- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
- ३३२-३३४ ब्रह्मनिष्ठकारणताया देशकालयोरङ्गीकारे अन्यथाख्यात्यापत्तिः स्यादित्याक्षेपः
आवर्तः ३३४ – अन्तःकरणस्य यत्र द्वाभ्यां पदार्थाभ्यां संबन्धस्तत्रान्यथाख्यातिः। तत्रैकेन प्रदार्थेन संबन्धस्तत्रानिर्वचनीयख्यातिः
न चैवं सर्वभ्रमेष्वप्यन्यथाख्यात्यभ्युपगमप्रसङ्ग इति वाच्यम्। शुक्तिकादिषु रजतादिभानस्थले अन्यथाख्यात्यभ्युपगमे ‘विषयविलक्षणं ज्ञानं नोदेति’ इति न्यायविरोधस्य प्रसङ्गात्। यत्र स्फटिके लौहित्यज्ञानं जायते तत्र लोहितकुसुमस्य स्फटिकेन सह संबन्धोऽस्ति। तस्मात् स्फटिकसम्बद्धकुसुमगतलौहित्यं स्फटिके प्रतीयते। अन्तःकरणवृत्तेर्लोहितकुसुमाकारतादशायां तस्याः वृत्तेर्विषयो लोहितकुसुमसम्बद्धस्फटिकोऽपि। तस्मात् कुसुमगतलौहित्यं स्फटिके प्रतीयते। एवं शुक्ती रजतरूपेण न ज्ञायेत यतोऽन्यमतरीत्या शुक्तिदेशे अनिर्वचनीयं वा व्यावहारिकं वा रजतं नास्ति। किन्तु शुक्तिरेवास्ति। अन्तःकरणस्य शुक्तिसंबन्धे सति शुक्तिसमानाकारैव वृत्तिर्जायेत न रजताकारान्तःकरणवृत्तिर्भवेत्। तस्मादस्मन्मते शुक्तिरजतादिभ्रमस्थले अविद्यापरिणामरूपं चैतन्यविवर्तरूपं चानिर्वचनीयं रजतं तज्ज्ञानं चेत्युभयमप्युत्पद्यते इत्यङ्गीक्रियते। स्फटिकलौहित्यभ्रमस्थले तु स्फटिकेन लोहितकुसुमेन चान्तःकरणवृत्तेः संबन्धोऽस्ति। लोहितपुष्पसंबन्धाल्लौहित्याकारा वृत्तिर्जायते। तस्या वृत्तेः स्फटिकेनापि संबन्धोऽस्ति। स्फटिके च लौहित्यप्रतिफलनमस्ति। तस्मात् पुष्पधर्मभूतलौहित्यं स्फटिके तस्या वृत्तेर्विषयीभवति। तथा च यत्र द्वयोः पदार्थयोः संसर्गोऽस्ति तत्रान्यधर्मस्यान्यत्र प्रतिभानम् अन्यथाख्यातिरेव भवति। यत्र द्वयोः पदार्थयोः संबन्धो नास्ति न तत्रान्यथाख्यातिः। किन्त्वनिर्वचनीयख्यातिरेव। यथा लोहितपुष्पसम्बद्धे स्फटिके पुष्पगतलौहित्यं प्रतिभाति। तथा स्वप्ने अधिष्ठानचैतन्येन सम्बद्धेषु हस्त्यादिषु अधिष्ठानचैतन्यधर्मसत्यता प्रतिभाति। स्फटिके लौहित्यभानमिव स्वाप्नपदार्थे सत्यताभानमप्यन्यथाख्यातिरेव। एवमेवाधिष्ठानचैतन्यगतं कारणत्वमधिष्ठान चैतन्यसम्बद्धदेशकालयोः प्रतीयतेऽन्यथाख्यातिविधयैव।