- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
आवर्तः ३५५ – साङ्ख्यमतनिरूपणं, तन्निराकरणं च
साङ्ख्या हि आत्मा अकर्ता भोक्ता च इत्यङ्गीकुर्वन्तोऽप्यात्मनो नानात्वमभ्युपगच्छन्ति। तच्चात्यन्तविरुद्धम्।
तथा हि, साङ्ख्यानां सिद्धान्तस्त्वेवम् (१) सत्त्वरजस्तमोगुणानां साम्यावस्था प्रधानमिति कथ्यते। तच्च प्रधानं प्रकृतिरेव भवति। न विकृतिः। विकृतिर्नाम कार्यम्, प्रकृतिर्नामोपादानकारणम्। तदिदं प्रधानं *१ महत्तत्त्वस्य उपादानकारणत्वात् प्रकृतिर्भवति। इदं च प्रधानमनादित्वाद्विकृतिर्न भवति।
*१. मायायाः सकाशात् महत्तत्त्वमजायत। महत्तत्त्वाच्च सत्त्वरजस्तमोगुणभेदविशिष्टाहङ्कारतत्त्वमजायत। तस्माच्च पञ्चतन्मात्रा अजायन्त।
(२-८) महत्तत्त्वम्, अहङ्कारः, पञ्चतन्मात्राश्चेति सप्त प्रकृतिविकृतयो भवन्ति। तत्र पूर्वपूर्वमुत्तरोत्तरस्य प्रकृतिः, उत्तरोत्तरं पूर्वपूर्वस्य विकृतिः। पञ्चतन्मात्राः पञ्चभूतानां प्रकृतयः। इत्थं सप्तैतानि तत्त्वानि प्रकृतिविकृतयो भवन्ति। (९-२४) पञ्चभूतानि दशेन्द्रियाणि मनश्चेति षोडश तत्त्वानि विकृतय एव न प्रकृतयः। (२५) पुरुषो न प्रकृतिर्नापि विकृतिः। यद्वस्तु यदा वस्त्वन्तरस्य कारणं भवति तदा तद्वस्तु प्रकृतिर्भवति, यदा कार्यं भवति तदा तद्वस्तु विकृतिर्भवति। पुरुषस्तु न कस्यचिदपि कारणं भवति। तस्मान्न प्रकृतिः; न कस्यचिदपि कार्यं भवति। तस्मान्न विकृतिः। अतोऽसङ्गः पुरुषः। इत्थं साङ्ख्यमते पञ्चविंशतितत्त्वानि भवन्ति। (१) तत्त्वमिति पदार्थस्य नाम। (२) साङ्ख्यमते *२ ईश्वरो नाङ्गीक्रियते। (३) स्वतन्त्रा प्रकृतिरेव जगतः कारणं भवति। (४) पुरुषस्य भोगमोक्षनिमित्तं प्रकृतिरेव प्रवर्तते। पुरुषो न प्रवर्तते। (५) प्रकृतेर्विषयरूपपरिणामात्पुरुषस्य भोगो भवति। (६) बुद्धिद्वारा विवेकरूपप्रकृतिपरिणामान्मोक्षः सिद्ध्यति। (७) यद्यपि पुरुषस्यासङ्गत्वात्तस्मिन् भोगमोक्षौ न संभवतः। तथापि ज्ञानसुखदुःखरागद्वेषादयो बुद्धेः परिणामा भवन्ति। तस्या बुद्धेरात्मना सहाविवेकोऽस्ति, विवेकस्तु नास्ति। तस्मादात्मन्यारोपितौ बन्धमोक्षौ संभवतः। (८) अविवेकसिद्धो य आत्मनि भोगस्तेनैव साङ्ख्यमते आत्मा भोक्तेति कथ्यते। (९) परमार्थत आत्मा न भोक्ता। बुद्धिरेव भोकी। (१०) बुद्धिस्त्वात्मनो भिन्ना। (११) ईदृशज्ञानस्यैव विवेक इति संज्ञा। (१२) ईदृशज्ञानाभाव एवाविवेक इत्युच्यते। इत्थं च (१३) साङ्ख्यमते आत्मा असङ्गोऽस्ति। (१४) सुखादयो बुद्धेः परिणामत्वात् बुद्धेरेव धर्माः। (१५) आत्मा नाना च।
*२. सेश्वरसाङ्ख्यनिरीश्वरसाङ्ख्यभेदात् साङ्ख्यमतं द्विविधम्। (१) कर्दमदेवहूत्योः पुत्रो भगवदवतारः कपिलः सेश्वरसाङ्ख्यमतम् अङ्गीकरोति। (२) अन्योऽपि कपिलोऽभूत्। स निरीश्वरसाङ्ख्यमतमङ्गीकृतवान्। तस्य मते ईश्वरो नाङ्गीक्रियते। किन्तु प्रधानमेव जगतः कारणमिति, पुरुषस्य भोगमोक्षकारणमिति चाङ्गीक्रियते।
तदेतन्न सङ्गच्छते – प्रलयकाले सत्त्वादिगुणानां साम्यावस्था प्रधानमिति, सृष्टिकाले यदा तत्प्रधानं साम्यावस्थां त्यजति तदा जगदुत्पद्यते इति च ते कथयन्ति। तन्न युक्तम्। प्रधानस्य जडत्वात् स्वत एव तत्साम्यावस्थापरित्यागसमर्थं न भवति। चेतनस्य पुरुषस्य तन्मतेऽसङ्गत्वान्न तस्य प्रधानेन संबन्धो भवति। चेतनसंबन्धं विना जडं न किञ्चिदपि कार्यमुत्पादयितुं शक्नोति। तस्मात् ‘प्रधानरूपमायाविशिष्टं चैतन्यमन्तर्यामीश्वरो भवति। स एव जगतः कर्ता इत्येव साङ्ख्येनाप्यभ्युपगन्तुमुचितम्।
किञ्चात्मनो नानात्वस्य प्रकृतेर्नित्यत्वस्य चाङ्गीकारं कुर्वतः, आत्मनि सजातीयात्मान्तरसंबन्धस्य विजातीयप्रकृतिसंबन्धस्य चापरिहार्यत्वात् नानात्मनामसङ्गत्वोक्तिर्व्याहता भवेत्। व्यापकस्यैकस्यात्मनोऽङ्गीकारे नानान्तःकरणरूपोपाधिप्रयुक्तभोगाद्यसाङ्कर्यव्यवस्था सिद्ध्यति। तस्मादात्मनानात्वोपगमे विफलः। आत्मनानात्वाभ्युपगमेऽद्वैतश्रुतिविरोधश्च। आत्मभेदबाधकयुक्तयश्चोत्तरत्र प्रदर्शयिष्यन्ते। तस्मादसङ्गतं साङ्ख्यमतम्।
अत्रैवं सिद्धान्तः – तदेतत्साङ्ख्यमतमत्यन्तविरुद्धम्। सुखदुःखादीनामात्मधर्मत्वे तेषां प्रतिशरीरं भेदादात्मनो भेदः सिद्ध्येत्। तच्च सुखदुःखादिकं नात्मनो धर्मः, किन्तु बुद्धेरेव धर्मः। तस्मात् सुखदुःखादिभेदाद्बुद्धिभेद एव सिद्ध्येत्। न त्वात्मनो भेदः सिद्ध्येत्।
यथैकस्मिन् व्यापके आकाशे नानोपाधीनां धर्मा उपाध्याकाशयोरविवेकात्प्रतीयन्ते। तथैवैकस्मिन् व्यापके आत्मनि नानाबुद्धीनां धर्मा बुद्ध्यात्मनोरविवेकात्प्रतीयन्त इत्यभ्युपगम एव साङ्ख्यमतेऽप्युचितः। आत्मानमसङ्गत्वेनाभ्युपगम्य तस्य नानात्वाङ्गीकारो निष्फल एव।
किञ्च केचनात्मनो मुक्ताः केचन बद्धाश्च भवन्ति। इत्थं बन्धमोक्षयोर्भेदादात्मभेदः सिद्ध्यतीत्यप्यसङ्गतमेव। यदि बन्धमोक्षावात्मन्यङ्गीक्रियेते तदा बन्धमोक्षभेदादात्मनो भेदः सिद्ध्येत्। तौ च बन्धमोक्षौ सायमतेऽसङ्गे आत्मनि नाङ्गीक्रियेते। किन्तु बुद्ध्यविवेकाद्बन्धः, बुद्धिविवेकाद्वन्धान्मोक्षश्चाङ्गीक्रियेते तन्मते। यद्वस्तु अविवेकादुत्पद्यते विवेकाच्च नश्यति तद्वस्तु रज्जुसर्पवन्मिथ्या। आत्मनि बुद्ध्यविवेकाद्बन्धो भवति। विवेकाच्च सबन्धो निवर्तते। अतश्चात्मनि बन्धो मिथ्या। यथा बन्धो मिथ्या तथा आत्मनि मोक्षोऽपि मिथ्यैव। यत्र बन्धः सत्यस्तत्र मोक्षोऽपि सत्यो भवेत्। आत्मनि बन्धस्य मिथ्यात्वान्मोक्षोऽपि मिथ्यैव।
इत्थं मिथ्याबन्धमोक्षौ आकाशवदेकस्मिन्नात्मनि युज्येते। तस्मात् बन्धमोक्षभेदादात्मभेदो न सिद्ध्यति। तस्मात् साङ्ख्याभिमतात्मभेदो *१ न युक्तः।
*१. अत्रेमा भेदबाधकयुक्तयः – एकस्यात्मनो भेदोऽन्यस्मिन्नात्मनि विद्यत इति वदन् वादी प्रष्टव्यः – (१) स भेदः किं भेदरहित आत्मनि वर्तते, (२) उत भेदसहित आत्मनि इति। (१) प्रथमपक्षे व्याघातदोषो भवति। अन्यप्रतियोगिकभेदाश्रयमात्मानं भेदरहितं ब्रवीषि। पश्चात्तत्रात्मनि भेदं च साधयसि। तदिदं ते वचनं ‘मम पिता बाल्यादारभ्य ब्रह्मचारी’ इति वचनमिव व्याघातदोषस्कन्दितम्। (२) भेदसहिते आत्मनि भेदो विद्यते इति द्वितीयपक्षे आत्मा येन भेदेन सहितोऽस्ति स भेदः साध्यमानोऽयं भेदश्च किं परस्परमभिन्नौ, उत भिन्नौ। (२.१) तत्राद्यपक्षे स्वसहिते आत्मनि स्वस्य विद्यमानतेत्यात्माश्रयदोषः। येन भेदेन सहित आत्मास्ति स आत्मनो विशेषणरूपो भेदः। (२.२) साध्यमानस्तु भेदस्ततोऽन्य इति परस्परं भिन्नाविति चेत् (२.२.१) तदा आत्मनो विशेषणरूपभेदस्य भेदरहिते आत्मन्यसंभवात् भेदसहिते आत्मन्येव तस्यावस्थितिर्वक्तव्या। तस्मादात्मनि प्रथमभेदस्य स्थित्यर्थं द्वितीयभेदो विशेषणत्वेन वक्तव्यः। ततो द्वितीयभेदस्य स्थित्यर्थं प्रथमभेदो विशेषणत्वेन वक्तव्यः। तथा च परस्परस्य स्थित्यर्थं परस्परस्यापेक्षास्तीत्यन्योन्याश्रयदोषः। (२.२.२) आत्मनि द्वितीयभेदस्थित्यर्थं तदाश्रयस्यात्मनो भेदसहितत्वसम्पादनाय तद्विशेषणत्वेन तृतीयभेदाङ्गीकारे, तस्य तृतीयभेदस्य स्थित्यर्थं पूर्ववदेवात्मनो भेदसहितत्वं सम्पादनीयम्। तत्र तृतीयभेदस्थित्यर्थं तदाश्रयस्यात्मनः प्रथमभेदो विशेषणमिति कथने तदा प्रथमभेदस्थित्यर्थं द्वितीयभेदः, द्वितीयभेदस्थित्यर्थं तृतीयभेदः पुनश्च तृतीयभेदस्थित्यर्थं प्रथमभेदोऽपेक्ष्यत इति चक्रवद्भ्रमणाच्चक्रकदोषापत्तिः। (२.२.३) यदि तृतीयभेदस्थित्यर्थं भेदाश्रयमात्मानं भेदसहितं कर्तुं तस्य विशेषणरूपश्चतुर्थो भेदोऽङ्गीक्रियते, ततश्चतुर्थभेदस्थित्यर्थं पञ्चमभेदोऽप्यङ्गीक्रियते तदा प्रमाणरहितभेदधारारूपानवस्थादोषप्रसङ्गः। तस्मादात्मनः परस्परभेदोऽसङ्गतः। एताश्च भेदबाधकयुक्तयो नैयायिकादिसकलभेदवादिसम्मतात्मभेदखण्डनेऽपि योज्याः।