ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्

- ३५३-३८२ त्रिविधनैयायिकमतवर्णनं, तन्निराकरणं च
- ३५३-३८२ आत्मा व्यापक इति मतवर्णनं तत्खण्डनं च
- ३५३-३८२ आत्मनो व्यापकत्वोपपादनम्

आवर्तः ३५६ – जीवस्यानेकत्वव्यापकत्वनित्यत्वज्ञानगुणकत्वादिवर्णनम्

साङ्ख्यानामिव नैयायिकानामप्यात्मभेदोऽसङ्गत एव। एष च नैयायिकसिद्धान्तः –

(१) सुखम्, दुःखम्, ज्ञानम्, इच्छा, द्वेषः, प्रयत्नः, धर्मः, अधर्मः, ज्ञानजन्यसंस्कारः, सङ्ख्या, परिमाणम्, पृथक्त्वम्, संयोगः, विभागः, इति चतुर्दश गुणा जीवरूपात्मनिष्ठाः।

(२) सङ्ख्या, परिमाणम्, पृथक्त्वम्, संयोगः, विभागः, ज्ञानम्, इच्छा, प्रयत्नः, इत्यष्टौ गुणा ईश्वरनिष्ठाः।

(३) तत्रैतावान् भेदोऽस्ति –

ईश्वरस्य ज्ञानेच्छाप्रयत्ना नित्याः। जीवस्य ज्ञानादित्रयम् अनित्यम्। ईश्वर एको व्यापको नित्यश्च। जीवस्तु नाना, सर्वत्र व्यापको नित्यश्च। जीवस्य ज्ञानमनित्यम्। तस्माद्यदा ज्ञानरूपगुणोऽस्ति तदा चेतनः। यदा ज्ञानगुणो नष्टस्तदा जडः पाषाणतुल्यो भवति।

(४) जीवेश्वराविव आकाशकालदिङ्मनांस्यपि नित्यानि।

(५) पृथिवीजलतेजोवायूनां परमाणवो नित्याः। गवाक्षजालकनिर्गतेषु सूर्यकिरणेषूपलभ्यमानसूक्ष्मरजसः षष्ठो भागः परमाणुरिति कीर्त्यते। स परमाणुरात्मवन्नित्यः।

(६) जात्यादयोऽन्येऽपि केचन पदार्था न्यायमते नित्याः सन्ति। वेदविरुद्धसिद्धान्तानां बहूनां लेखने जिज्ञासूनां प्रयोजनं नास्तीति नात्र ते लिख्यन्ते।

(७) ‘अहं मनुष्यो ब्राह्मणः’ इति देहे आत्मभ्रान्तिर्भवति। ततो रागद्वेषौ भवतः। ताभ्यां धर्माधर्मनिमित्ते कर्मणि प्रवृत्तिर्भवति। ततः शरीरसंबन्धद्वारा सुखदुःखादयो भवन्ति। इत्थं न्यायमते आत्मनः संसारं प्रति भ्रान्तिज्ञानमेव कारणम्।

(८) तच्च भ्रान्तिज्ञानं तत्त्वज्ञानान्निवर्तते।

(९) देहादिसकलपदार्थेभ्य आत्मा भिन्न *१ इति निश्चय एव तत्त्वज्ञानम्। (१) तेन तत्त्वज्ञानेन ‘अहं मनुष्यो ब्राह्मणः’ इति भ्रान्तिर्निवर्तते। (२) भ्रान्तिनाशे रागद्वेषौ नश्यतः। (३) रागद्वेषयोरभावे धर्माधर्मार्थकर्मणि प्रवृत्तिर्न भवति। (४) प्रवृत्त्यभावे शरीरसंबन्धरूपजन्माभावः सिद्ध्यति। प्रारब्धं तु भोगेन नश्यति। (५) शरीरसंबन्धाभावे एकविंशतिदुःखानां ध्वंसो भवति।

*१. अत्रायं विशेषः – नैयायिकमते तत्त्वज्ञानस्य हेतुर्मननम्। ‘आत्मा इतरपदार्थेभ्यो भिन्नः। आत्मत्वात्। य इतरपदार्थेभ्यो भिन्न न भवति। किन्त्वितरपदार्थरूप एव भवति स नात्मा। यथा घटः’ इति व्यतिरेक्यनुमानेनात्मनि इतरपदार्थभेदानुमितिज्ञानं भवति। इदमेव ज्ञानं मननम् इति कथ्यते। इतरपदार्थज्ञानमन्तरा आत्मनीतर। पदार्थभेदज्ञानं न संभवेत्। यस्य भेदोऽन्यत्र भवति स भेदप्रतियोगीत्युच्यते। तादृशप्रतियोगिज्ञानं विना भेदज्ञानं न संभवति। तस्मादात्मनि इतरपदार्थभेदानुमितिरूपमननं प्रत्युपयोगित्वादितरपदार्थनिरूपणमपि तत्त्वज्ञानोपयोगीति तेषां मतम्।

तदेतन्न संभवति श्रुतस्यार्थस्य निश्चयं प्रत्यनुकूलाः प्रमेयगतसन्देहनिवर्तिकाश्च या युक्तयस्तासां चिन्तनमेव मननम् इत्युच्यते। भेदज्ञानेन त्वनर्थ एव भवति। “सर्वं खल्विदं ब्रह्म” (छा. ३-१४- १) इत्यादिश्रुतिवाक्यैरभेदे एव सर्ववेदानां तात्पर्यं सिद्धम् “द्वितीयाद्वै भयं भवति” (बृ. १.४.२) “मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति” (क. २.१.१०) इत्यादिभिर्भेदज्ञानस्य निन्दा च क्रियते। तस्माद्भेदज्ञानस्य साक्षाद्वा तत्त्वज्ञानद्वारा वा पुरुषार्थहेतुत्वं नास्त्येव।

किञ्च मननशब्दात् आत्मन इतरपदार्थेभ्यो भेदप्रतीतिरूपोऽर्थो न स्वरसतो भवति। किन्तु मननपदस्य चिन्तनमित्यर्थ एव स्वारसिकोऽर्थः। वाक्यान्तरानुसारेण तु मननशब्दस्य अभेदचिन्तने पर्यवसानं भवति। केनापि प्रकारेण मननशब्दस्य ‘आत्मन इतरेभ्यो भेदचिन्तनम्’ इत्यर्थो न सिद्ध्यति।

अथवा – यदीतरपदार्थज्ञानेनैव पुरुषार्थ (मोक्ष)साधनीभुततत्त्वज्ञानं प्राप्यत इत्युच्यते। तर्हि सकलपुरुषाणां तत्त्वज्ञानप्राप्तिरयत्नतः सिद्ध्येत्। अथवा न कस्यापि सिद्ध्येत्। तथा हि (१) यदीतरपदार्थानां सामान्यज्ञानं तत्त्व (आत्म) ज्ञाने अपेक्ष्यते। तदा सर्व। पुरुषाणामितरपदार्थविषयकसामान्यज्ञानस्य सत्त्वात् इतरपदार्थज्ञानपूर्वकेतरपदार्थभेदज्ञानेन सर्वेषां तत्त्वज्ञानं भवितुमर्हति। (२) यदि सर्वपदार्थानामसाधारणधर्मपुरस्कारेणेतरपदार्थानां ज्ञानं तत्त्वज्ञानेऽपेक्ष्यते तदा सर्वज्ञेश्वरं विना न कस्यापि असाधारणधर्मपुरस्का सकलेतरपदार्थज्ञानं संभवेत्। तस्मात् सकलेतरपदार्थज्ञानपूर्वकं आत्मनीतरपदार्थभेदज्ञानस्याभावात् सकलानात्मपदार्थभिन्नात्मज्ञानरूपतत्त्वज्ञानं न कस्यापि भवेत्।

तस्मान्नैयायिकाभिमतस्यात्मनः स्वसजातीयान्यात्मभ्यो विजातीयानात्मपदार्थेभ्यश्च भेदज्ञानं न संभवेत्। तस्मान्नैयायिकमतानुसारिणां तत्त्वज्ञानासंभवात् देहादिष्वात्मभ्रान्तेरभावो न सिद्ध्येत्। भ्रान्तिनाशाभावाद्रागद्वेषयोर्निवृत्तिर्न स्यात्। रागद्वेषानिवृत्त्या धर्माधर्मनिमित्तप्रवृत्तेरभावश्च न सिद्ध्येत्। प्रवृत्त्यभावासिद्धौ शरीरसंबन्धरूपजन्माभावश्च न सिज्येत्। जन्माभावासिद्धावेकविंशतिदुःखध्वंसरूपमोक्षोऽपि न सिज्येत्। किन्तु महावाक्यरूपश्रुत्यर्थभूताभेदज्ञानमेव कारणसहितसकलानर्थनिवृत्तिपूर्वकपरमानन्दप्राप्तिरूपमोक्षहेतुः।

(१०) न्यायमते तादृशदुःखध्वंस एव मोक्षः।

शरीरम्, श्रोत्रत्वङ्गेत्रजिह्वाघ्राणमनांसीति षडिन्द्रियाणि, षण्णामिन्द्रियाणां विषयाः, षडिन्द्रियजन्यज्ञानानि सुखदुखे इति तन्मते एकविंशतिदुःखानि। शरीरादिकं दुःखजनकत्वात् दुःखम् इति कथ्यते। स्वर्गादिसुखमपि नाशभयाद्दुःखकारणम्। तस्माद्दुःखमित्युच्यते।

यद्यपि न्यायमते *१ श्रोत्रमनसोर्नित्यत्वात्तयोर्नाशो न संभवति। तथापि येन रूपेण श्रोत्रमनसोर्दुःखहेतुत्वं तद्रूपं नश्यति। पदार्थज्ञानोत्पादकत्वात् श्रोत्रमनसी दुःखहेतू भवतः। मोक्षकाले श्रोत्रमनसी पदार्थज्ञानं न जनयतः। कर्णगोलकेनावच्छिन्न आकाशः श्रोत्रम् इत्यभिधीयते। तच्च कर्णगोलकं मोक्षकाले नास्ति। तस्मादाकाशरूप श्रोत्रेन्द्रियसत्त्वेऽपि गोलकाभावाज्ज्ञानं न भवति। अनया रीत्या ज्ञानजनकं यच्छ्रोत्रेन्द्रियस्य स्वरूपं तदेव दुःखम्, तस्यैव नाशः।

*१. न्यायमते श्रोत्रस्याकाशरूपतामभ्युपगम्य नित्यत्वमुच्यते। तन्न युज्यते। (१) श्रुतौ नेत्रादीनामिव आकाशाच्छ्रोत्रस्याप्युत्पत्तिः कथिता। उत्पत्तिमतो वस्तुनो नित्यत्वं न संभवति।

(२) श्रोत्रस्याकाशरूपतोक्तिरपि न संभवति। नैयायिकाः कर्णगोलकस्थमाकाशं श्रोत्रमाहुः। तदयुक्तम्। कर्णगोलकस्थे आकाशे सत्येव कदाचिच्छ्रवणक्रियाया मान्द्यमथवा तस्याः क्रियाया अभावो वा सम्पद्यते। न तथा भवितुमर्हति। तस्मात्पञ्चीकृतभूतरूपो यः कर्णगोलकवृत्त्याकाशस्तदन्यो योऽपञ्चीकृतभूतरूपाकाशः तस्य सत्त्वगुणांशकार्यं श्रोत्रेन्द्रियमुत्पत्तिविनाशशालि वर्तते। तच्चानित्यम्।

(३) अथवा ‘तुष्यतु दुर्जनः’ इति न्यायेन श्रोत्रस्याकाशरूपत्वाभ्युपगमेऽपि तस्य नित्यत्वं न संभवति। “आत्मन आकाशः सम्भूतः” (तै. ब्र. १) इति तैत्तिरीयवाक्यमाकाशस्योत्पत्तिं ब्रुवत्तस्यानित्यतामावेदयति। इत्थमाकाशस्यानित्यत्वे सिद्धे तदेकदेशस्य श्रोत्रस्यानित्यत्वमस्तीति कैमुतिकन्यायसिद्धम्। इति श्रोत्रस्य नित्यत्वासंभवो ज्ञेयः।

(१) एवमेव मनसोऽपि नित्यता न युज्यते। (१) मनसः परमाणुरूपत्वमुपगम्य तस्य नित्यत्ववादिनम् किं मनो निरवयवमथवा सावयवमिति पृच्छेत्। मनसो निरवयवत्वे तस्मिन् मनस्यवयवरूपदेशाभावात् मनस आत्मना सह संयोगेन जन्यस्य ज्ञान - रूपगुणस्योत्पत्त्यभावाज्जगदान्ध्यप्रसङ्गः स्यात्। सावयवत्वे तस्य घटपटादेरिवानित्यता । निर्विवाद सिद्धा।

(२) अथवा यदि मनो नित्यं स्यात् तदा सुषुप्तौ विशेषविज्ञानजनकत्वरूपलिङ्गाभावगम्यो यो मनसः स्वोपादाने लयः स न भवेत्। अतोऽपि हेतोर्मनोऽनित्यमेव।

(३) अथ यदि नैयायिको वदेत् – ‘आत्ममनसोः संयोगो ज्ञानहेतुः। स च संयोग एकस्य क्रियया वोभयोः क्रियया वा भवेत्। विभावात्मनि क्रिया न कदापि भवति। मोक्षकाले वा सुषुप्तिकाले वा भोगोन्मुखस्यादृष्टस्याभावात् मनस्यपि क्रिया न भवति। तस्मादात्ममनसोः संयोगाभावात् विशेषविज्ञानं न भवति’ इति।

तदपि न सङ्गच्छते – विभुपदार्थेन सह सर्ववस्तूनां क्रियां विनैव सदा संयोगोऽस्ति। यथा व्यापकेनाकाशेन सह क्रियारहितपर्वतवृक्षपाषाणादीनां सदा संयोगोऽस्ति। तथा मोक्षसुषुप्त्यादिषु क्रियारहितस्यापि मनसो विद्यमानतया तस्य विभुना आत्मना सह संयोगस्य सिद्धत्वादवश्यं विशेषविज्ञानोत्पत्तिः स्यादेव। न तु तथोत्पद्यते। तस्मात् सुषुप्त्यादिकालेऽवश्यं मनसो लयः। पुनरपि जाग्रति मनस उत्पत्तिश्च भवतीत्यङ्गीकार्यम्। इत्थमुत्पत्तिनाशवदेव मनः। तस्य नित्यत्वकथनं प्रलाप एव।

आत्मना सह मनसः संयोगेन *१ ज्ञानमुत्पद्यते। स च संयोगो न्यायसिद्धान्तेऽन्यतरस्य क्रियया अथवोभयोः क्रियया भवति। यथा (१) वृक्षविहगयोः संयोगो विहगस्यैकस्यैव क्रियया भवति। (२) द्वयोर्मेषयोः संयोगस्तूभयक्रियया भवति। तथा विभावात्मनि क्रिया न कदापि भवति। मोक्षकाले मनस्यपि क्रिया न भवति। तस्मात् संयोगवन्मन एव मोक्षकाले नास्ति।

*१. (१) आत्मना सह मनसः संयोगेन यदि ज्ञानं भवति तदा सुषुप्तौ तादृशसंयोगाभावात् सुप्तोत्थितस्य जागरणकाले जायमानस्य सुखाज्ञानयोः स्मरणरूपस्य (‘सुखमहमस्वाप्तं न किञ्चिदवेदिषम्’ इत्याकारकस्य) ज्ञानस्य मूलभूतानुभवो न सिद्ध्येत्।

(२) किञ्च, आत्मना सह मनसः संयोगेन यदि ज्ञानं जायेत तदा न्यायमते मनसोऽणुपरिमाणत्वात् तत्संयोगाज्जायमानज्ञानस्य शरीरैकदेशवर्तित्वमेव स्यात्। कृत्स्नशरीरव्यापित्वं न भवेत्। तथा सति कण्टकवेधादिजन्यपीडायाः कृत्स्नशरीरावच्छेदेनानुभवो न स्यात्।

(३) सिद्धान्तपक्षे इव मनसः कृत्स्नशरीरव्यापित्वाभ्युपगमेन कृत्स्नशरीरव्यापिपीडानुभवासंभवरूपदोषपरिहारेऽपि सुषुप्तौ सुखाज्ञानयोर्यत्सामान्यज्ञानं भवति तस्यासंभवआपतेत्। तस्मात् ‘आत्मना सह मनसः संयोगेन ज्ञानमुत्पद्यते’ इत्येदसङ्गतमेव। किन्तु आत्मनः स्वरूपभूतमुत्पत्तिनाशरहितं ज्ञानं नित्यमित्यभ्युपगम एवोचितः।

“सत्यं ज्ञानमनन्तं ब्रह्म” (तै. ब्र. १), “प्रज्ञानं ब्रह्म” (ऐ. ३.१), “विज्ञानमानन्दं ब्रह्म” (बृ. ३.९.२७.७), “न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात्” (बृ. ४.३.३०), “प्रज्ञानघनः” (बृ. ४.५.१३) “चिदेकरसो ह्यात्मा” –

शुद्धचैतन्यरूपात्मा सर्वसिद्धिविवर्जितः।
नामरूपविहीनात्मा परसंवित्सुखात्मकः॥

भावाभावकलाविनिर्मुक्ता चिद्विद्याद्वितीया ब्रह्मसंवितिः।
सच्चिदानन्दलहरी महात्रिपुरसुन्दरी॥ बहूवृचोपनिषत् ५॥

सैषा चिदविनाशात्मा स्वात्मेत्यादिकृता भिदा।
सैषा चिदमलाकारा निर्विकल्पा निरास्पदा॥

महाचिदेकैवेहास्ति महासत्तेति चोच्यते।
“सदानन्दचिन्मात्रम्”, “स्वप्रकाशमानन्दघनम्”, “अनिर्वचनीयं ज्योतिः”

सर्वविलक्षणं निर्गुणं निरुपप्लवं ज्योतिराभ्यन्तरम्।
ज्योतिरेकमद्वितीयं सर्वकल्पनातीतम्।
ध्रुवमक्षरमेकं सदा चकास्ति सच्चिदानन्दम्॥

इत्यादिश्रुतिभ्यः। कार्यकारणगुणगुणिक्रियाक्रियावज्जातिव्यक्त्यादीनां भेदकल्पनात्यन्तवेदबाह्येति “अपरिग्रहाच्चात्यन्तमनपेक्षा” (ब्र. २.२.१७) इत्यादौ सूत्रभाष्यकारादिभिः प्रदर्शितम्।