ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३४३-३५१ गतप्रश्नस्योत्तरम्
- ३४४-३५१ अगृधदेवस्य स्वप्नः

- ३४४-३५१ मिथ्याचार्येण मिथ्याशिष्याय मिथ्यासंस्कृतग्रन्थेनोपदेशः
- ३४४-३५१ ग्रन्थारम्भ मङ्गलाचरणम्

आवर्तः ३४६ – मङ्गलाचरणस्य प्रयोजनं, मङ्गलाचरणप्रकारभेदाश्च

ग्रन्थारम्भेऽवश्यं मङ्गलमाचरितव्यम्। (१) मङ्गलाचरणेन ग्रन्थसमाप्तिप्रतिबन्धीभूतविघ्ना विनश्यन्ति। विघ्नो नाम पापमेव। पापेन प्रतिबद्धानि भूत्वा शुभकार्याणि न सिद्ध्यन्ति। तानि च पापानि मङ्गलाचरणेन नश्यन्ति। (२) पापरहितेनापि ग्रन्थादौ मङ्गलमाचरणीयमेव। तदकरणे ग्रन्थकर्तरि पुरुषाणां नास्तिकत्वभ्रान्त्या तदीयग्रन्थे प्रवृत्तिर्न स्यात्।

तच्च मङ्गलं त्रिविधम् – (१) वस्तुनिर्देशरूपम्, (२) आशीर्वादरूपम्, (३) नमस्काररूपं चेति। सगुणोऽथवा निर्गुणो यः परमात्मा स वस्तु इत्यभिधीयते; तस्य कीर्तनमेव वस्तुनिर्देशः। आत्मनोऽथवा शिष्यस्य यद्वाञ्छितं तस्य प्रार्थनमेवाशीर्वादरूपमङ्गलम्। स्वापकर्षबोधनानुकूलः नमःशब्दोच्चारणादिरूपो व्यापारो नमस्काररूपमङ्गलम्।