ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
- ३३६-३३७ जाग्रति पदार्थाः ज्ञानसमकालमेवोत्पद्यन्ते। अज्ञातसत्ताभावाद् द्वितीयजागरणपर्यन्तं नानुवर्तन्ते। जाग्रत्स्वप्नपदार्था अस्थिराः


आवर्तः ३३७ – जाग्रत्पदार्थाः सर्वेऽपि तद्विषयकज्ञानेन सहोत्पद्यन्ते। ज्ञानेन सहैव विनश्यन्ति च

सिद्धान्तस्त्वेवम् सर्वे पदार्थाश्चैतन्यविवर्ता अज्ञानस्य परिणामाश्च। तस्मात् शुक्तिरजतवत् यदा यः पदार्थः प्रतीयते तदा अधिष्ठानचैतन्याश्रिताविद्याया द्विविधः परिणामो जायते। अविद्यायास्तमोगुणांशस्य घटादिविषयरूपः परिणामो भवति। अविद्यायाः सत्त्वगुणांशस्य ज्ञानरूपपरिणामो भवति। यद्यपि चैतन्यस्यैव ज्ञानमिति व्यपदेशात्सत्त्वगुणपरिणामस्य ज्ञान - त्वोक्तिर्न सङ्गच्छते। तथापि सर्वं व्यापकचैतन्यं न ज्ञानम्, किन्तु साभासवृत्त्यारूढचैतन्यमेव ज्ञानमित्युच्यते। तस्माच्चैतन्ये ज्ञानव्यवहारस्य सम्पादिका वृत्तिरेवेति चैतन्यस्य ज्ञानत्वापादकोपाधिभूतवृत्तावपि ज्ञानशब्दः प्रयुज्यते। “घटज्ञानं जातं पटज्ञानं नष्टम्’ इति लोके व्यवहारो दृश्यते। तत्र वृत्त्यारूढचैतन्यस्य स्वत उत्पत्तिनाशासंभवेऽपि उपाधिभूतवृत्तेस्तत्संभवात् ज्ञाने उत्पत्तिनाशव्यवहारो भवति।

इत्थं वृत्तौ ज्ञानशब्दप्रयोगसंभवात् तादृशवृत्तिरूपं ज्ञानं सत्त्वगुणपरिणामो भवति। तस्यां वृत्तौ चैतन्याभासो जायते। घटादिविषयरूपपरिणामे तु चैतन्यस्याभासो न जायते। उभयोरपि घटादिविषयतज्ज्ञानयोरविद्यापरिणामत्वेऽपि घटादिविषया अविद्यायास्तमोगुणपरिणामत्वान्मलिना भवन्ति। अतस्तत्र चिदाभासोदयो न भवति। वृत्तिस्तु सत्त्वगुणपरिणामत्वात् स्वच्छा भवति। अतस्तत्र चिदाभासोदयः संभवति। इत्थं वृत्तौ चैतन्यप्रतिबिम्बग्रहणयोग्यतासत्त्वात् तदवच्छिन्नं चैतन्यं ज्ञानम् इति, तदुपहितं चैतन्यं साक्षीति चोच्यते। घटादिविषयाणां तु चैतन्याभासग्रहणयोग्यताया अभावात् विषयावच्छिन्नचैतन्यं न ज्ञानं न वा साक्षी।

इत्थं जाग्रत्पदार्थास्तज्ज्ञानानि च सहैवोत्पद्यन्ते सहैव नश्यन्ति। अतस्तेऽपि प्रातिभासिका एव स्वाप्नपदार्थवत् इति वेदान्तरहस्यम्। तस्मात् प्रथमजाग्रति दृष्टा एव पदार्थाः स्वप्नसुषुप्त्यनन्तरं पुनरपि द्वितीयजाग्रत्यनुभूयन्ते इत्युक्तिरसङ्गतैव।