ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
- ३२३-३२४ स्वाप्नपदार्थस्याधिष्ठानोपादानयोः प्रदर्शनपूर्वकमुत्पत्तिवर्णनम्


आवर्तः ३२४ – पूर्वोक्तशङ्कायाः समाधानम्

(१) यस्य वस्तुन उत्पत्तौ देशकालादिरूपो यावान् सामग्रीकलाप अपेक्षितस्तावन्तं सामग्रीकलापं विनैवोत्पद्यमानं वस्तु मिथ्या इत्यभिधीयते। स्वप्ने गजादीनामुत्पत्तावुचितदेशकालादिरूपसामग्री नास्ति। चिरेण कालेन विस्तीर्णे देशे उत्पत्तुं योग्या गजादयः स्वप्ने क्षणमात्रकालेनातिसूक्ष्मकण्ठप्रदेशे उत्पद्यन्ते। तस्मात् स्वानगजादयो मिथ्या।

(२) यद्यपि स्वप्नावस्थायामधिकदेशकालौ प्रतीयेते, तथापि गजादिपदार्थान्तरवदधिकदेशकालावपि स्वप्नेऽनिर्वचनीयप्रातिभासिकतयैवोत्पद्येते। तथा हि विषयं विना प्रत्यक्षज्ञानं नोदेति। स्वप्नेऽधिकदेशकालयोर्ज्ञानमुत्पद्यते। व्यावहारिकदेशकालौ तु स्वल्पौ भवतः। तस्मात् प्रातिभासिकावधिकदेशकालावुत्पद्येते। परन्तु स्वप्नावस्थायामुत्पन्नौ प्रातिभासिकाधिकदेशकालौ स्वप्नावास्थायामुत्पद्यमानगजादीनां कारणभावं न भजतः। कारणं पूर्वकाले भवति कार्यं चोत्तरकाले भवतीति हि नियमः। स्वप्ने तु देशकालौ गजादयश्च युगपदेवोत्पद्यन्ते। तस्मात् स्वप्ने प्रातिभासिकदेशकालयोर्गजादीनां च परस्परं कार्यकारणता न संभवति। व्यावहारिकदेशकालौ तु स्वल्पौ स्तः। न तौ गजाद्युत्पादने योग्यौ। तस्मादुचितदेशकालादिरूपसामग्री विनोत्पद्यमानाः स्वाप्नपदार्था मिथ्या।

(३) अपि च स्वप्ने गजादीनां मातापित्रादिरूपसामग्र्यपि नास्ति। यद्यपि स्वप्ने प्राणिनः तेषां मातापित्रादयोऽपि प्रतीयन्ते। तथापि स्वाप्नमातापितरौ न पुत्रस्योत्पत्तिकारणतां भजतः। यतो माता पिता पुत्रश्चेति त्रयोऽपि युगपत् सहैवोत्पद्यन्ते। तस्मान्न तेषां कार्यकारणभावः। यस्या दोषसहिताविद्यायाः सकाशात् स्वाप्नपदार्था जायन्ते सैवाविद्या तेषां पदार्थानां मातृत्वम्, पितृत्वम्, पुत्रत्वं चोत्पादयति। स्वाप्नपदार्थोत्पत्तौ नान्या कापि सामग्र्यस्ति। निद्रादोषसहिताविद्यैव स्वाप्नपदार्थोत्पत्तौ कारणम्। दोषसहिताविद्याया जातं शुक्तिरूप्यादिकं मिथ्या भवति। तस्मात् स्वाप्नपदार्था अपि मिथ्यैव न सत्याः।

स्वाप्नपदार्थानामुपादानकारणमन्तःकरणम्; अथवा साक्षादविद्यैव। आद्यपक्षे साक्षिचैतन्यं स्वप्नाधिष्ठानम्। द्वितीयपक्षे ब्रह्मचैतन्यं *१ स्वप्नाधिष्ठानम्। इत्थं च स्वप्नः अन्तःकरणस्य अथवा अविद्यायाः परिणामः। चैतन्यस्य विवर्तश्च भवति।

*१. अत्रायं विशेषः (१) स्थूलसूक्ष्मदेहद्वयावच्छिन्नकूटस्थचैतन्यरूपपारमार्थिकजीवोऽस्ति। (२) मायावृतकूटस्थे कल्पितान्तःकरणे प्रतिफलितचिदाभासरूपः देहद्वयाभिमानवान् व्यावहारिकजीवोऽस्ति। (३) निद्रारूपमाययावृते व्यावहारिकजीवरूपाधिष्ठाने कल्पितः प्रातिभासिकजीवोऽस्ति। एवं त्रिविधजीववादिभिर्विद्यारण्यस्वामिभिः ‘स्वप्नाधिष्ठानं व्यावहारिको जीवो जगच्च’ इति कथ्यते। (१) स्वाप्रजीवस्य (द्रष्टुः) अधिष्ठानं जाग्रज्जीवः (द्रष्टा)। (२) स्वाप्नजगतः (दृश्यस्य) अधिष्ठानं जाग्रज्जगत् (दृश्यम्) इति वर्ण्यते। (३) स्वाप्नाध्यासोपादानं व्यावहारिकजीवजगतोरावारकं निद्रारूपमवस्थाज्ञानम् (तूलाज्ञानम्) भवति। तत्र व्यावहारिकद्रष्टा जडः। व्यावहारिकदृश्यं च जडमेव। तयोः सत्तास्फूर्तिप्रदत्वरूपाधिष्ठानत्वं न संभवति। तस्मात् (१) अहङ्कारावच्छिन्नचैतन्यं वा (२) अहङ्कारानवच्छिन्नचैतन्यं वा स्वप्नाधिष्ठानम्। इदं मतद्वयमपि समीचीनम्।

(१) तत्र प्रथममते अहङ्कारावच्छिन्नचैतन्यावारकतूलाज्ञानमेव स्वप्नोपादानं भवति। जाग्रज्ज्ञानेनैव विनापि ब्रह्मज्ञानं तस्य निवृत्तिरपि संभवति। (२) अविद्याप्रतिबिम्बरूपजीवचैतन्यम्, बिम्बरूपेश्वरचैतन्यं वा विवरणकाररीत्या व्यापकत्वादहङ्कारानवच्छिन्नचैतन्यमित्युच्यते। तस्य स्वप्नाधिष्ठानत्वे तदावारकमूलाज्ञानं स्वप्नस्योपादानमित्यङ्गीकर्तव्यम्। जाग्रद्बोधेन तादृशस्वप्नस्य बाधरूपनिवृत्तिर्न संभवति। किन्तूपादाने विलयरूपनिवृत्तिः संभवति। परन्तु अहङ्कारानवच्छिन्नचैतन्यस्य स्वप्नाधिष्ठानत्वाङ्गीकारेऽपि शरीरान्तः प्रदेशस्थचैतन्यमेवाधिष्ठानमिति फलति। बाह्यदेशस्थचैतन्यं नाधिष्ठानम्। अविद्याप्रतिबिम्बितजीवचैतन्यम्, बिम्बरूपेश्वरचैतन्यं चेत्युभयमप्यहङ्कारानवच्छिन्नं भवति। व्यापकत्वाच्छरीरस्यान्तर्विद्यते च। अन्तर्देशस्थचैतन्ये या स्वप्नाधिष्ठानता तस्या अन्तःकरणमवच्छेदकमित्यभ्युपगमे अहङ्कारावच्छिन्नस्याधिष्ठानता सिद्ध्यति। तस्यैव चैतन्यस्य स्वप्नं प्रत्यधिष्ठानतायां अन्तःकरणस्यावच्छेदकत्वानङ्गीकारे अहङ्कारानवच्छिन्नस्याधिष्ठानता सिद्ध्यति। अहङ्कारानवच्छिन्नचैतन्यं तु अविद्याप्रतिबिम्बं चेति द्वयमपि भवति। मतभेदेन द्वयोरपि स्वप्नाधिष्ठानत्वं भवति। तथापि अविद्याप्रतिबिम्बरूपजीवचैतन्यस्याधिष्ठानत्वाभ्युपगम एव साधीयान्।

अथवा अविद्याप्रतिबिम्बस्य कल्पितत्वादधिष्ठानत्वं नोचितम्। तस्मात् अन्तःकरणोपहितमविद्योपहितं वा साक्षिचैतन्यं स्वप्नस्याधिष्ठानमित्यभ्युपगमो युक्तः। तत्सर्वं त्रिविधसत्तावादिमतेनोपपादितम्। दृष्टिसृष्टिवादरीत्या तु सर्वानात्मपदार्थानामेकैव (प्रातिभासिकी) सत्ता भवति। तस्माज्जाग्रत्स्वप्नयोरुभयोरपि ब्रह्मचैतन्यमेवाधिष्ठानमित्यङ्गीक्रियते।

सा च दृष्टिसृष्टिर्द्विविधा दृष्टिसमसमया सृष्टिः। दृष्टिरेव विश्वसृष्टिरिति च। आद्ये जगत्प्रतीयते। परन्तु तस्य प्रातिभासिक्येव सत्ता। द्वितीये जगत् तत्कारणमज्ञानं वा न किञ्चिदप्यस्ति। आत्मातिरिक्तं सर्वं शशशृङ्गादिवत्तुच्छम्। ब्रह्मैव सत्यमस्ति। तस्य च पारमार्थिकी सत्ता इत्येकसत्तावादोऽस्मिन् कल्पे।