- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
- ३३८-३४० जाग्रत्पदार्थानां मिथः कार्यकारणता नास्तीति प्रतिपादनम्
आवर्तः ३४० – सृष्टिश्रुतीनां लयचिन्तनद्वारा ऽद्वैते तात्पर्यम्
सृष्टिक्रमप्रतिपादकश्रुतीनां न सृष्टौ तात्पर्यम्, किन्तु ब्रह्मणोऽद्वितीयत्वबोधने एव। सर्वे पदार्थाः परमात्मन एव जायन्ते इति तद्विवर्तभूता एव। यद्यद्विवर्तभूतं तत्तत्स्वरूपमेव भवति, न ततोऽतिरिच्यते। अतो नामरूपात्मकः सकलः प्रपञ्चो ब्रह्माव्यतिरिक्ततया ब्रह्मैवेतीममर्थं बोधयितुमेव सृष्टिश्रुतिः प्रवृत्ता नान्यत्प्रयोजनमस्ति सृष्टिश्रुतेः।
तत्र सृष्टौ यः क्रम उक्तस्तस्यापि स्थूलदृशां पुंसामुत्पत्तिक्रमविपरीतक्रमेण परमकारणे ब्रह्मणि सर्वकार्यलयचिन्तनद्वाराद्वितीयब्रह्मावबोधनायैवेत्यद्वैतबोधनमेव प्रयोजनम्। न त्वाकाशादीनामुत्पत्तौ क्रमबोधने वा तेषां परस्परकार्यकारणताबोधने वा सृष्टिश्रुतेः प्रामाण्यम्। सृष्टौ नास्ति क्रमः किन्तु सर्वे पदार्था एकस्या एवाविद्यायाः सकाशादुत्पन्नाः। तत्र परस्परं कार्यकारणभावो वा पूर्वपश्चात्कालीनत्वं वा अविद्याकृते स्वप्ने इव मिथ्यैव प्रतिभासते। श्रुत्योक्तमाकाशादीनां पूर्वपश्चाद्भावित्वकार्यकारणत्वादिकं तु कारणव्यतिरेकेण कार्यं नास्तीति मन्दानां लयचिन्तनार्थं कृतम्। यथा वस्तुस्वरूपमस्ति तथैव ध्यानं कर्तव्यमिति नियमो नास्ति। तस्माज्जाग्रत्पदार्थानामपि परस्परं कार्यकारणभावो नास्त्येव।