- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
- ३२२-३४१ जाग्रति पदार्थाः ज्ञानसमकालमेवोत्पद्यन्ते। अज्ञातसत्ताभावाद् द्वितीयजागरणपर्यन्तं नानुवर्तन्ते। जाग्रत्स्वप्नपदार्था अस्थिराः
आवर्तः ३३६ – मुख्यसिद्धान्ताज्ञानामेव जाग्रत्पदार्थानां स्थिरत्वबुद्धिः
ननु जागरात् स्वप्नमनुभूय पुनर्जागरणे सति प्रथमजागरे येऽर्था अनुभूतास्त एव स्वप्नव्यवहितद्वितीयजागरेऽप्यनुभूयन्ते। न तु तथा प्रथमस्वप्नदृष्टपदार्था द्वितीयस्वप्ने दृश्यन्ते। तस्मात् स्वप्नपदार्थापेक्षया जाग्रत्पदार्था विलक्षणा एवेति चेत् तन्न। मुख्यसिद्धान्ताज्ञानमूलकत्वादस्याः शङ्कायाः। तथा हि, अद्वैतशास्त्रस्य मुख्यसिद्धान्ताज्ञानामेवं दृष्टिर्भवति संसारप्रवाहोऽयमनादिः। तत्र जीवस्य जाग्रत्स्वप्नसुषुप्त्यवस्था भवन्ति। जाग्रत्काले स्वप्नसुषुप्ती नश्यतः। स्वप्नकाले जाग्रत्सुषुप्ती नश्यतः। तथैव सुषुप्तौ जाग्रत्स्वप्ने नश्यतः। परन्तु यदा स्वप्नसुषुप्ती भवतः तदा जाग्रत्यनुभूतदारापत्यधनपशुगृहक्षेत्रारामादयोऽविनश्यन्तोऽनुवर्तन्त एव। तेषां ज्ञानमेव विनश्यति। पुनर्जागरणं यदा भवति तदा प्रथमजाग्रति स्थितपदार्थानामेव ज्ञानं भवतीति। इयं च मुख्यसिद्धान्ताज्ञानां दृष्टिः।