ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्

- ३२२-३४१ ब्रह्मनिष्ठकारणताया देशकालयोरङ्गीकारे अन्यथाख्यात्यापत्तिः स्यादित्याक्षेपः

आवर्तः ३३२ – देशकालयोराकाशादिकारणतास्तीति पूर्वपक्षिणः शङ्का

अत्रैवं शङ्का भवति असन् पदार्थो न प्रतीयेत। सिद्धान्ते च न तथाङ्गीक्रियते वेदान्तिभिः। यद्यन् पदार्थो भासेत तर्ह्यसत्ख्यात्यभ्युपगमप्रसङ्गः स्यात्। अपि च शशशृङ्गवन्ध्यासुतादेरपि भानं स्यात्। न तु तथा भासते। तस्मादसतः प्रतीतिर्नास्त्येव। किञ्च देशकालयोः कारणत्वं स्वतो यदि न स्यात् तर्हि मायाबलादपि तन्न भातुमर्हति। परन्तु देशकालयोः कारणत्वं प्रतीयते। अतो देशकालौ सकलप्रपञ्चकारणमित्यङ्गीकार्यमेव।

सिद्धान्तिना यदप्युच्यते – ब्रह्म सकलप्रपञ्चकारणम्, तन्निष्ठं कारणत्वमेव देशकालयोः प्रतीयते। न तु देशकालयोः कारणत्वं स्वतो विद्यते इति। तदपि न सङ्गतम्। तथा हि (१) ब्रह्म यथा देशकालयोरधिष्ठानं तथा सकलप्रपञ्चस्याप्यधिष्ठानं भवति। ततश्च देशकालयोरेव ब्रह्मनिष्ठकारणता प्रतीयते न त्वन्यत्रेत्यत्र विनिगमकं नास्ति। तस्मादधिष्ठानब्रह्मनिष्ठकारणता यदि देशकालयोः प्रतीयते तर्हि सर्वप्रपञ्चाधिष्ठानत्वाद्ब्रह्मणः निखिलप्रपञ्चेऽपि कारणता प्रतीयेतैव। ब्रह्मकार्यभूते प्रपञ्चे क्वचित् (देशकालयोः) कारणता क्वचिच्च (आकाशादौ) कार्यतेति वैषम्यं न युज्यते।

(२) किञ्च देशकालयोः कारणत्वं नास्ति, किन्तु ब्रह्मण्येव कारणत्वमस्ति। तच्च ब्रह्मनिष्ठं कारणत्वं देशकालयोः प्रतीयत इत्युच्यमाने अन्यथाख्यातिरङ्गीकृता भवति। यतो वस्तुनो रूपान्तरेण भानमन्यथाख्यातिरितीर्यते। अकारणभूतौ देशकालौ रूपान्तरेण कारणात्मना भातः इत्यन्यथाख्यातिरेवाभ्युपगता भवति। सिद्धान्ते त्वन्यथाख्यातिर्नाङ्गीकृता। अत्र विषयेऽन्यथाख्यातेरङ्गीकारे शुक्तावनिर्वचनीयरजतमुत्पद्यते इति सिद्धान्तो निष्फलो भवेत्। तथा हि, अन्यथाख्यातिर्द्विविधा। (१) देशान्तरस्थपदार्थस्य देशान्तरे भानमित्येकान्यथाख्यातिः। यथा कान्ताकरगतरजतं पुरोवर्तिशुक्तौ भासते। (२) अथवा वस्तुनो रूपान्तरेण भानमप्यन्यथाख्यातिः। यथा शुक्तिकाया रजतरूपेण भानम्। इत्थं सर्वभ्रमस्थलेऽपि अन्यथाख्यात्यैव निर्वाहसंभवेऽनिर्वचनीयरजतोत्पत्तिकथनमसङ्गतं स्यात्।

किञ्च विषयसमानाकारमेव ज्ञानं भवति। अन्यवस्तुनोऽन्यरूपेण ज्ञानं न संभवेत्। अतश्च रजताकारज्ञानविषयीभूतमनिर्वचनीयं रजतमुत्पद्यते एव इत्यद्वैतसिद्धान्ते अकारणीभूतदेशकालयोर्ब्रह्मनिष्ठकारणत्वस्य प्रतीतिर्न संभवेत्। यतो देशकालयोः प्रतीयमानं यत्कारणत्वं तत्तत्राविद्यमानं सन्न भायात्। न वा ब्रह्माश्रितं सत्र भायात्, ततश्च देशकालयोरेव कारणत्वमस्ति। विद्यमानमेव कारणत्वं देशकालयोर्भातीति वक्तव्यम्। ततश्चाकाशादिप्रपञ्चस्य देशकालौ न कारणमिति सिद्धान्त्युक्तिरसङ्गतैव।