- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३४३-३५१ गतप्रश्नस्योत्तरम्
- ३४४-३५१ अगृधदेवस्य स्वप्नः
- ३४६-३५२ मिथ्याचार्येण मिथ्याशिष्याय मिथ्यासंस्कृतग्रन्थेनोपदेशः
- ३४६-३४८ ग्रन्थारम्भ मङ्गलाचरणम्
आवर्तः ३४७ – ग्रन्थारम्भे गणेशदेव्यादनुसन्धानमपि मङ्गलाचरणमेव
गणेशस्य देव्याश्चेश्वरत्वं पुराणेषु प्रसिद्धम्। तस्माद्गणेशादीनां चिन्ता नानीश्वरचिन्ता। पुराणे गणेशस्य यज्जन्मोक्तं तत् जीवानामिव न कर्मफलभूतं जन्म। रामकृष्णादिरिव गणेशोऽपि भक्तानुग्रहप्रयोजनकः परमात्मन आविर्भावविशेष एवेति भगवतो व्यासस्य परमाभिप्रायः।
अत्रेदं रहस्यम् –
परमार्थदृष्ट्या जीवोऽपि परमात्मनो न भिन्नः। किन्तु जननमरणादिरूपबन्धस्यात्मनि योऽध्यासः स एव जीवस्य जीवत्वम्। स च जन्मादिरूपो बन्धो गणेशादीनामात्मनि न प्रतीयते। तस्मात्ते न जीवाः। अनेन प्रकारेण गणेशादीनामीश्वरत्वं सिद्धम्। (“ जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः” (मु. ३.१.२, श्वे. ४.७)।
अस्य मन्त्रस्यायमर्थः अन्यम् = देहोपाधिकजीवाद्विलक्षणम्, ईशम् = असंसारिणम्, महिमानम् = सर्वस्य जगतो जगद्रूपां विभूतिम्, अस्येति = मम परमेश्वरस्यैवेति यदा पश्यति तदा वीतशोको भवति = सर्वस्माच्छोकसागराद्विमुच्यते कृतकृत्यो भवति (इति भाष्ये वर्णितोऽर्थः)। तस्माद्रन्थारम्भे गणेशादीनां चिन्तनमुपपद्यते। ईश्वरस्य नानारूपवर्णनं सर्वेषामीश्वरत्वद्योतनाय। गुरुभक्तिरीश्वरभक्तिश्च विद्याप्राप्तावन्तरङ्गसाधनमिति द्योतनाय च।