ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३५६-३६४ त्रिविधनैयायिकमतवर्णनं, तन्निराकरणं च
- ३५६-३६० आत्मा व्यापक इति मतवर्णनं तत्खण्डनं च
- ३५६-३५८ आत्मनो व्यापकत्वोपपादनम्


आवर्तः ३५७ – त्वङ्मनसोः संयोगेनात्मनि ज्ञानमुत्पद्यते आत्मा स्वभावतो जड इत्येकदेशिनैयायिकमतम्

*१ कश्चनैकदेशी त्वचा सह मनसः संयोगं ज्ञानस्य कारणमाह। आत्मना सह संयोगं न कारणमाह। सुषुप्तौ पुरीतन्नामकनाड्यां मनः प्रविशति। अतस्त्वचा सह मनसः संयोगो नास्ति। तस्मात् सुषुप्तौ ज्ञानं नोत्पद्यते। एतन्मते त्वचा सह संयुक्तं मन एव ज्ञानद्वारा दु:खहेतुत्वात् दुःखम् इत्युच्यते। न तु केवलं मनः। मोक्षे त्वचो नाशात्तया सह संयोगाभावाज्ज्ञानं नोत्पद्यते। मोक्षकाले मनोऽस्ति। परन्तु दुःखहेतुज्ञानजनकं त्वक्संयुक्तं यन्मनस्तस्य संयोगनाशान्नाशो भवति।

*१. कश्चन नैयायिकैकदेशी त्वचा सह मनसः संयोगं ज्ञानस्य हेतुमाह। तन्न युक्तम् (१) यथा ‘मनसा सहात्मनः संयोगो ज्ञानहेतुः’ इत्यत्र न किमपि प्रमाणमस्ति। तथा ‘त्वचा सह संयोगो ज्ञानहेतुः’ इत्यत्रापि श्रुत्यादिरूपं किञ्चिदपि प्रमाणं नास्ति।

(२) प्रमाणासिद्धस्वकपोलकल्पितवस्त्वभ्युपगमे –

मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः।
एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः॥

इत्यादिवाक्यार्थोऽप्यङ्गीकार्यो भवेत्। तस्मात्त्वचा सह मनसः संयोगो न ज्ञानहेतुः।

(३) सुषुप्तौ त्वचा मनसः संयोगाभावेऽपि प्रज्ञावतां बुद्ध्याद्यगम्यं सुखाज्ञानयोः सामान्यज्ञानं भवति। तन्न स्यात् त्वङ्मनसोः संयोगस्य ज्ञानहेतुत्वाभ्युपगमे। तस्मात् त्वङ्मनसोः संयोगो न ज्ञानकारणम्। किन्तु ‘आत्मनः स्वरूपमेव ज्ञानम्’ इति श्रुतिसिद्धोऽर्थोऽङ्गीकर्तुमुचितः।

(११) इत्थं मोक्षदशायां परात्मनो भिन्नो दुःखरहितो व्यापक आत्मा । *२ जडरूपस्तिष्ठति। ज्ञानगुणेन ह्यात्मा प्रकाशते। जीवस्य सर्वं ज्ञानमिन्द्रियजन्यमेव; न नित्यम्। तच्चेन्द्रियजं सर्वं ज्ञानं मोक्षकाले नष्टम्। तस्मात्प्रकाशरहितो जडरूप आत्मा मोक्षदशायां वर्तत इति न्यायसिद्धान्तः।

*२. न्यायमते ‘आत्मा विभुर्जडश्च’ इत्यङ्गीकृतम्। तदेत्छ्रुतिविरुद्धम्। “अत्रायं पुरुषः स्वयं ज्योतिर्भवति” (बृ. ४.३.९.१४), “योऽयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योतिः पुरुषः” (बृ. ४.३.७), “सत्यं ज्ञानमनन्तं ब्रह्म” (तै. ब्र. १), “प्रज्ञानं ब्रह्म” (ऐ. ३.१) इत्याद्यनेकश्रुतिवाक्यैर्व्यापकस्यात्मनश्चेतनस्वरूपत्वं श्रूयते। युक्तयोऽप्यन्ते मूले (३६९-३७२) आवर्तेषु वर्णयिष्यन्ते। अतः ‘आत्मा स्वरूपतो जडः’ इति नैयायिकोक्तिरसङ्गता।