- ३२२-३४१ जाग्रत्स्वप्नयोस्तुल्यता इति सिद्धान्तनिरूपणम्
आवर्तः ३४१ – दृष्टिसृष्टिवाद एवाङ्गीकार्यः
परमार्थतस्तु जागरितपदार्थानामपि कार्यकारणत्वादिकं किञ्चिदपि न संभवति। सर्वेऽपि पदार्थाः साक्षादविद्याकार्यभूताः शुक्तिरजतादिवत् स्वाप्नवच्च। साक्षादविद्याकार्यत्वेन प्रातिभासिकत्वादविद्यावृत्त्युपहितसाक्षिणैव सर्वेऽपि पदार्थाः प्रकाश्यन्ते। अविद्याया ज्ञेयाकारो ज्ञानाकारश्च परिणामो युगपदेवोत्पद्य युगपदेव नश्यति स्वप्नवदेव। ‘दर्शनं सृष्टिरदर्शनं लयः’ इति न्यायाद्यदा पदार्थः प्रतीयते तदैव प्रतीतिविषयः पदार्थो जायते। न तु कालान्तरे पदार्थोत्पत्तिरस्ति। अयमेव *१ दृष्टिसृष्टिवाद इत्युच्यते।
*१. दृष्टिः = अविद्यावृत्तिरूपं ज्ञानम्, तदुत्पत्तिसमये एव सृष्टिः = दृश्यप्रपञ्चोत्पत्तिः। अस्यार्थस्य प्रतिपादनं दृष्टिसृष्टिवाद इति अजातवाद इति च कथ्यते। अयं च वादो बृहदारण्यकोपनिषद्भाष्ये, वार्तिके, माण्डूक्योपनिषत्कारिकायाम्, तद्भाष्ये, तत्रैवानन्दगिरिव्याख्याने, वासिष्ठे, सूतसंहितायाम्, वेदान्तमुक्तावल्याम्, आत्मपुराणे, अद्वैतसिद्धौ, अन्येषु च वेदान्तग्रन्थेषु प्रतिपाद्यतेऽत्यादरेण। विशेषजिज्ञासवस्तान्ग्रन्थानवलोकयेयुः। ‘अक्के चेन्मधु विन्देत किमर्थं पर्वतं व्रजेत्’ इति न्यायेनैतद्ग्रन्थेनैव जिज्ञासूनां दृष्टिसृष्टिसिद्धान्तज्ञानं सम्यक् जायते। ग्रन्थान्तरावलोकनं तु तेषां बुद्धिविनोदनाय भवति। इतोऽप्यन्यो दृष्टिसृष्टिवादोऽस्ति। तत्र –
सत्ता सर्वपदार्थानां नान्या संवेदनादृते।
ज्ञानस्वरूपमेवाहुर्जगदेतद्विचक्षणाः॥
अर्थस्वरूपं भ्राम्यन्तः पश्यन्त्यन्ये कुदृष्टयः। इति।
सत्तान्तरनिन्दापूर्वकं सत्तैकत्वप्रतिपादनेन जगतस्तुच्छत्वमुच्यते। अयमेव सर्वोत्तमः पक्षो दुर्लभाधिकारिकः।
अस्मिन् पक्षे पदार्थानामज्ञातसत्ता नास्ति। किन्तु ज्ञातसत्तैवास्ति। अद्वैतवादेऽयमेव सिद्धान्तपक्षः। अस्मिन् पक्षे सत्ताद्वैविध्यमेव न सत्तात्रैविध्यम्। सर्वेषामेव दृश्यानामनात्मपदार्थानां स्वाप्नपदार्थानामिव प्रातिभासिकसत्तैव। प्रतिभासकालादन्यकालेऽनात्मपदार्थानां सत्ता नास्ति। तस्मान्नासत्येव तृतीया व्यावहारिकी सत्ता।
किञ्चास्मिन् पक्षे निखिलानात्मपदार्थाः साक्षिभास्याः। प्रमातृप्रमाणयोर्विषयभूतं न किञ्चिदप्यस्ति वस्तु। यतोऽन्तःकरणमिन्द्रियाणि घटादिविषया इति त्रिपुटीज्ञानं चेति सर्वमपि स्वप्न इव युगपदेव जायते। अतस्तेषां मध्ये न विषयविषयित्वं संभवति। घटादिविषयाः, नेत्रादीन्द्रियाणि, अन्तःकरणं चेत्येतानि यदि ज्ञानात् पूर्वं स्युस्तदा नेत्रादिद्वारान्तःकरणस्य वृत्तिरूपं ज्ञानं प्रमाणजन्यं भवेत्। तच्चान्तःकरणम्, इन्द्रियाणि, विषयाश्चेति त्रितयं ज्ञानपूर्वकाले नास्ति। ज्ञानकाले एव स्वप्ने इव त्रिपुटी उत्पद्यते। तस्मात् त्रिपुटीजन्यं ज्ञानं किञ्चिदपि नास्ति। तथापि ज्ञाने स्वप्नवत् त्रिपुटीजन्यता प्रतीयते। तस्माज्जाग्रत्पदार्थाः साक्षिभास्याः; न प्रमाणजन्यज्ञानविषयाः। अतोऽपि जाग्रत्पदार्थाः स्वप्नसमाः मिथ्या भवन्ति।
किञ्च जाग्रति केचन पदार्था मिथ्यारूपेण केचन सत्यरूपेण च प्रतीयन्ते। तत्रापि अनादिकालमारभ्य केचन पदार्था विद्यते। केचन विनश्यन्ति। तत्सदृशाश्चान्ये उत्पद्यन्ते। इत्थं प्रपञ्चधारा उच्छेदो न कदापि भवतीति समुत्पन्नज्ञानस्य प्रपञ्चो न प्रतीयते। इतरेषां तु भासते इति। तादृशस्य ज्ञानस्य गुरुर्वेदान्ताश्च साधनानि। तैः साधनैः परमार्थसत्यस्य लाभः सिद्ध्यतीति चेत्येवंरूपा प्रतीतिर्जाग्रति भवति। एवं केषाञ्चित्पदार्थानां मिथ्यात्वम्, किषाञ्चिन्नाशः केषाञ्चिदुत्पत्तिः, गुरुवेदान्तादिसाधनैः परमपुरुषार्थलाभ इति च। एतत्सर्वमविद्याकृतस्वप्नवन्मिथ्यैव।
न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः।
न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता॥ प. चि. २३५, कू. ७१॥
यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति, यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्॥ बृ. २.४.१४॥
नबन्धोऽस्ति न मोक्षोऽस्ति कदाचित् कस्यचित् क्वचित्।
सर्वमात्ममयं शान्तमित्येवं प्रत्ययं स्फुटम्॥२२२
सबाह्याभ्यन्तरं राम सर्वत्र दृढतां नय।
अविद्यमानोऽप्यवभासते द्वयो
ध्यातुर्धिया स्वप्नमनोरथौ यथा।
तत्कर्म सङ्कल्पविकल्पकं मनो
बुधो निरुन्ध्यादभयं ततः स्यात्॥ भा. पु. ११.२.३८॥
इत्याद्यनेकश्रुतिस्मृतीतिहासपुराणानुभवादिभ्यः। वासिष्ठरामायणे चेत्थमनेकेतिहासा उपलभ्यन्ते।
किञ्च क्षणकालमात्रव्यापिनि स्वप्ने *१ अनन्तकल्पकालो भाति।
*१. कल्पकालनिर्णयः –
- १५ निमेषाः (अक्षिपक्ष्मपरिस्पन्दाः) एका काष्ठा।
- ३० काष्ठा एका कला।
- ३० कला एको मुहूर्तः (घटिकाद्वयम्)।
- ३० मुहूर्ता एक दिनम् (अहोरात्रम्)।
- १५ दिनानि एकः पक्षः।
- २ पक्षौ एको मासः।
- २ मासौ एको ऋतुः।
- ३ ऋतव एकमयनम्
- २ अयने एको वत्सरः।
- १,७२८,००० वत्सरा एकं कृतयुगम्।
- १,२९६,००० वत्सरा एकं त्रेतायुगम्।
- ८६४,००० वत्सरा एकं द्वापरयुगम्।
- ४३२,००० वत्सरा एकं कलियुगम्।
- ४,३२०,००० वत्सरा अथवा चतुर्युगसमाहार एकं महायुगम्।
- ३०६,७२०,००० वत्सरा अथवा ७१ महायुगानि एकं मन्वन्तरम्।
- ४,२९४,०८०,००० वत्सरा अथवा ९९४ महायुगानि चतुर्दश मन्वन्तराणि।
- २५,९२०,००० वत्सरा अथवा ६ महायुगानि द्वौ युगसन्धी।
- ४,३२०,०००,००० वत्सरा अथवा १००० महायुगानि कल्पः – अथवा ब्रह्मण ब्रह्मण एकमहः (दिवा)।
- ८,६४०,०००,००० वत्सरा अथवा २००० महायुगानि ब्रह्मण एकं दिनम् (अहोरात्रम्)।
- ३,११०,४४०,०००,००० वत्सरा ब्रह्मण एकोऽब्दः (वत्सरः)।
- ३११,९४०,०००,०००,००० वत्सरा ब्रह्मण आयुः - अथवा महाकल्पः, द्विपरार्धावसानम्।
जाग्रतीव स्थिरतया पदार्थाः प्रतिभान्ति। तैः पदार्थैश्चरकालं भोगो भुज्यते। तथा चोक्तं पञ्चदश्यां ब्रह्मानन्देऽद्वैतानन्दप्रकरणे –
निद्राशक्तिर्यथा जीवे दुर्घटस्वप्नकारिणी।
ब्रह्मण्येषा स्थिता माया सृष्टिस्थित्यन्तकारिणी॥ ८६॥
स्वप्ने वियद्गतिं पश्येत् स्वमूर्धच्छेदनं तथा।
मुहूर्ते वत्सरौघं च मृतपुत्रादिकं पुनः॥ ८७॥
इदं युक्तमिदं नेति व्यवस्था तत्र दुर्लभा।
यथा यथेक्ष्यते यद्यत् तत्तद्युक्तं तथा तथा॥ ८८॥
ईदृशो महिमा दृष्टो निद्राशक्तेर्यदा तदा।
मायाशक्तेरचिन्त्योऽयं महिमेति किमद्भुतम्॥ ८९॥
तस्माज्जाग्रत्पदार्थानां स्वाप्नपदार्थापेक्षया वैलक्षण्यं किञ्चिदपि नास्ति। किन्त्वात्मनो भिन्नं सर्वं मिथ्यैव। “अतोऽन्यदार्तम्”, “न तु तद्वितीयमस्ति ततोऽन्यद्विभक्तम्” (बृ. ४.३.२३-३१) इत्यादिश्रुतिभ्यश्च।