ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्

- ३२२-३४१ जाग्रत्पदार्थानां मिथः कार्यकारणता नास्तीति प्रतिपादनम्

आवर्तः ३३८ – स्वप्नपदार्थः साक्षादविद्याकार्यं जाग्रत्पदार्थस्तदीयासाधारणकारणजन्य इति जाग्रत्स्वप्नयोर्न साम्यमिति शङ्काः

ननु स्वप्नात् प्रबुद्धः पूर्वं ये पदार्था मया दृष्टास्तानेवाद्य पश्यामि’ इति प्रत्यभिजानाति। तस्माज्जाग्रत्पदार्था ज्ञानसमकालोत्पत्तिनाशशालिनो न भवन्ति। किन्तु ज्ञानात्प्रागूर्ध्वं च विद्यन्ते। अतोऽज्ञातसत्ताका जाग्रत्पदार्था इत्येव युक्तमिति चेत्, न। स्वप्ने तत्क्षणोत्पन्नेषु पदार्थेषु इमे गिरिनदीसमुद्रादयो मम जन्मनः प्रागेवोत्पन्ना वर्षसहस्रकालादारभ्य वर्तन्त इति प्रतीतिर्भवति केषाञ्चित्। तत्र तत्क्षणोत्पन्ने स्वाप्नपदार्थे या चिरन्तनत्वप्रतीतिः सा भ्रान्तिरेव। तस्माद्ययाविद्यया स्वप्ने मिथ्याभूता गिरिनदीसमुद्रादयः पदार्था उत्पादितास्तयैवाविद्यया तत्तत्पदार्थानां चिरन्तनत्वं तादृशचिरन्तनत्वविषयकज्ञानं चानिर्वचनीयतयोत्पद्यते। एवमेव जाग्रत्पदार्थेषु वस्तुतश्चिरन्तनत्वाभावेऽपि अविद्यावशादेव तत्तत्पदार्थेः सहैव *१ मिथ्याभूतं स्थिरत्वमप्यनिर्वचनीयतयोत्पद्यते। अतश्च जाग्रत्पदार्थानामपि स्थिरत्वप्रतीतिर्भ्रान्तिरेव।

*१. सुप्तप्रबुद्धस्य पुरुषस्य घटादिजाग्रत्पदार्थान् दृष्ट्वा पूर्वं जागरकाले येऽवस्थितास्त एवैते घटादय इति जायमानः प्रत्यभिज्ञाप्रत्ययः सोऽयं नदीप्रवाहः, सेयं दीपज्वाला इत्यादिप्रत्यभिज्ञाप्रत्ययवम एव। तस्मान्मुख्यदृष्टान्तः स्वप्न एव। स चार्थो ग्रन्थकारेणैवोपरि वक्ष्यते।

आक्षेपः – नन्वेवं सति स्वाप्नपदार्थाः साक्षादविद्यापरिणामाः। जाग्रत्पदार्थास्तु न साक्षादविद्यापरिणामाः। किन्तु यथा घटादयो दण्डचक्रकुलालादिभिर्जायन्ते तथैव सर्वेऽपि जाग्रत्पदार्थास्तत्तदसाधारणकारणवशाज्जायन्ते। यदि जाग्रत्पदार्थाः साक्षादविद्यापरिणामाः स्युः, तदा आकाशादिक्रमेण पञ्चभूतोत्पत्तिः पञ्चीकरणं पञ्चीकृतभूतेभ्यो ब्रह्माण्डोत्पत्तिरित्यादिकं श्रुत्योच्यमानमसङ्गतं भवेत्। तस्मादीश्वरसृष्टा जाग्रत्पदार्थाः स्वस्वोपादानकारणपरिणामा एव। न तु साक्षादविद्यापरिणामाः। स्वाप्नपदार्थास्तु सर्वेऽपि साक्षादविद्यापरिणामाः। यस्मात् सर्वेषां स्वाप्नपदार्थानामेकैवाविद्योपादानं भवति तस्मात् स्वाप्नपदार्थानां तज्ज्ञानानां च युगपदेवैकस्या अविद्यायाः सकाशादुत्पत्तिः संभवेत्। जाग्रत्पदार्थास्तु स्वोत्पत्तेः प्राग्विद्यमानेभ्यो भिन्नभिन्नेभस्तेभ्यस्तेभ्यः स्वस्वोपादानकारणविशेषेभ्य उत्पद्य स्वस्वोपादानकारणेषु विलीयन्ते। घटादिजाग्रत्पदार्थोत्पत्तेः पूर्वं नाशादूर्ध्वं च मृत्पिण्डादिरूपोपादानकारणानि वर्तन्ते। एवं जाग्रत्पदार्थाः केचन स्वल्पकालावस्थायिनः केचन स्थिरकालावस्थायिनो यथोचितं परस्परं कार्यकारणभावमापन्नाश्च वर्तन्ते। न तथा स्वाप्नपदार्था इति जाग्रत्स्वप्नयोः साम्यं न युज्यते इति चेत्।