ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३५६-३६४ त्रिविधनैयायिकमतवर्णनं, तन्निराकरणं च
- ३५६-३६० आत्मा व्यापक इति मतवर्णनं तत्खण्डनं च


आवर्तः ३५९ – आत्मा व्यापकः, अनेकः, कर्ता, भोक्ता च इति न्यायमतस्य निराकरणम्

सकलात्मनां सकलपदार्थैः सह संयोगोऽस्तीति न्यायमतम्। नानात्मनामव्यापकैः परिच्छिन्नैः सकलैरपि देहेन्द्रियमनोभिः परमाणुभिश्च संयोगोऽस्तीति नैयायिकमतं न सङ्गच्छते। तथा हि व्यापकानां नानात्मनामङ्गीकारे सर्वशरीरैः सर्वेषामप्यात्मनां संयोगोऽङ्गीकार्यः। तदा चेदं शरीरमस्यैवात्मनो नेतरस्यात्मन इति निश्चायकप्रमाणाभावात् एकैकस्यात्मनः सर्वाण्यपि शरीराणि संबन्धीनीत्यापतेत्। यस्य कर्मणा यच्छरीरमारब्धं तदेव शरीरं तदात्मसंबन्धि इति व्यवस्थापि न युज्येत। यतो येन शरीरेण यत् कर्म कृतं तेनापि शरीरेण सकलात्मनां संबन्धोऽभूत् तस्मात्कर्मापि सकलात्मसंबन्ध्येव भवेत्। न त्वेकात्ममात्रसंबन्धि भवेत्।

यस्यात्मनो मनःसहितं यच्छरीरमभूत् तस्यात्मनः तदेव शरीरमित्युक्तिरपि न समीचीना।

(१) शरीरेणेव मनसापि सकलात्मनापि संबन्धस्य साधारण्यादिदं मनोऽस्यैवात्मन इति निश्चयेऽपि प्रमाणं नास्ति। किन्तु सकलात्मनां सकलान्यपि मनांसि संबन्धीन्येव भवन्ति। तथैवेन्द्रियाण्यपि सकलात्मसंबन्धीन्येव भवन्ति।

(२) बाह्यपदार्थेषु ‘अयं पदार्थो मदीयः, अयमन्यदीयः” इति व्यवहारः शरीरनिमित्तकः। प्रदर्शितरीत्या सर्वशरीराणां सर्वात्मसाधारण्यात् सर्वेऽपि बाह्याः सर्वात्मसंबन्धिन एव भवन्ति।

अथ यदि नैयायिको ब्रूयात् “यस्यात्मनो यस्मिन् शरीरे अहंममबुद्धी भवतस्तस्यात्मनस्तदेव शरीरम्। अहमिति बुद्धिरेकैव। तथा ममेति बुद्धिरप्येकैव। तस्मात् सर्वेष्वात्मसु सा बुद्धिर्न भवेत्; किन्त्वेको धर्म एकधर्म्याश्रित एव भवेत्। तस्मादेकस्यैवात्मनः संबन्धी भवति। तथा च यस्यात्मनो यत् शरीरं संबन्धि भवति तेन शरीरेण सम्बद्धानि मनइन्द्रियबाह्यवस्तूनि तदात्मसंबन्धीन्येव। तस्माद्व्यापकनानात्मनामङ्गीकारेऽपि न दोष” इति।

सापि वार्तासङ्गतैव – अहमिति बुद्धिरेकस्मिन् शरीरे एकस्यैवात्मनो भवतीत्येतत् न्यायमते न युज्यते। किन्तु सर्वेषामप्यात्मनामेकस्मिन् शरीरे अहमिति बुद्धिर्भवितुमर्हति। तथा हि, न्यायमते बुद्धिर्नाम ज्ञानम्। तच्च ज्ञानमात्ममनसोः संयोगेनोत्पद्यते। मनसा सह संयोगः सर्वेषामात्मनामस्ति। अतश्च मनसा संयोगेन यदा एकस्मिन् शरीरे एकस्यात्मनो अहंबुद्धिरुदेति, तदा सर्वेषामप्यात्मनां अहंबुद्धिरुदेतुमर्हति।

अथ यद्येवं प्रत्यवस्थीयते – यद्यपि मनसा सह संयोगः सर्वात्मसाधारणः। तथापि यस्मिन्नात्मनि ज्ञानजनकादृष्टमस्ति। तस्यैवात्मनोऽहंबुद्धिरुत्पद्यत इति। तदप्यसङ्गतमेव। तथा हि यो व्यापकनानात्माङ्गीकर्ता तस्य मते एकशरीरस्थशुभाशुभकर्मभ्यां तच्छरीरसम्बद्धसर्वात्मनामप्यदृष्टोदयोऽवश्यमङ्गीकर्तव्यः। इयं वार्ता पूर्वमेवोक्ता। तस्माद्व्यापकनानात्माङ्गीकारे एकस्मिन् शरीरे सर्वेषामप्यात्मनां सुखदुःखभोगापत्तिरपरिहार्या। न तु तथास्त्यनुभवः। तस्मात् ‘आत्मा *१ व्यापको नाना कर्ता भोक्ता च’ इति न्यायसिद्धान्तो न समीचीनः।

*१. न्यायमतोक्तं व्यापकत्वलक्षणं श्रुतियुक्तिलोकानुभवविरुद्धम्।