प्रातर्जागरणानन्तरं यदा तान् संबन्धिनः साक्षात्पश्यति तदा ‘वयं रात्रौ मिलित्वा अभूम। एतांश्च व्यवहारानकुर्म’ इति वक्तुमर्हति। परन्तु तथा न कथयति। पूर्वपक्षिरीत्या तु स्वप्नद्रष्टा बहिर्गतवान्। संबन्धिनं दृष्टवान्। तेन सह सत्यरूपान् व्यवहारांश्च कृतवान्। तथा परस्परदर्शनं व्यवहरणं च संबन्धिनोऽपि परिज्ञातं भवितुमर्हति। ततश्च संबन्धी वा यदा स्वप्नद्रष्टारं पश्यति तदा सोऽपि तं प्रति ‘वयं स्वप्ने मिलिता व्यवहारानकुर्म’ इति वक्तुमर्हति। परन्तु सोऽपि न तथा वक्ति। सिद्धान्ते तु स्वप्ने बहिर्गमनं संबन्धिदर्शनं तेन सह व्यवहरणं सर्वं चान्तरेव कल्पितम्।
(५) अथवा स्वप्ने बहिर्गत्वा सत्यपदार्थान् पश्यतीत्यङ्गीकारे रात्रौ निद्रां कुर्वतः मध्याह्नसूर्यप्रकाशदर्शनम् गङ्गाया दक्षिणतटे काशीपुरीदर्शनम्, काश्याः प्राच्यां दिशि प्रयागक्षेत्रस्य प्रतीच्यां दिशि गयाक्षेत्रस्य दर्शनं च स्वप्ने न भवितुमुचितम्। रात्रौ मध्याह्नसूर्यप्रकाशस्य, गङ्गाया दक्षिणतटे काशीपुर्याः, काश्याः प्राच्यां दिशि प्रयागक्षेत्रस्य प्रतीच्यां दिशि गयाक्षेत्रस्य चाभावात्।
तस्मात् (१) स्वप्ने जाग्रत्यनुभूतपदार्थानां स्मरणं भवतीति (२) बहिर्गत्वेश्वरसृष्टगिरिनद्यादिदर्शनं भवतीति च द्वावपि पक्षौ निराकृतौ वेदितव्यौ।