ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्

- ३१७-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्

आवर्तः ३४२ – संसारस्य स्वप्नवत् स्वल्पकालस्थायित्वे बन्धानादित्वं, तन्निवृत्तिरूपमोक्षोद्देश्यकश्रवणादिसाधनानुष्ठानं च न घटेतेति तत्त्वदृष्टेस्तृतीयः प्रश्नः

तर्कदृष्टिः पृच्छति ईश्वरसृष्टिरनन्तकल्पकालादनादितया प्रवर्तते। तत्र ज्ञानी मुच्यते, अज्ञानी संसरति। यदि जाग्रदपि *१ स्वप्नसमः स्यात् तदा यथा स्वप्नः क्षणम्, मुहूर्तम्, प्रहरकालं वा भवति, तथा संसारोऽपि क्षणम्, मुहूर्तम्, प्रहरकालम्, ततः किञ्चिदधिककालं वा भवितुमर्हति। (१) संसारस्य स्वप्नवत्स्वल्पकालस्थायित्वे बन्धोऽनादिकालात्प्रवर्तते इति न युज्येत। (२) बन्धनिवृत्तिरूपमोक्षप्राप्तये श्रवणादिसाधनानुष्ठानं च निष्फलं भवेदिति।

*१. अयं च दृष्टिसृष्टिवादस्य निश्चयः।

गुरुरुत्तरमाह – यद्यपि पूर्वोक्तसिद्धान्ते (१) बन्धमोक्षौ *१ गुरुवेदान्तादयश्च नाङ्गीक्रियन्ते। (२) किन्तु चैतन्यमेकं नित्यमुक्तमस्ति (३) अविद्यापरिणामश्चैतन्ये नानाविवर्तरूपा भवन्ति। तैर्विवर्तैरात्मस्वरूपस्य न काचिदपि हानिः। (४) आत्मा सदासङ्ग एकरसश्चास्ते। (५) अद्यावधि न कोऽपि मुक्तः। अग्रे च न कोऽपि मुक्तो भविष्यति। जीवन्मुक्तिशास्त्रं तु प्ररोचकोऽर्थवादः। किन्तु चैतन्यं नित्यमुक्तमस्ति। (६) अविद्यायास्तत्परिणामानां च चैतन्येन सह कदाचिदपि संबन्धो नास्ति। तस्माद्बन्धः वेदः, गुरुः, श्रवणादीनि, समाधिः, मोक्षश्चेत्येतेषां प्रतीतिः स्वप्न इवाविद्याजन्यैव। तस्मान्मिथ्यैव सर्वे पदार्थाः। (७) एतेषां बहुकालस्थायित्वमप्यविद्याजन्यमेव। तथापि सिद्धान्तमिममजानतः स्थूलदृष्टेरयं प्रश्न इति।

*१. अत्रायमभिप्रायः अस्मिन् दृष्टिसृष्टिवादे “ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेत्। अहं ब्रह्मास्मीति” (बृ. १.४.१०) इत्यादिश्रुत्या, “ब्रह्मैव स्वाविद्यया संसरति स्वविद्यया मुच्यते च” इति बृहदारण्यकभाष्यात्,

व्याधसूनोः स्मृतिप्राप्तौ व्याधभावो निवर्तते।
यथैवमात्मनोऽज्ञस्य तत्त्वमस्यादिवाक्यतः॥

इत्यादिवार्तिकाच्च स्वाविद्यया जीवभावमापन्नस्य ब्रह्मण एकत्वादेक एव जीवोऽङ्गीक्रियते। अन्यजीवरूपगुरुशिष्ययोरङ्गीकारो नास्त्येव। किन्तु स्वप्नगतैकमुख्यजीवाद्भिन्ना अन्ये जीवाभासा यथा प्रतीयन्ते, तथैवाभासरूपा गुरुशिष्यादयः प्रतिभान्ति। तस्मिन् गुरावीश्वरबुद्ध्या भक्त्यादिप्रदर्शनमपि स्वाप्नगुर्वादौ भक्त्यादिप्रदर्शनवन्मिथ्यैव। किञ्चास्मिन् पक्षे जीवेश्वरादयः षट् पदार्थाः स्वरूपतोऽनादय अङ्गीकृताः।

जीव ईशो विशुद्धा चित् तथा जीवेशयोर्भिदा।
अविद्या तच्चितोर्योगः षडस्माकमनादयः॥ इति।

तत्र ब्रह्मणि पारमार्थिकसत्तास्ति। ब्रह्मभिन्नपञ्चके (प्रपञ्चे) व्यावहारिका सत्ता वर्तते। प्रवाहरूपेणानादावितरस्मिन् सकलकार्यप्रपञ्चे प्रातिभासिकसत्ता विद्यते। अतश्चास्मिन् पक्षे उत्तरोत्तराध्यासकारणीभूतपूर्वपूर्वाध्यासज्ञानजन्यसंस्काराश्रयाविद्याया ईश्वरस्य च सत्त्वात् न क्षणिकविज्ञानवादप्राप्तिः। न वा निरीश्वरवादप्राप्तिः। अयमर्थोऽद्वैतसिद्धौ मधुसूदनसरस्वतीभिः प्रतिपादितः। अयमर्थो जीवप्रसङ्गादत्र वर्णितः।