ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३४३-३५१ गतप्रश्नस्योत्तरम्
- ३४४-३५१ अगृधदेवस्य स्वप्नः


आवर्तः ३४५ – अगृधदेवस्य स्वप्न एव गुरुणा समागमः

वारं वारमात्मनो जन्ममरणप्रवाहपातं श्रुत्वागृधदेव एवं विचारयति स्म (१) केनोपायेनाहमस्माद्वनान्निर्गच्छेयम्, (२) वनान्निर्गमनासिद्धावपि कथं मम *६ चण्डालभावो दूरीभवेत्। सदा *७ देवभावश्च सिद्ध्येत्। (३) वनान्निर्गन्तुं नान्य उपायोऽस्ति। ब्रह्मविद्योपदेष्टा आचार्य एव स्वशिष्यान् वनादस्मान्निस्तारयेदिति। एवं विचारयन्नेव सोऽगृधदेवः स्वप्न एव कञ्चन *८ आचार्यवर्यम् अलभत। विधिवदुपसन्नाय तस्मै शिष्यायाचार्यो देववाणीमयं मिथ्याभूतवेदान्तग्रन्थमुपदिदेश।

*६. चण्डालभावः = जीवभावः।

*७. देवभावः = ब्रह्मत्वम्।

*८. आचिनोति हि शास्त्रार्थमाचारे स्थापयत्यपि।
स्वयमाचरते यस्मात् तस्मादाचार्य उच्यते॥

आम्नायतत्त्वविज्ञानात् चराचरसमत्वतः।
यमादियोगसिद्धत्वादाचार्य इति कथ्यते॥ इति वायुपुराणे।२२८