ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३४३-३५१ गतप्रश्नस्योत्तरम्
- ३४४-३५१ अगृधदेवस्य स्वप्नः
- ३४६-३५२ मिथ्याचार्येण मिथ्याशिष्याय मिथ्यासंस्कृतग्रन्थेनोपदेशः
- ३४६-३४८ ग्रन्थारम्भ मङ्गलाचरणम्


आवर्तः ३४८ – निर्गुणसगुणवस्तुनिर्देशरूपनमस्काररूपाशीर्वादरूपमङ्गलप्रदर्शनम्

तत्र निर्गुणवस्तुनिर्देशरूपमङ्गलं यथा —

परिपूर्णं चिदानन्दं बुद्धिसाक्षि यदद्वयम्।
सूर्यादिभासकं नित्यं तेजः शुद्धं तदस्म्यहम्॥

सगुणवस्तुनिर्देशरूपमङ्गलं यथा –

विघ्नाः समूलं नश्यन्ति यन्नामोच्चारणात्सकृत्।
*१ त्रिपुरघ्नोऽपि यं स्मृत्वा जघान त्रिपुरासुरान्॥

विना तु येन देवाश्च स्वेप्सितं नाप्नुवन्ति हि।
सर्वविघ्नविनाशाय चिद्गणेशं नमामि तम्॥

*१. मयदानवनिर्मितत्रिपुरभञ्जनप्रवृत्तो महादेवो यदा विजयं नालभत तदा स सर्वैर्देवैः सहितो विघ्नराजं गणेशमाराध्य विजयमवाप। महादेवस्य विजयेन देवा निर्भया अभवन्निति कथा पुराणेषु प्रसिद्धा।

नमस्काररूपमङ्गलं यथा –

असुराणां निहन्तारं त्रातारं सुरचेतसाम्।
रमाकान्तमुमाकान्तं नमाम्यनिशमद्वयम्॥

गुरोः स्ववाञ्छितप्रार्थनरूपमाशीर्वादमङ्गलम् –

यया शक्त्या देवदेवो जगत्सृष्ट्यादिकर्मकृत्।
सा मे तिष्ठतु वाक्पीठे ग्रन्थस्यास्य समाप्तये॥

शिष्यस्य स्ववाञ्छितप्रार्थनरूपमङ्गलम् –

संसारबन्धसंशान्त्या निजानन्दप्रकाशनात्।
निवर्तयतु जन्मादिदुःखं शिष्यस्य मे गुरुः॥