- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
- ३२५-३३१ त्रिविधसत्तापक्षे विलक्षणयोर्जाग्रत्स्वप्नयोः सत्ताभेदः, वस्तुतस्तयोरवैलक्षण्यात् सत्तैक्यमेव
- ३२५-३३१ प्रमाणग्रन्थेषु सत्तात्रैविध्यमुक्तमित्याक्षेपः
आवर्तः ३२९ – प्रमाणग्रन्थेषु सत्तात्रैविध्यमुक्तमित्याक्षेपः
वेदान्तपरिभाषादिग्रन्थेषु पूर्वोक्तरीत्या व्यावहारिकप्रातिभासिकपदार्थयोर्भेदो निरूपितः। तस्मात्तैः सत्तात्रैविध्यमङ्गीकृतम्। तथैव विद्यारण्यस्वामिभिरपि सत्तात्रैविध्यमभ्युपेतम्। एवं हि तैरुक्तम् – देहादिपदार्था द्विप्रकाराः। बाह्या आभ्यन्तराश्चेति। तत्रेश्वरसृष्टा बाह्याः। जीवसङ्कल्पकृता मनोमया आन्तराः। तत्र जीवसङ्कल्परचिता मनोमया आन्तराः साक्षिभास्याः। ईश्वरसृष्टा बाह्याः प्रमातृप्रमाणगोचराः। आन्तरमनोमयदेहादय एव जीवस्य सुखदुःखहेतुभूताः। बाह्यास्त्वीश्वरसृष्टा न सुखदुःखहेतवः। तस्मादान्तरमनोमयपदार्थनिवृत्तावेव मुमुक्षुणा यतितव्यम्। बाह्यप्रपञ्चो न सुखदुःखहेतुः। अतस्तन्निवृत्तौ न यतितव्यम्। तथा हि कयोश्चित् द्वयोः पुरुषयोः पुत्रौ धनार्जनार्थं कदाचिद्देशान्तरं जग्मतुः। तयोर्मध्ये एकस्य पुरुषस्य पुत्रो दिष्टं गतः। अन्यस्य पुत्रो जीवन्नास्ते। प्रभूतं धनं च स सम्पादितवान्। स च स्वस्य प्रभूतधनलाभं स्वपित्रे निवेदयितुं द्वितीयस्य मरणं तत्पित्रे निवेदयितुं च कञ्चन वार्ताहरं प्रेषयामास। स तु विप्रलम्भको वार्ताहारो जीवत्पुत्रकाय पित्रे तव पुत्रो ममारेति, मृतपित्रकाय पित्रे च तव पुत्रो नीरोगो विपुलं धनमर्जितवान्। गजमारुह्य सपरिवारोऽचिरादेवागमिष्यतीति चोवाच। प्रतारकस्य वार्ताहरस्य कपटवाक्यं श्रुत्वा जीवत्पुत्रकः पिता पुत्रशोकाद्भृशं रुरोद। मृतपुत्रकः पिता त्वतीव हर्षमवाप। इत्थमीश्वरसृष्टे पुत्रे देशान्तरे जीवत्यपि मनोमयपुत्रस्य मृतत्वादेको दुःखमवाप। तत्रेश्वरसृष्टः पुत्रो जीवन्नपि स्वपित्रे न सुखं जनयति। तथैवेतरस्येश्वरसृष्टः पुत्रो मृतोऽपि स्वपित्रे न दुःखमुत्पादयति। मनोमयपुत्रस्य जीवनात्सुखमेव तस्याभवत्। तस्मात् सर्वत्र जीवसृष्टिरेव सुखदुःखहेतुर्नेश्वरसृष्टिः सुखदुःखहेतुः। इत्थं पञ्चदशप्रकरणे द्वैतविवेकप्रकरणे विद्यारण्यस्वामिभिः प्रपञ्चितम्। तत्र जीवसृष्टिः प्रातिभासिकी। ईश्वरसृष्टिश्च व्यावहारिकी। ग्रन्थान्तरेष्वप्येवमेव सत्तात्रैविध्यपक्ष एवाश्रितः। तत्र पारमार्थिकसत्ता चैतन्यस्य। चैतन्यभिन्नस्य जडस्य व्यावहारिकसत्ता प्रातिभासिकसत्ता चेति द्विधा सत्ता। सृष्ट्यादिकाले ईश्वरसङ्कल्पमात्रजन्यकेवलाविद्याकार्यपञ्चमहाभूततत्कार्याणां व्यावहारिकसत्ता। दोषसहकृता विद्याकार्यस्वाप्नपदार्थानां शुक्तिरजतादीनां च प्रातिभासिकसत्ता। इत्थं जाग्रत्पदार्थानां व्यावहारिकसत्ता। स्वाप्नपदार्थानां प्रातिभासिकसत्ता च वर्ण्यते केषुचिद्रन्थेषु।