- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
आवर्तः ३३५ – जाग्रत्प्रपञ्चः सामग्रीं विनोत्पद्यते। तस्मात् स्वप्नप्रपञ्चवज्जाग्रत्प्रपञ्चोऽपि मिथ्यैव
अन्यनिष्ठधर्मस्यान्यत्र प्रतीतावन्यथाख्यात्यभ्युपगमेनाधिष्ठानचैतन्यगता सत्यता यथा चैतन्येन सम्बद्धे सकलप्रपञ्चचेऽप्यभ्युपगम्यते। तथैवाधिष्ठानचैतन्यस्थकारणताप्यधिष्ठानसम्बद्धसकलप्रपञ्चेऽङ्गीकार्या भवेदिति यदाशङ्कितं तन्न सङ्गच्छते। तथा हि, (१) स्वप्ने पितृशरीरं पुत्रशरीरं चेति द्वे शरीरे उत्पद्येते। स्वप्नोपलभ्यमानपितृपुत्रशरीरयोरुभयोरप्यधिष्ठानचैतन्यसंबन्धस्य समत्वेऽपि पितृशरीरे अधिष्ठानचैतन्यधर्मभूता कारणता प्रतीयते। पुत्रशरीरे तु तादृशपितृजन्यत्वरूपकार्यतैव प्रतीयते, न तु कारणता। एवमधिष्ठानचैतन्यसंबन्धस्य सर्वप्रपञ्चसाधारणत्वेऽपि देशकालयोरेव चैतन्यनिष्ठकारणता प्रतीयते। अन्यत्र तु कार्यतैव निसर्गतः प्रतीयते। (२) अथवा असङ्गोदासीनस्वभावत्वादधिष्ठानचैतन्यं न कस्यापि परमार्थतः कारणं भवति। मायाप्रिबिम्बितचिदाभासस्य कारणत्वेऽपि आभासस्य स्वरूपं मिथ्या। यच्च स्वयं मिथ्या न तदन्यस्य कारणं भवेत्। तस्माद्यदि परमात्मनि प्रपञ्चं प्रति कारणता संभवेत् तत् भ्रमवशाद्देशकालयोः प्रतीयेत। परमात्मनि तु कारणता नास्ति। तस्मात्कारणत्वादिधर्मशून्यस्यासङ्गस्य चैतन्यस्य कारणत्वं देशकालयोः प्रतीयते इत्युक्तिर्न सङ्गच्छते। “अपूर्वमनपरम्” (बृ. २.५.१९) “अन्यदेव तद्विदितादथोऽविदितादधि” (के. १.३) “न तस्य कार्यं करणं च विद्यते” (श्वे. ६.८) “कार्यकारणता ह्यत्र न किञ्चिदुपपद्यते। यादृगेव परं ब्रह्म तादृगेव जगत्त्रयम्” इत्यादिश्रुतिस्मृतिशतेभ्यः। किन्तु मायाकृतानिर्वचनीयदेशकालावनिर्वचनीयकारणत्ववन्तौ भवतः। परमार्थतस्तु देशकालयोर्नास्ति कारणता। स्वप्ने कश्चनापुत्रो वन्ध्यः पुरुषः स्वकीयं पुत्रं पौत्रं च पश्यति। तत्र पुत्रपौत्रयोः शरीरमनिर्वचनीयतयोत्पद्यते। पुत्रशरीरे पौत्रशरीरं प्रत्यनिर्वचनीयकारणता चोत्पद्यते। न तु स्वप्ने परमार्थतः पुत्रपौत्रयोः शरीरं वा, पुत्रपौत्रशरीरयोः परस्परं कारणकार्यता वास्ति। तथैव देशकालावनिर्वचनीयावेव प्रतिभातः। परमार्थतस्तु देशकालयोराकाशादिप्रपञ्चस्य च कारणकार्यता नास्त्येव। इत्थमुचितदेशकालरूपसामग्रीमन्तरेणैव जाग्रत्प्रपञ्च उत्पद्यते। अतो जाग्रदपि स्वप्नवन्मिथ्यैव। यथा स्वप्नोपलभ्यमानस्त्रीपुत्रादीनां स्वप्ने एव सुखदुःखहेतुता भवति। न तु जाग्रदादौ तदा तेषामभावात्। तथैव जाग्रत्पदार्थानामपि तात्कालिकसुखदुःखादिहेतुत्वमेव, न तु स्वप्नादौ सुखदुःखादिहेतुत्वम्, तदा तेषां पदार्थानामेवाभावात्। तस्माज्जाग्रत्स्वप्नौ समावेव। “त्रय आवसथास्त्रयः स्वप्ना अयमावसथोऽयमावसथोऽयमावसथः।” (ऐ. १.३.१२)
“स्वस्वप्नमापरोक्ष्येण दृष्ट्वा पश्यन् स्वजागरम्।
चिन्तयेदप्रमत्तः सन्नुभावनुदिनं मुहुः॥ प. ७.१७३॥
चिरं तयोः सर्वसाम्यमनुसन्धाय जागरे।
सत्यत्वबुद्धिं सन्त्यज्य नानुरज्यति पूर्ववत्॥ १७३॥
इत्यादिश्रुतिस्मृतिशतेभ्यः।