- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३४३-३५१ गतप्रश्नस्योत्तरम्
- ३४४-३५१ अगृधदेवस्य स्वप्नः
- ३४६-३५२ मिथ्याचार्येण मिथ्याशिष्याय मिथ्यासंस्कृतग्रन्थेनोपदेशः
- ३४९-३५१ वेदान्तशास्त्रप्रणेतुराचार्यस्य (श्रीवेदव्यासस्य) नमस्कारः
आवर्तः ३५१ – व्याससूत्रमेवानर्थनिवृत्त्युपायः
वेदव्यासो वेदवाक्यानि विभज्य स्वकीयब्रह्मसूत्रेण वेदगतानां सकलवाक्यानां निवृत्तावेव तात्पर्यं न तु प्रवृत्तौ कस्यचिदपि वाक्यस्येति बोधयामास। वस्तुतस्तु प्रवृत्तिबोधकवाक्यानामपि स्वाभाविकप्रवृत्तेर्निषिद्धकर्मप्रवृत्तेश्च पुरुषं निवर्त्य विहितकर्मसु पुरुषस्य प्रवृत्तिमुत्पाद्य विहितकर्मानुष्ठानेन शुद्धान्तःकरणस्य पुरुषस्य सर्वकर्मफलेभ्यो वैराग्यपूर्वकं ज्ञाननिष्ठासम्पादने एव तात्पर्यमिति निवृत्तावेव सर्ववेदवाक्यानां तात्पर्यम्। अर्थवादवाक्यानां कर्मफलबोधकत्वमपि *३ गुडजिह्विकान्यायेनैव। न तु तेषां वाक्यानां फले तात्पर्यम्। अमुमर्थं श्रीवेदव्यास एव स्वसूत्रैर्बोधयति। एवं व्याससूत्रात् ज्ञात्वा पुरुषः कामकर्मभ्यो निवर्तते। यथा सूत्रनिर्मितं जालं कण्टकेभ्यः पुष्पाणि निवारयति। तथा व्याससूत्रमिदम् (ब्रह्ममीमांसासूत्रम्) कामकर्मानुष्ठानात्पुरुषं निवारयतीति जालत्वेन रूपितम्।
चकार सूत्रं यो व्यासो नैष्कर्म्यार्थविबोधकम्।
तमहं दासभूतः सन् प्रणमामि मुहुर्मुहुः॥
*३. शिशों रोगनिवृत्तिकामा माता स्वकीयगुडलिप्ताङ्गुलिं शिशोर्जिह्वायामासज्य कटुकौषधे मधुरत्वबुद्धिं शिशोरुत्पाद्य तं शिशुं कटुकौषधं पाययति। शास्त्रेष्वयमेव गुडजिह्विकान्याय इत्युच्यते। एवमेव श्रुतिरूपमातापि श्रुत्युक्तकर्मफलस्तावकवचनरूपार्थवादवाक्यरूपगुडलिप्ताङ्गुलिं पामरजीवरूपशिशूनास्वादयित्वा स्वर्गादिप्राप्तिरूपकर्मफलं बोधयित्वा पुरुषान् कर्मणि प्रवर्तयति। परन्तु लोके यथा मातुः शिशो रोगनिवृत्तावेव तात्पर्यम्, न तु शिशोर्गुडलिप्तस्वाङ्गुल्यास्वादनसम्पादने। तथा वेदरूपमातुरपि पामरजनानां कर्मभिः पापनिवृत्तिद्वारा चित्तशुद्धिसम्पादन एव तात्पर्यम्, न तु स्वर्गादिफले।