ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
- ३३२-३३४ ब्रह्मनिष्ठकारणताया देशकालयोरङ्गीकारे अन्यथाख्यात्यापत्तिः स्यादित्याक्षेपः


आवर्तः ३३३ – अधिष्ठानब्रह्मनिष्ठकारणता देशकालयोरन्यथाख्यात्या प्रतीयत इति सिद्धान्तिनः समाधानम्

शङ्केयं न सङ्गच्छते। तथा हि ब्रह्मनिष्ठकारणतैव देशकालादौ प्रतीयते। यथा जपाकुसुमसम्बद्धस्फटिके उपाधिकुसुमनिष्ठरक्तिमा प्रतीयते, यथा च स्वप्ने अधिष्ठाननिष्ठसत्यता स्वप्नोपलभ्यमानमिथ्यापर्वतहस्त्यादिषूपलभ्यते, तद्वत्। अत्र स्फटिके अनिर्वचनीयलौहित्योत्पत्तिर्नाङ्गीक्रियते। किन्तु सन्निहितजपाकुसुमस्थलौहित्यमेव स्फटिके प्रतीयते। ततश्च शुक्लस्फटिकस्य रक्तवर्णत्वेन भासमानत्वात् स्फटिके रक्तवर्णज्ञानमन्यथाख्यातिरेव। तथैव स्वाप्नमिथ्यापदार्थेषु सत्यताप्रतीतिरप्यन्यथाख्यातिरेव। तत्रानिर्वचनीयसत्यतोत्पत्त्यङ्गीकारस्तु ‘सत्यमिदं वस्तु मिथ्या’ इति व्याहतवचनवदसङ्गतः। न चासत्प्रतीयेत। अतश्च स्वप्नाधिष्ठानचैतन्यगतसत्यतैव मिथ्यापदार्थे प्रतीयते इति मिथ्यापदार्थनिष्ठसत्यताविषयकज्ञानमप्यन्यथाख्यातिरित्येवाङ्गीक्रियते प्रतिभाति।