- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
- ३२५-३३१ त्रिविधसत्तापक्षे विलक्षणयोर्जाग्रत्स्वप्नयोः सत्ताभेदः, वस्तुतस्तयोरवैलक्षण्यात् सत्तैक्यमेव
आवर्तः ३३१ – देशकालयोरुत्पत्तिविषये आक्षेपसमाधाने
ननु मधुसूदनसरस्वतीस्वामिभिर्देशकालौ साक्षादविद्याकार्यत्वेनोक्तौ। आदौ मायाविशिष्टपरमात्मनः साकाशात् मायापरिणामभूतदेशकालौ जायेते। तत आकाशादय उत्पद्यन्ते। योग्यदेशकालरूपसामग्रीसत्त्वात्तत्सकाशादाकाशादिप्रपञ्चोत्पत्तिः संभवतीति चेत्।
तन्न। मधुसूदनसरस्वतीस्वामिनां देशकालौ प्रथममुत्पद्येते पश्चादाकाशादिकमिति नाभिप्रायः। अतीतकालस्थितं वस्तु प्रथममिति पूर्वमिति चोच्यते। भविष्यत्कालस्थितिकं वस्तु उत्तरमिति पश्चादिति चोच्यते। आकाशाद्युत्पत्तेः प्रथमं देशकालावुत्पन्नावित्यभ्युपगमे आकाशाद्युत्पत्तिकालात् यः पूर्वः कालस्तादृशकालोपहितः परमात्मा देशकालाद्यधिष्ठानमिति सिद्ध्यति। ततश्च देशकालाद्युत्पत्तिं प्रति पूर्वकालस्यापेक्षा भवति। कालस्योत्पत्तिमन्तरा च पूर्वकालो न प्रसिद्ध्यति। तस्मादाकाशादेः पूर्वकाले देशकालौ स्त इत्यङ्गीकारो न सङ्गच्छते।
किन्तु मधुसूदनस्वामिनामयमाशयः यथा भूतभौतिकप्रपञ्चः प्रतीयते तथा देशकालावपि प्रतीयेते। आत्मभिन्नं किञ्चिदपि न नित्यम्। तस्माद्देशकालावपि न नित्यौ। असन् पदार्थो न प्रतीयते। तस्मादाकाशादिवद्देशकालावप्युत्पद्येते। तौ च देशकालौ मायापरिणामौ चैतन्यविवर्तौ च। यो विवर्तः स न कस्यचिदपि कारणम्। तस्मादाकाशादिप्रपञ्चोत्पत्तौ देशकालयोः कारणता न *१ सङ्गच्छते।
*१. देशकालयोरुत्पत्तौपूर्वकालस्य कारणत्वे तस्यपूर्वकालस्योत्पत्तिंप्रतिकस्यचित्कालस्य कारणत्वं वाच्यम्। तन्न संभवति। पूर्वकालस्यैव स्वोत्पत्तिकारणत्वे आत्माश्रयो दोषः। अस्य पूर्वकालस्यान्यः पूर्वकालः कारणमन्यस्य चायमेव कारणमित्याश्रयणे अन्योन्याश्रयः। द्वितीयस्य पूर्वकालस्य तृतीयः पूर्वकालः कारणं तृतीयपूर्वकालस्य च प्रथमः पूर्वकालः कारणमित्यभ्युपगमे चक्रकदोषः। तृतीयस्य पूर्वकालस्य चतुर्थः पूर्वकालः कारणं चतुर्थस्य पञ्चमः कारणमित्यङ्गीकारेऽनवस्थादोषः। इत्थं दोषसमूहसद्भावात् देशकालयोरुत्पत्तौ पूर्वकालस्य कारणत्वाङ्गीकारो न युज्यते।
अपि च कारणं पूर्वभावि। कार्यं पश्चाद्भावीति स्थिते, आकाशाद्युत्पत्तेः पूर्वं देशकालोत्पत्तिर्न संभवतीति प्रतिपादितत्वात् सर्वथा देशकालावाकाशादिप्रपञ्चकारणं न भवत इति सिद्धम्। किन्तु स्वप्ने यथा युगपदेव पितापुत्रयोरुत्पत्तिर्युगपदुत्पद्यमानयोस्तयोः कार्यकारणत्वप्रतीतिश्च भवति। तथा जाग्रत्यपि मायाविशिष्टपरमात्मनः सकाशात् देशकालादिसहिताकाशादिप्रपञ्चोत्पत्तिः तत्र च देशकालादेः कारणत्वप्रतीतिः, प्रपञ्चस्य कार्यत्वप्रतीतिश्च भवति। यस्या मायायाः सकाशात् देशकालसहितप्रपञ्चोत्पत्तिर्भवति तयैव मायया देशकालयोः कारणत्वं प्रपञ्चस्य कार्यत्वं च प्रतीयते।
किञ्च किञ्चिद्वस्तु क्वचिद्देशविशेषे क्वचित्कालविशेषे च जायते। देशान्तरे कालान्तरे वा न जायते। तथा प्रलयकाले सकलः प्रपञ्चो नोत्पद्यते। सृष्टिकाले उत्पद्यते च। तस्मादपि देशकालयोः कारणत्वं प्रतीयते। वस्तुतस्तु न देशकालादिकमाकाशादिप्रपञ्चस्य कारणम्।