-
३१७-४६३
षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
- ३२५-३३१ त्रिविधसत्तापक्षे विलक्षणयोर्जाग्रत्स्वप्नयोः सत्ताभेदः, वस्तुतस्तयोरवैलक्षण्यात् सत्तैक्यमेव
- ३२५-३३१ पूर्वोक्तशङ्कयोः समाधानम्
- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
- ३२५-३३१ त्रिविधसत्तापक्षे विलक्षणयोर्जाग्रत्स्वप्नयोः सत्ताभेदः, वस्तुतस्तयोरवैलक्षण्यात् सत्तैक्यमेव
- ३२५-३३१ पूर्वोक्तशङ्कयोः समाधानम्
आवर्तः ३२७ – ब्रह्मज्ञानं विनापि स्वप्ननिवृत्तिप्रदर्शनम्
तत्र प्रथमशङ्कायाः समाधानमेवं भवति। निवृत्तिर्द्विविधेति पूर्वं चतुर्थतरङ्गे ख्यातिनिरूपणप्रसङ्गे उक्तम्। (१) कारणसहितकार्यविनाशरूपात्यन्तिकनिवृत्तिः स्वप्नस्य जाग्रदवस्थायां ब्रह्मज्ञानमन्तरा न संभवति। (२) परन्तु दण्डप्रहारेण यथा घटस्य मृत्तिकायां लयो भवति। तथा स्वप्नहेतुभूतनिद्रारूपदोषनाशाद्वा स्वप्नविरोधिजाग्रदवस्थोत्पत्त्या वा अविद्यायां लयरूपा निवृत्तिः स्वप्नस्य ब्रह्मज्ञानं विनापि संभवेत्।