- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
- ३२५-३३१ त्रिविधसत्तापक्षे विलक्षणयोर्जाग्रत्स्वप्नयोः सत्ताभेदः, वस्तुतस्तयोरवैलक्षण्यात् सत्तैक्यमेव
- ३२९-३३० प्रमाणग्रन्थेषु सत्तात्रैविध्यमुक्तमित्याक्षेपः
आवर्तः ३३० – अनात्मपदार्थानां सर्वेषां प्रातिभासिकसत्तैव आत्मपादार्थस्यैव पारमार्थिकी सत्तेति सत्ता द्वितिधैव
*१ अतः –
*१ . इत आरभ्य (३४२) आवर्तावधि दृष्टिसृष्टिवादस्य प्रतिपादनं क्रियते।
सत्तात्रैविध्यपक्षो मन्दाधिकारिक इति अधुनोत्तमाधिकारिकसत्तैकत्वप्रतिपादनाय जाग्रत्स्वप्नयोर्वैलक्षण्याभावः कथ्यते। देशकालादिकारणकलापमन्तरेणैव स्वप्ने गजादयोऽर्था उत्पद्यन्ते। तस्मात्ते मिथ्येत्युच्यन्ते। तथैवाकाशादिप्रपञ्चसृष्टिरपि ब्रह्मणः सकाशात् देशकालादिकारणकलापं विनैव भवति। अद्वितीयत्वेन ब्रह्मणस्तत्र स्वल्पोऽपि देशकालादिर्नास्ति। स्वप्ने तु गजाद्युत्पत्तियोग्यपुष्कलदेशकालाद्यभावेऽपि स्वल्पदेशकालादिर्विद्यते। सोऽप्याकाशादिसृष्टौ नास्ति। यतो देशकालादिशून्यपरमात्मनः सकाशादाकाशादिसृष्टिः श्रूयते। अत एव तैत्तिरीयोपनिषदि क्रमेणाकाशादिसृष्टिकथनेऽपि न देशकालादिसृष्टिरुक्ता सूत्रकारभाष्यकारादिभिरपि देशकालादिसृष्टिविचारो न कृतः। तैत्तिरीयोपनिषदः सूत्रकारभाष्यकारयोश्चायमभिप्रायः। यत आकाशादिप्रपञ्चोत्पत्तिर्देशकालादिसामग्रीं विनोत्पद्यते तत आकाशादयोऽपि स्वप्नवत् *२ मिथ्येवेति। सृष्टिः = उत्पत्तिः = अध्यारोपः।
*२. अत्रेदं रहस्यम् – कुत्रचिच्छून्यवने द्वौ बलिनौ पुरुषौ स्वस्वबलपरीक्षणविषये विवादमकुरुताम्। योऽन्यं मारयति स बलीयान् ज्ञेयः’ इति। एवं प्रतिज्ञापूर्वकमुभावपि प्रत्येकं स्वस्वहस्ते निशितकोटिद्वयोपेतमायुधं मध्ये गृहीत्वा तस्यायुधस्यैकां कोटिं स्वोरसि कोट्यन्तरं चान्यस्योरसि प्रवेश्याभिमुखं भूत्वा युध्यन्तौ द्वावपि मम्रतुः। एवमेव सर्वप्रपञ्चशून्ये ब्रह्मरूपे वने जाग्रत्प्रपञ्चः स्वप्नप्रपञ्चश्चेति द्वौ बलिनौ पुरुषौ प्रतिभासेते। तयोश्च परस्परस्य विषये परस्परस्य दृष्टान्तेन परस्परस्य पराहतिरेवमेव ज्ञेया।
तथा हि – उचितदेशकालसामग्रीमन्तरेण यज्जायते तन्मिथ्येति प्रसिद्धं लोके। यथा देशरूपसामग्र्याः पूर्णत्वेऽपि कालरूपसामग्र्या न्यूनत्वात् ऐन्द्रजालिकनिर्मितहस्तिहर्म्यादिकं मिथ्या तथैव कण्ठस्थहिताख्यनाडीरूपाल्पप्रदेशे स्वल्पकाले च जायमानः स्वप्नप्रपञ्चो मिथ्या। तद्दृष्टान्तबलात् जाग्रत्प्रपञ्चोऽपि मिथ्यैव। इत्थं स्वप्नप्रञ्चदृष्टान्तेन जाग्रत्प्रपञ्चः पराहतो भवति।
एवमेव देशकालादिसामग्रीलेशशून्ये ब्रह्मणि जाग्रत्प्रपञ्चः प्रतीयते। तस्मात् स असन् भवति। प्रतीयमानौ देशकालौ तु जाग्रत्प्रपञ्चान्तर्गतौ तदनन्तर्गतदेशकालौ प्रपञ्चकारणमिति चेदत्रायं प्रष्टव्यः तौ देशकालौ किं ब्रह्मणोऽभिन्नावुत भिन्नाविति। आद्यपक्षे । ब्रह्माभिन्नदेशकालयोरभावात् देशकालरूपसामग्रीशून्ये ब्रह्मणि प्रपञ्चस्य प्रतीतिः सिद्ध्यति। द्वितीयपक्षे ब्रह्मभिन्नदेशकालौ किं सत्यावुत मिथ्या।
यदि देशकालौ सत्यौ तदा अद्वैतश्रुतिविरोधः। यदि मिथ्या तदा प्रपञ्चवत्तयोरपि कार्यत्वात्तयोः कारणतयान्यौ देशकालौ वाच्यौ। स्वस्यैव स्वकारणत्वे आत्माश्रयः। । प्रथमयोर्देशकालयोर्द्वितीयौ देशकालौ कारणम्, द्वितीययोः प्रथमौ कारणमित्यभ्युपगमेऽन्योन्याश्रयः। द्वितीययोस्तृतीयौ देशकालौ कारणम्, तृतीययोः प्रथमौ देशकालौ कारणमित्यभ्युपगमे चक्रकापत्तिः। तृतीययोश्चतुर्थौ देशकालौ कारणम्, चतुर्थयोः पञ्चमौ कारणमित्यभ्युपगमे अनन्तदेशकालादिधारारूपानवस्था तस्मान्न ब्रह्मणि देशकालौ सिद्ध्यतः। इत्थं देशकालादिसामग्रीशून्यब्रह्मणः सकाशाज्जाग्रत्प्रपञ्चोत्पत्त्या तस्यासत्त्वं तुच्छत्वं अध्यवसीयते।
अपि च जाग्रद्दशायां कदाचित्स्वप्नपदार्थस्मृतिर्भवति। स्वप्ने तु प्रायशो जाग्रत्पदार्थस्मरणं न संभवति। अतश्च जाग्रत्प्रपञ्चोऽसन्। तद्दृष्टान्तबलात्स्वप्नप्रपञ्चोऽप्यसन्। यदा जाग्रदवस्थाया अभावः सिद्धो भवति तदा तदन्तर्गतसमाध्यवस्थाया अप्यभावोऽर्थाचैतन्ये सिद्ध्यति। जाग्रत्स्वप्नयोरभावसिद्ध्या तदवस्थाद्वयान्तर्गतबुद्धेरभावात् तद्विलयात्मकसुषुप्त्यवस्थायाः, सुषुप्त्यन्तर्गतमरणमूर्च्छावस्थयोश्चाभावोऽपि सिद्ध्यति।
इत्थं ब्रह्मणि सर्वप्रपञ्चस्यासिद्ध्या अजातवादः सिद्ध्यति। “न तस्य कार्यं करणं च विद्यते” (श्वे. ६.८) “अपूर्वमनपरम्” (बृ. २.५.१३)
कार्यकारणता ह्यत्र न किञ्चिदुपपद्यते।
यादृगेव परं ब्रह्म तादृगेव जगत्त्रयम्॥ यो. वा.॥
तुच्छानिर्वचनीया च वास्तवी चेत्यसौ त्रिधा।
माया ज्ञेया त्रिभिर्बोधैः श्रौतयौक्तिकलौकिकैः॥ प. ६.१३०॥
। इत्यादिश्रुतिस्मृतिभ्यः।