- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४२-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३४२-४६३ गतप्रश्नस्योत्तरम्
आवर्तः ३४३ – शिष्यस्य गुरुतदुपदेशादिप्रतीतिर्मिथ्येति सदृष्टान्तं गुरोर्वचनम्
हे सोम्य यथा निद्रादोषात्स्वप्ने अध्यापकोऽध् ऽध्ययनम्, पुराणधर्मशास्त्राणि, अध्येता, कर्म, तत्फलं चेत्यादिकं प्रतीयते। तेषु सर्वेषु पदार्थेषु सत्यत्वभ्रान्तिश्चोपजायते। तथापि स्वप्ने सर्वे पदार्था मिथ्यैव भवन्ति। तथा जाग्रत्यपि सर्वे पदार्था मिथ्यैव। तेषु सत्यत्वप्रतीतिभ्रम एव। अहं तव गुरुत्वेन प्रतीतः सन् बन्धनिवर्तकवेदान्तोपदेशं करोमीति यत् तदपि तव मिथ्याप्रतीतिरेव।
यथा *१ अगृधदेवस्य स्वप्ने मिथ्याप्रतीतिविषया गुरुवेदान्तादयोऽनिर्वचनीयतयोत्पन्नास्तथैव तव प्रतीतौ अहं मदुपदेशादिकं च सर्वं वस्तु मिथ्यैवानिर्वचनीयतया प्रतिभाति।
*१. गृधा नामेच्छा। सा च सर्वदोषाणामुपलक्षणम्। गृधारहितोऽगृधः। देवः स्वप्रकाशचैतन्यम्। अगृधश्चासौ देवश्चागृधदेवः। तथा च अविद्यातत्प्रयुक्तरागादिरूपसर्वमलशून्यशुद्धचैतन्यमगृधदेवशब्दस्य गूढोऽर्थः।