ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३४३-३५१ गतप्रश्नस्योत्तरम्

- ३४३-३५१ अगृधदेवस्य स्वप्नः

आवर्तः ३४४ – अगृधदेवस्य स्वप्नदर्शनम्

अगृधदेवस्यैवं स्वप्नः समभवत् अगृधनामा कश्चन देवः स्वयमनादिकालनिद्रां कुर्वाण इव *२ स्वप्नम् अपश्यत्। तस्मिन् स्वप्ने तस्य पुरुषस्यैवं प्रतीतिरभवत् – (१) अहं *३ चण्डालोऽस्मि, (२) महादुःखी भवामि, (३) अस्थिमज्जारुधिरत्वङ्मांसमेदोवीर्यरूपसप्तधातुभिर्मे मुखं पूरितमस्ति, (४) महाघोरे भयङ्करे व्याघ्रगजादिसङ्कुले *४ महारण्ये इतस्ततः परिभ्रमामि; इति।

*२. स्वप्नः = जननमरणप्रवाहरूपसंसाराख्यो महास्वप्नः।

*३. चण्डालः = अविद्याहङ्कारादिविशिष्टः स्थूलसूक्ष्मदेहद्वयाभिमानी जीवः।

*४. महारण्ये संसाराख्ये जगति।

तादृशदेवोऽहमितस्ततो भ्रमन् नानास्थानानि पश्यामि। (१) तत्र *५ क्वचिद्देशे नाना भयङ्कराः प्राणिनो मां भक्षयितुं ममाभिमुखाः प्रधावन्ति, (२) क्वचित्पूयशोणितपूर्णे महागर्ते पतिताः केचन प्राणिनो हाहाकारशब्दान् कुर्वन्ति, (३) अन्यत्र क्वचित् सन्तप्तलोहमयस्तम्भनिबद्धाः प्राणिनो विक्रोशन्ति, (४) क्वचिच्च सन्तप्तवालुकापूर्णे मार्गे पादुकाहीना नग्नपादाः पुरुषा गच्छन्ति। तांश्च राजभटा लोहमयदण्डेन ताडयन्ति। इत्थं नानाभयङ्करस्थानानि स्वप्ने पश्यन् स देवः कदाचिदात्मानमप्यपराधिनं तादृशापराधफलभूतदुःखभागिनं च स्वप्नेऽपश्यत्।

*५. इत आरभ्य नरकवर्णनं क्रियते।

तस्मिन्नेव स्वप्ने सोऽगृधदेवोऽन्यत्र *१ दिव्यं स्थानम् अपश्यत्। तत्र च (१) उत्तमा देवता विराजन्ते (२) तासां देवतानां भोगा दिव्या भवन्ति, (३) अमृतस्य दर्शनमात्रेण ता देवतास्तृप्ताः, (४) क्षुत्पिपासे ता देवता न बाधेते, (५) तासां देवतानां शरीराणि मलमूत्रादिरहितानि दिव्यानि प्रकाशन्ते, (६) उत्तमविमाने स्थितः कश्चन देवो रमते। तच्च विमानं तस्य देवस्येच्छानुसारेण गच्छति, (७) कुत्रचिद्रम्भोर्वश्यादयोऽप्सरसो नृत्यन्ति। तासां सकलान्यप्यङ्गानि निर्दोषाणि विलसन्ति। तत्र सर्वा योषितः *२ सम्पूर्णगुणोपेता राजन्ते (८) तासामङ्गेभ्यः कामोद्दीपकोत्तमसुगन्धः प्रसरति। क्वचित्ताभिः सह देवा रमन्ते, (९) अगृधदेवः स्वयमपि कदाचिद्देवभावं प्राप्तः ताभिर्दिव्याङ्गनाभिः साकं दिव्येषु स्थानेषु सुचिरं कालं रमते। (१०) एवं दिव्यस्थानेष्वप्सरोभी रममाणोऽगृधदेवः *३ सहसाकस्मादेव रुधिरमलादिपूरिते कुण्डे निमग्नो भवति।

*१. इत आरभ्य स्वर्गवर्णनम्।

*२. काव्यालङ्कारादिग्रन्थेषूक्ताः स्त्रीणां सौन्दर्यादयो द्वात्रिंशद्गुणा ये उक्तास्तैरुपेताः।

*३. पुण्ये क्षीणे, पापे फलोन्मुखे सति।

तस्मिन्नेव स्वप्ने सोऽगृधदेवो *४ अन्यत्र स्थाने स्थितं *५ सर्वाधिपतिं पुरुषं पश्यति। तस्याज्ञाकरा *६ अनुचराः तस्याग्रे तिष्ठन्ति। (१) *७ केषाञ्चित्पुरुषाणां सोऽधिपतिस्तस्यानुचराश्च सौम्यरूपाः प्रतीयन्ते, (२) *८ केषाञ्चित्पुरुषाणां ते भयङ्कररूपाः प्रतीयन्ते, (३) तद्वनस्थितानां पुरुषाणां कर्मानुसारेण सोऽधिपतिः फलं यच्छति।

*४. इत आरभ्य यमलोकवर्णनम्।

*५. धर्मराजो यमः।

*६. यमदूताः।

*७. पुण्यवताम्।

*८. पापिष्ठानाम्।

इत्थमगृधदेवः स्वप्ने नानास्थानानि पश्यन् *९ क्वचित् (१) वेदपारायणपरान् ब्राह्मणानपश्यत्, (२) क्वचिद्यज्ञशालायां यायजूका उत्तमान् क्रतूननुतिष्ठन्ति, (३) क्वचिदुत्तमाः पुण्या नद्यः प्रवहन्ति। तत्र पुण्यकाङ्क्षिणो जनाः स्नान्ति, (४) क्वचिज्ज्ञानिन आचार्याः शिष्येभ्यो ब्रह्मविद्यामुपदिशन्ति, अधिगतब्रह्मविद्या विद्याबलात्तद्वनान्निष्क्रान्ता भवन्ति।

*९. इत आरभ्य भूलोकस्य तत्रापि भारतवर्षस्य वर्णनम्।

अनया रीत्यागृधदेवस्य स्वप्ने क्षणमात्रे नानाश्चर्यरूपान् पदार्थान् पश्यतः पुनरप्येवं प्रतीतिः समजायत। (१) अहमस्मिन् वने बहोः कालान्निवसामि (२) अस्य वनस्य कदाप्युच्छेदो न भवति, (३.१) कदाचित् *१ भगवतः चतुर्भ्यो मुखेभ्यो *२ निर्गतैर्नानाविधैर्बीजैर्वनमिदमुत्पन्नम्, (३.२) । *३ जलसेचनेन वनमिदं पाल्यते, (३.३) कदाचिद्भगवतो घोरहास्यकारिमुखादुद्गमिष्यताग्निना *४ वनम् इदं *५ दग्धं भविष्यति, (४) वनोत्पत्त्या सह ममाप्युत्पत्तिरभूत्। वनदाहे ममापि दाहो भविष्यति, (५) सर्वं वनं दग्ध्वा ईश्वरोऽवशिष्टो भविष्यति, (६) तस्येश्वरस्य शरीरे वनस्य बीजमवस्थितं भवेत्। एवं प्रतीतिः स्वप्ने एव तस्यागृधदेवस्य स्वाप्नवेदश्रवणात् समजायत।

*१. भगवान् = ब्रह्मविष्णुशिवरूपेण जगत उत्पत्तिपालनसंहारकर्तेश्वरः।

*२. बीजैः = जीवानां परिपक्वादृष्टैः।

*३. जलसेचनेन = कर्मानुसारेण सुखदुःखानुभवरूपभोगप्रदानेन।

*४. वनम् = जन्ममरणप्रवाहरूपः संसारः।

५. दग्धम् = प्रलयं गतम्।