ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
- ३२५-३३१ त्रिविधसत्तापक्षे विलक्षणयोर्जाग्रत्स्वप्नयोः सत्ताभेदः, वस्तुतस्तयोरवैलक्षण्यात् सत्तैक्यमेव
- ३२७-३२८ पूर्वोक्तशङ्कयोः समाधानम्


आवर्तः ३२८ – दोषान्तरासहकृताविद्यामात्रजन्यं व्यावहारिकम्। दोषान्तरसहकृताविद्याजन्यं प्रातिभासिकमिति द्वितीयशङ्कासमाधानम्

यदुक्तं जाग्रत्स्वप्नौ समानाविति तन्न। जाग्रति देहादिपदार्थानामुत्पत्तौ दोषान्तरासहकृतकेवलाविद्योपादानकारणम्। स्वाप्नपदार्थानामुत्पत्तौ सादिनिद्रादिदोषसहिताविद्या कारणमिति विशेषोऽस्ति। तस्मादन्यदोषरहितकेवलाविद्याजन्यं व्यावहारिकम्। सादिदोषसहकृताविद्याजन्यं प्रातिभासिकम्। स्वप्नपदार्थाः निद्रादोषसकृताविद्याजन्यत्वात्प्रातिभासिका भवन्ति। जाग्रत्पदार्था दोषान्तररहितकेवलाविद्याजन्यत्वाद्व्यावहारिका भवन्ति। इत्थं स्वाप्नपदार्थानां जाग्रत्पदार्थेभ्यो वैलक्षण्यं दृश्यते। इदं तु सर्वं सत्तात्रैविध्यमङ्गीकृत्य स्थूलदृष्ट्योक्तम्। विचार्यमाणे तु सत्तात्रैविध्यं न सङ्गच्छते। जाग्रत्स्वप्नयोरपि परस्परं वैलक्षण्यमपि न सिद्ध्यति।