ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्

- ३२२-३४१ त्रिविधसत्तापक्षे विलक्षणयोर्जाग्रत्स्वप्नयोः सत्ताभेदः, वस्तुतस्तयोरवैलक्षण्यात् सत्तैक्यमेव
- ३२२-३४१ तत्र शङ्का

आवर्तः ३२५ – ब्रह्मचैतन्यस्य स्वप्नाधिष्ठानत्वे ब्रह्मज्ञानमन्तरा स्वप्नो न निवर्तेतेति शङ्का

द्वितीयपक्षे ब्रह्मचैतन्यं स्वप्नस्याधिष्ठानमिति अविद्योपादानमिति चोक्तम्। अधिष्ठानज्ञानमन्तरा कल्पितं न निवर्तेत। स्वप्नाधिष्ठानं च ब्रह्म। तस्माद्ब्रह्मज्ञानमन्तराज्ञानिनो जाग्रदवस्थायां स्वप्नो न निवर्तेत।