- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३५६-३६४ त्रिविधनैयायिकमतवर्णनं, तन्निराकरणं च
- ३५६-३६० आत्मा व्यापक इति मतवर्णनं तत्खण्डनं च
- ३५६-३५८ आत्मनो व्यापकत्वोपपादनम्
आवर्तः ३५८ – न्यायमते आत्मनोऽनेकत्वव्यापकत्वयोरुपपादनम्
न्यायमते पूर्वोक्तरीत्या सुखदुःखबन्धमोक्षा आत्मनः संभवन्ति। अतः आत्माऽनेकः सर्वत्र व्यापकश्च। सकलाल्पपदार्थैः सह संयोग एव न्यायमते व्यापकस्य लक्षणं न तु सजातीयविजातीयस्वगतभेदशून्यत्वम्। न्यायमते यद्यप्यात्मनो निरवयवत्वात् स्वगतभेदशून्यत्वमात्मनि संभवति। तथापि सजातीयविजातीयभेदशून्यत्वं न संभवति। किन्तु सजातीयद्वितीयात्मनो भेदः आत्मन्यस्ति। तथा विजातीयघटपटादिरूपानात्मभेदश्चात्मन्यस्ति। तस्मात् सजातीयविजातीयस्वगतभेदशून्यत्वं न *१ व्यापकस्य लक्षणम्। किन्तु सर्वाल्पपदार्थसंयोगित्वमेव तल्लक्षणम्।
*१. सिद्धान्ते ‘सजातीयविजातीयस्वगतभेदाभावः’ व्यापकस्य लक्षणम्। “सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्” (छा. ६.२.१) इति छान्दोग्यश्रुत्यनुसारीदं लक्षणम्। अत्र एकपदेन सजातीयभेदो निषिध्यते। एवकारेण विजातीयभेदनिषेधो भवति। अद्वितीयपदेन स्वगतभेदनिषेधश्च भवति। एतल्लक्षणानुसारेण देशकालवस्तुकृतपरिच्छेदरहितत्वमपि व्यापकस्य लक्षणमिति सिद्धम्।
(१) एकपदेन देशकृतोऽन्तो निषिद्धः। तथा हि यद्वस्तु परिच्छिन्नं तन्नाना भवति। यद्व्यापकं तत् नाना न भवति, किन्त्वाकाशवदेकमेव। यस्मादात्मा एकस्तस्मान्न परिच्छिन्नः। किन्तु व्यापकः। तस्मादेवात्मा देशकृतान्तरहितो भवति। न्यायमते तु नाना व्यापका अङ्गीक्रियन्ते। तदद्वैतश्रुतेर्वक्ष्यमाणयुक्तेर्लोकानुभवस्य च विरुद्धम्। उक्तश्रुतिगतैकपदेनात्मनो देशकृतोऽन्तो निषिध्यते।
(२) निश्चयवाचकेन एवकारेणात्मनो निरपेक्षव्यापकत्वं बोध्यते। तेन च काल। कृतोऽन्तः प्रतिषिध्यते।
(३) अद्वितीयपदेन भेदप्रतियोग्यन्यवस्तुनिषेधादात्मनि वस्तुकृतोऽप्यन्तः प्रतिषिद्धः। इत्थं सिद्धान्तोक्तमुभयविधमपि व्यापकत्वलक्षणं श्रुत्यनुसारि। व्यापकत्वनिर्वचनं श्रुत्यैव प्रदर्शितम् “यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा” (छा. ७.२४.१) इति। वस्तुकृतपरिच्छेदाभावसिद्ध्यैव देशकालकृतपरिच्छेदाभावोऽप्यर्थात्सिद्धः, देशकालयोरपि वस्त्वन्तर्गतत्वात्।
अत्रैवं यदि कस्यचित् शङ्का स्यात् – ‘न्यायमते आत्मवत् आकाशकालदिशोऽपि व्यापकाः। परमाणुश्च सूक्ष्मो निरवयवश्च। तादृशपरमाणुना सह सर्वव्यापकपदार्थानां संयोगो न युज्यते। परमाणुर्यदि सावयवः स्यात् तदा तस्य क्वचिद्देशे आत्मनः संयोगो देशान्तरेषु चेतरव्यापकपदार्थानां संयोगश्च भवेत्। न तु परमाणुः सावयवः। किन्तु निरवयवोऽतिसूक्ष्मश्च। तस्मात्परमाणुना सहैकस्मिन्नेव देशे सकलव्यापकपदार्थानां संयोगो वक्तव्यः। स च न घटते। एकस्य व्यापकपदार्थस्य संयोगेन निरुद्धे स्थाने व्यापकपदार्थान्तरसंयोगस्यासंभवात्। तस्मान्नानापदार्थानां व्यापकत्वं न युज्यते। तस्मादेकस्यैव पदार्थस्य व्यापकत्वाङ्गीकारो युक्त इति’ इति। तदैवं समाधानं नैयायिको ब्रूयात् –
सावयववस्तुनः संयोग एवान्यवस्तुसंयोगं प्रति विरोधी। (१) यस्मिन् भूमिप्रदेशे हस्तस्य संयोगो भवति तत्र पादस्य संयोगो न संभवेत्। निरवयववस्तुसंयोगस्तु न स्थानस्य निरोधकः, तस्मात् स नान्यसंयोगस्य विरोधी। सोऽयमनुभवसिद्धोऽर्थः। (२) घटे यत्र देशे आकाशस्य संयोगोऽस्ति तत्रैव देशे कालदिशोरपि संयोगोऽस्ति। घटस्य यः कोऽपि देशो यदि आकाशकालदिग्भ्यो बहिः स्यात् तस्मिन् देशे आकाशकालदिशां संयोगो न स्यात्। किन्तु न तथास्ति घटादीनां आकाशकालदिग्भ्यो बहिर्भूतः कश्चन देशः किन्तु सकलपदार्थानां सर्वोऽपि देश आकाशकालदिक्ष्वेव वर्तते। तस्मात् सर्वपदार्थानां सर्वेष्वपि देशेष्वाकाशकालदिशां संयोगोऽस्त्येव।
इत्थं परमाणावप्येकस्मिन्नेव देशे नानानिरवयवव्यापकपदार्थानां संयोगो युक्त एव। नात्र कश्चिदपि दोषोऽस्ति। तस्मादात्मा नाना भवति। सर्वत्र व्यापकश्च भवतीति।