ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३४३-३५१ गतप्रश्नस्योत्तरम्
- ३४४-३५१ अगृधदेवस्य स्वप्नः
- ३४६-३५२ मिथ्याचार्येण मिथ्याशिष्याय मिथ्यासंस्कृतग्रन्थेनोपदेशः

- ३४६-३५२ वेदान्तशास्त्रप्रणेतुराचार्यस्य (श्रीवेदव्यासस्य) नमस्कारः

(आ ३४९-३५१) *२ वेदान्तशास्त्रप्रणेयुराचार्यस्य (श्रीवेदव्यासस्य) *३ नमस्कारः –

*२. वेदान्ता नामोपनिषदः। तासां तात्पर्यस्य निर्णायकत्वात् तदनुसारिब्रह्मसूत्ररूपोत्तरमीमांसाख्यशारीरकशास्त्रमपि वेदान्तशास्त्रमित्युच्यते। तत्कर्ता श्रीवेदव्यासः।

*३. स्वापकर्षस्य स्वाभीष्टदेवतागुर्वादेरुत्कर्षस्य च मनसा चिन्तनं वाचा कीर्तनम्, । तथोत्कृष्टदेवतागुर्वादीन् प्रति कायेन प्रणिपातादिकरणं च नमस्कारः। त्रिविधा एते नमस्काराः क्रमेणोत्तममध्यमकनिष्ठरूपा भवन्ति तत्र (१) मानसनमस्कारो बीजम् (२) वाचिकनमस्कारोऽङ्कुरः, (३) कायिकनमस्कारो वृक्षः। (४) तैर्गुर्वादीनां प्रसादरूपं फलमवाप्यते।

आ॰ ३४९ – दृष्टान्तो वने वायुकृतोऽनर्थः

(१) वायुः, (२) वने प्रसृतः कण्टकिवृक्षान् कम्पयित्वा, (३) वृक्षाणां कण्टकान् प्रसार्य, (४) रम्याणि, (५) कमलपुष्पाणि, (६) स्वस्थानादपच्छिद्य, (७) कण्टकेषु तानि पुष्पाण्यासज्य भ्रामयति। (८) तन्मार्गगामिनः पथिकस्य कण्टकलग्नानि कमलपुष्पाणि दृष्ट्वैवं चिन्तोदिता (९) सुन्दराण्येतानि कमलानि नैतत्स्थानयोग्यानि, (१०) किन्तूत्तमस्थानयोग्यानीति। (११) स पथिकस्तानि कमलानि हस्ते गृहीत्वा, (१२) पुनरपि विचारयामास पवनोऽयं यथा पुनरप्येनानि पुष्पाणि कण्टकेषु नासञ्जयेत्। (१३) तथा संविधानं कार्यमिति। एवं विचार्य सूत्रनिर्मितजालकेन कण्टकिवृक्षान् पृथक् चकार। तेन जालकेन पुष्पाणि कण्टकप्रवेशात्परिरक्षितानि।