- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३४३-३५१ गतप्रश्नस्योत्तरम्
- ३४४-३५१ अगृधदेवस्य स्वप्नः
- ३४६-३५२ मिथ्याचार्येण मिथ्याशिष्याय मिथ्यासंस्कृतग्रन्थेनोपदेशः
- ३४९-३५१ वेदान्तशास्त्रप्रणेतुराचार्यस्य (श्रीवेदव्यासस्य) नमस्कारः
आवर्तः ३५० – दार्ष्टान्तिकं शिष्यविषये भेदवादिकृतोऽनर्थः
यथायं दृष्टान्तस्तथा प्रकृते। (१) *१ भेदवाद्याचार्यरूपो वायुः, (२) वेदरूपे वने (३) *२ अर्थवादरूपकण्टकिवृक्षेषु कामकर्मरूपान् कण्टकान् प्रवर्त्य (४) कापट्यरागद्वेषादिदोषरहित (५) सुशुद्धशिष्यरूपकमलानि (६) शमदमादिरूपस्वस्थानात्प्रच्याव्य (७) कामकर्मरूपकण्टकेष्वासज्य भ्रामयति। एवं कामकर्मनिरतानुच्चावचसंसारदुःखभागिनो दृष्ट्वा (८) मार्गगपान्थवत् सर्वव्यापी महाविष्णुरेव (९) मनोहारिकमलवत् शुद्धान्तःकरणा एते पुरुषा न सकण्टकस्थानार्हाः। (१०) किन्तु मत्स्वरूपप्राप्तियोग्या एवैति इति निश्चित्य श्रीवेदव्यासरूपेणावतीर्य
*१. अत्र भेदवादिन आचार्यत्वोक्तिर्देवदत्ते सिंहत्वोक्तिरिवौपचारिकी।
*२. विध्यर्थस्य स्तावकत्वेन निन्दकत्वेन च द्विविधोऽर्थवादः। अपि च विरोधे गुणवादः स्यादनुवादोऽवधारिते। भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः॥ इति किञ्च गुडजिह्विकान्यायेन कर्मफलस्तुतिद्वारा निष्कामकर्मप्रवर्तकः परकृतिपुराकल्परूपश्च।
(११) तान् शिष्यानात्मतत्त्वोपदेशरूपे स्वोत्सङ्गे स्थापयामास। यथा प्रचण्डोऽपि वायुः कस्यचिदुत्सङ्गस्थानि पुष्पाण्युद्धर्तुं न प्रभवति। तथा ब्रह्मनिष्ठाचार्योपदेशाधीनं पुरुषं भेदवादी सुनिपुणतर्कैरपि भ्रामयितुं न शक्नोति। “नैषा तर्केण मतिरापनेया” (क. १.२.९) इत्यादिश्रुतेः। तस्माद्ब्रह्मनिष्ठाचार्योपदेश एवात्रोत्सङ्गः। (१२) पुनरपि वेदव्यासरूपी भगवान् चिन्तयामास। (१३) पुनरप्ययं भेदवादी अन्यानपि कामकर्मरूपकण्टकमार्गे प्रवृत्त्य भ्रामयेदिति अतोऽन्येषामपि स्वशिष्याणां भ्रमनिवृत्तये न्यायविचारात्मकसूत्ररूपजालेन वेदान्तवाक्यरूपवृक्षान् कण्टकिद्रुमेभ्यो व्यभजत्।
वने सन्ति द्विविधा वृक्षाः (१) सकण्टका वृक्षाः। (२) निष्कण्टकाः पुष्पफलशालिनो वृक्षाश्चेति। निष्कण्टका वृक्षा यदि जालेन कण्टकिवृक्षेभ्यो विभक्ता भवन्ति तदा तत्पुष्पाणि कण्टकेषु न पतेयुः। एवं वेदेऽपि सन्ति द्विविधानि वाक्यानि। तत्र *१ कानिचिद्वाक्यानि फलैः कर्मस्तुतिद्वारा बहिर्मुखं पुरुषं कर्मणि प्रवर्तयन्ति। *२ अन्यानि वाक्यानि कर्मफलानामनित्यत्वादिदोषनिरूपणद्वारा कर्मणः सकाशात् पुरुषं निवर्तयन्ति।
*१. “अपाम सोमममृता अभूम” इत्यादीनि।
*२. “तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते” (छा. ८.१.६) इत्यादीनि।