ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३४६-३५२ मिथ्याचार्येण मिथ्याशिष्याय मिथ्यासंस्कृतग्रन्थेनोपदेशः


आवर्तः ३५२ – अगृधदेवस्य त्रयः प्रश्नाः

(१) अहं कः, (२) संसारस्य कर्ता कः, (३) मुक्तेः कारणं किं ज्ञानमुत कर्माथवोपासनमथवा कर्मोपासने उभे अपि इति।

तत्र (१) हे भगवन्, ‘अहं कः’ इति प्रश्नस्यायमभिप्रायः (१) किमहं देहस्वरूपः, (२) अथवा देहाद्भिन्नः। ‘अहं मनुष्यः’ इति मम देहः’ इति च द्विविधप्रतीतिसंभवान्मे संशयो जातः। यदि भवान् मां देहाद्भिन्नं ब्रवीति तर्हि (३) अहं किं कर्तृभोक्तृस्वरूपः, (४) उताक्रियः। यदि मां भवानक्रियं कथयति, तर्हि (५) अहं किं सर्वशरीरेष्वेकः, उतानेक इति।

(२) ‘अस्य संसारस्य कर्ता कः’ इति द्वितीयप्रश्नस्यायमाशयः (१) अस्य संसारस्य कर्ता कश्चनास्ति वा, (२) अथवायं संसारः स्वयमेवोत्पन्नः। यदि कश्चन कर्तास्ति तर्हि (३) स कर्ता किं जीवः, (४) उतेश्वरः। यदीश्वरः कर्ता तदा (५) स ईश्वरः किमेकदेशे स्थितः परिच्छिन्नः, (६) उत स ईश्वरो व्यापकः। यदीश्वरो व्यापकस्तर्हि यथा (७) व्यापकादाकाशाज्जीवो भिन्नस्तथेश्वरादपि जीवो भिन्नः, (८) अथवेश्वराज्जीवोऽभिन्नः।

(३) ‘मुक्तेः कारणं किम्’ इति तृतीयप्रश्नस्यायमभिप्रायः (१) मुक्तेः कारणं किं ज्ञानम्, (२) उत कर्म, (३) उतोपासनम्, (४) उतोभयम्। उभयमिति पक्षे, (५) किं ज्ञानकर्मणी, (६) उत ज्ञानोपसने, (७) उत कर्मोपासने।