-
३१७-४६३
षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
- ३२२-३४१ स्वाप्नपदार्थस्याधिष्ठानोपादानयोः प्रदर्शनपूर्वकमुत्पत्तिवर्णनम्
- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
- ३२२-३४१ स्वाप्नपदार्थस्याधिष्ठानोपादानयोः प्रदर्शनपूर्वकमुत्पत्तिवर्णनम्
आवर्तः ३२३ – स्वप्ने पदार्थानामुत्पत्यङ्गीकारो न युक्त इति शङ्का
स्वप्ने प्रतीयमानपदार्थानामुत्पत्त्यङ्गीकारे यथा सिद्धान्ते स्वप्नदृष्टान्तबलाज्जाग्रत्पदार्था मिथ्येति प्रसाध्यते, तथा जाग्रत्पदार्थानामिव स्वाप्नपदार्थानामप्युत्पत्तिमत्त्वात्तेऽपि सत्या इत्यङ्गीकार्यं भवेत्। स्वप्ने पदार्थानामुत्पत्त्यनङ्गीकारे नैष दोषः स्यात्। तथा हि, जाग्रति पदार्था उत्पन्ना सन्तः प्रतीयन्ते। स्वप्ने तु पदार्था असन्त एव प्रतीयन्ते। तस्मात् स्वप्नेऽसतां पदार्थानां ज्ञानं भ्रमरूपं भवति। अतस्तेषामुत्पत्त्यङ्गीकारो न युक्त एव।