- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
- ३३८-३४० जाग्रत्पदार्थानां मिथः कार्यकारणता नास्तीति प्रतिपादनम्
आवर्तः ३३९ – जाग्रत्स्वप्नयोः साम्यसमर्थनम्
नैष दोषः। जाग्रत्पदार्थेष्विव स्वाप्नपदार्थेष्वपि कार्यकारणताप्रतीतिरस्ति। मदीया गौर्वत्समजनयत्। मम जाया पुत्रमसूत’ इति स्वप्नो नैसर्गिकः। तत्र युगपदेवोत्पद्यमानेषु स्वाप्नपदार्थेषु गोजायादीनां बहुकाल - स्थायिता कारणता च प्रतीयेते। वत्सपुत्रादीनां तु पश्चाद्भाविता कार्यता च प्रतिभासेते। दृष्टिसमये समकाले एवोत्पन्नानां तेषां मध्ये नैवास्ति वस्तुतः पूर्वपश्चात्कालता परस्परं कार्यकारणता वा। गोर्वत्सस्य च तथैव जायायाः पुत्रस्य चाविद्यैव साक्षादुपादानम्। एवमेव जाग्रद्दशायामपि केचन पदार्था अधिककालस्थायिनो ज्यायांसः कारणरूपा इति केचन पदार्था अल्पकालस्थायितनो यवीयांसः कार्यरूपा इति च स्वप्ने इव प्रतिभान्ति। परमार्थतस्तु न कोऽपि पदार्थः कस्यचिदपि पदार्थस्य कारणभावं वा कार्यभावं वा भजते। किन्त्वविद्ययैव ते ते पदार्थास्तथा तथा प्रतिभान्ति। तस्मात् स्वप्न इव जाग्रदपि साक्षादविद्याकार्यमेव।