ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
- ३२५-३३१ त्रिविधसत्तापक्षे विलक्षणयोर्जाग्रत्स्वप्नयोः सत्ताभेदः, वस्तुतस्तयोरवैलक्षण्यात् सत्तैक्यमेव
- ३२५-३२६ तत्र शङ्का


आवर्तः ३२६ – जाग्रत्स्वप्नयोर्ब्रह्माधिष्ठानकत्वे उभावपि व्यावहारिकौ स्याताम्। अथवोभावपि प्रातिभासिकौ स्यातामिति शङ्का

यथा स्वप्नस्याधिष्ठानं ब्रह्म उपादानं चाविद्या। तथैव वेदान्तसिद्धान्ते जाग्रति व्यावहारिकपदार्थानामप्यधिष्ठानं ब्रह्म। उपादानं चाविद्यैव भवति। तत्र जाग्रत्पदार्था व्यावहारिका इति, स्वाप्नपदार्थाः प्रातिभासिका इति च कथ्यन्ते। एष भेदो न भवितुमर्हति। उभयोरप्यधिष्ठानं ब्रह्मैव भवति। उपादानं चाविद्यैव भवति। तस्माज्जाग्रत्स्वप्नयोरुभयोरपि व्यावहारिकता भवितुमर्हति। अथवोभयोः प्रातिभासिकता भवितुमर्हति। उभयोः सत्तावैषम्ये नास्त्युपपत्तिः।