ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्


आवर्तः ३५४ – आत्मा व्यापकः एकशच

अत एवात्मा एक एव। न नाना। यद्यात्मा कर्ता भोक्ता च भवेत् तदा नाना भवेत्। तथा हि एकः सुखी आस्ते। अपरश्च दुःखी। कर्तृत्वभोक्तृत्वादिधर्मविशिष्ट एक एवेत्यङ्गीकारे एकस्य सुखे सर्वेषां सुखम् एकस्य दुःखे सर्वेषां च दुःखं प्रसज्येत। न तु तथास्त्यनुभवः। तस्माद्भोक्ता नानेत्येवाङ्गीकार्यम्। आत्मा त्वभोक्ता। अत एव एक एवात्मा। एक एवात्मा सर्वशरीरेषु व्यापकः।