ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्

- ३४३-४६३ अहं कः? इति प्रश्नस्योत्तरम्

आवर्तः ३५३ – आत्मा सङ्घातस्य *१साक्षी

*१. आत्मनो देहेन्द्रियप्राणमनोबुद्ध्यादिविलक्षणत्वं पूर्वमेव निरूपितम्।

शिष्यकृतप्रथमप्रश्नस्य गुरुरेवमुत्तरमाह – ‘त्वं सच्चिदानन्दस्वरूपोऽसि’ इति। अनेन *१ ‘देहाद्भिन्नस्त्वम्’ इत्युक्तं भवति। देहो सद्रूपो जडरूपो दुःखरूपश्चास्ति। आत्मा तु तद्विलक्षणः सच्चिदानन्दरूपः।

*१. तथा चोक्तं भगवत्पादैः –

नाहं देहो नेन्द्रियाण्यन्तरङ्गो
नाहङ्कारः प्राणवर्गो न बुद्धिः।
दारापत्यक्षेत्रवित्तादिदूरः
साक्षी नित्यः प्रत्यगात्मा शिवोऽहम्॥ अद्वैतपञ्चके १॥ इति।

देहेन्द्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम्।
तद्वृत्तिसाक्षिणं विद्यादात्मानं राजवत्सदा॥

नाहं प्राणो नैव शरीरं न मनोऽहं
नाहं बुद्धिर्न हि महदहङ्कारधियौ च।
योऽत्र ज्ञांशः सोऽस्म्यहमेवेति विदुर्यं
तं संसारध्वान्तविनाशं हरिमीडे॥ हरिमीडस्तोत्रे ३६॥

त्वं कर्ता भोक्ता च न भवसि। (१) यस्य दुःखमस्ति स दुःखनिवृत्तये सुखप्राप्तये च कर्म करोति, अतः स कर्ता इत्युच्यते। (२) त्वयि दुःखाभावात् दुःखनिवृत्तये न त्वं कर्मकर्ता भवसि। (३) त्वमानन्दस्वरूपोऽसि, अतः सुखप्राप्तये च त्वं न कर्मकर्ता भवसि। (४) यः कर्ता भवति स एव भोक्तापि भवति। त्वं न कर्ता अतो भोक्तापि त्वं न भवसि। धर्माधर्मजनकशुभाशुभकर्मकर्ता तत्फलसुखदुःखभोक्ता स्थूलसूक्ष्मसङ्घातो न त्वम्। त्वं तु सङ्घातस्य साक्षी।