- ३१७-४६३ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
आवर्तः ३२२ – स्वप्ने त्रिपुटीसमुदायः सर्वोऽप्युपजायते
स्वप्ने जाग्रत्पदार्थस्मृतेर्लिङ्गशरीरबहिर्गमनस्य चासंभवेऽपि जाग्रतीव स्वप्नेऽपि ज्ञाता, ज्ञानम्, ज्ञेयमिति त्रिपुटी भासते। तस्मात्कण्ठाधः स्थनाड्यन्तरेव सर्वमुत्पद्यते। अयमर्थो माण्डूक्यबृहदारण्यकादिषु सूचितः। “स्वप्नस्थानोऽन्तःप्रज्ञः” (मा. आ. ४) “स यत्र प्रस्वपित्यस्य लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा स्वेन ज्योतिषा प्रस्वपिति। अत्रायं पुरुषः स्वयञ्जोतिर्भवति” (बृ. ४.३.९) “न तत्र रथा न रथयोगा न पन्थानो भवन्ति। अथ रथान् रथयोगान् पथः सृजते” (बृ. ४.३.१०) इति। अयमर्थः ‘न जाग्रत्कालीनः पदार्था स्वप्ने भान्ति। किन्तु रथरथिकाश्वमार्गादयः सर्वेऽपि स्वप्ने अभिनवास्तत्काल एव सृज्यन्ते इति। तस्मात् स्वप्ने उपलभ्यमाना गिरिनदीसमुद्रवनग्रामपट्टणसूर्यचन्द्रादयः सर्वेऽपि नूतना उत्पद्यन्ते। यदि स्वप्ने पर्वतादयो नोत्पद्यन्ते तर्हि तेषां प्रत्यक्षज्ञानं स्वप्ने नोत्पत्तुमर्हति। जायते तु तेषां स्वप्ने प्रत्यक्षज्ञानम्। विषयेण सहेन्द्रयाणामन्तःकरणवृत्तेश्च संबन्धः प्रत्यक्षज्ञाने हेतुः। तस्मात्पर्वतादयो विषयाः तज्ज्ञानसाधनान्तःकरणेन्द्रियादिकं सर्वमप्यन्तरुत्पद्यन्ते।
ननु स्वप्नपदार्थाः शुक्तिरजतादिवत्साक्षिभास्याः। अतस्तज्ज्ञानेऽन्तःकरणेन्द्रियाणामुपयोगो नास्ति। तस्मात् स्वप्ने ज्ञेयानां पर्वतादीनामुत्पत्त्यङ्गीकारस्योचितत्वेऽपि ज्ञातृज्ञानयोरिन्द्रियाणां चोत्पत्त्यङ्गीकारो नोचित इति चेन्न।
(१) यथा स्वप्ने पर्वतादयः प्रतीयन्ते तथेन्द्रियाणि, अन्तःकरणम्, प्राणसहितस्थूलशरीरं चेत्येतान्यपि प्रतीयन्ते। तस्मात्तेषां सर्वेषामुत्पत्तिरङ्गीकार्यैव।
(२) अथवा स्वप्नपदार्थानां नेत्रादिविषयता प्रतीयते। व्यावहारिकनेत्रादिविषयता स्वाप्नप्रातिभासिकपदार्थानां न घटते। समसत्ताकपदार्थयोरेव परस्परं साधकबाधकतास्तीति पञ्चमतरङ्गे निरूपितत्वात्। तथा च व्यावहारिकनेत्रादीनां शरीरे विद्यमानत्वेऽपि तेषां विषमसत्ताकत्वात्तज्जन्यज्ञानविषयत्वं स्वाप्नपदार्थानां न संभवेत्।
(३) अथवा व्यावहारिकेन्द्रियाणि स्वस्वगोलकानि विहाय कार्यकरणे न समर्थानि। स्वप्नावस्थायां निद्रां कुर्वतो हस्तपादवागादीनां गोलकानि निश्चलतया पार्श्वस्थेनानुभूयते। स्वप्नद्रष्टा तु स्वप्ने हस्तेन द्रव्यमादायाक्रोशन् धावति। तस्मात् स्वप्ने इन्द्रियाणामुत्पत्तिरवश्यमङ्गीकार्या।
(४) तथैव स्वप्ने सुखदुःखादिरूपं ज्ञेयं तज्ज्ञानं तज्ज्ञानाश्रयः प्रमाता चेत्येते च प्रतीयन्ते। असतः पदार्थस्य प्रतीतिर्न भवेत्। तस्मात् सकला त्रिपुटी स्वप्ने उत्पद्यते। अनिर्वचनीयख्यातेः प्रकारस्त्वेवम् यावन्ति भ्रमज्ञानानि भवन्ति तेषां सर्वेषामपि विषया अनिर्वचनीया उत्पद्यन्ते। विषयं विना न किञ्चिदपि ज्ञानमुत्पद्येतेति सिद्धान्तः। मतान्तरे तु वस्तुनो रूपान्तरेण भानमेव भ्रम इत्युच्यते। सिद्धान्ते तु यथा पदार्थोऽस्ति तथैव तज्ज्ञानं भवतीत्यभ्युपगम्यते। तस्माद्भ्रमस्थलेऽपि विषयोऽवश्यमुत्पद्यत एव। विषयं विना ज्ञानं न भवति। तथा च स्वप्ने त्रिपुट्या भानात् सकला त्रिपुटी उत्पद्यत एव।