ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३५६-३६४ त्रिविधनैयायिकमतवर्णनं, तन्निराकरणं च
- ३५६-३६० आत्मा व्यापक इति मतवर्णनं तत्खण्डनं च


आवर्तः ३६० – अन्तःकरणमेव कर्तृ भोक्तृ च। तच्चान्तःकरणं नाना मध्यमपरिमाणं चेति वेदान्तसिद्धान्तकथनम्

वेदान्तसिद्धान्ते त्वन्तःकरणमेव कर्तृ भोक्तृ च। तच्चान्तःकरणं नाना। तच्चान्तःकरणं न व्यापकम्, नाप्यणु। किन्तु शरीरपरिमाणकम्। दीपप्रकाशवदन्तःकरणं बृहच्छरीरप्राप्तौ विकसति। अल्पशरीरप्राप्तौ सङ्कुचति च। अयमर्थः सिद्धान्तबिन्दौ मधुसूदनस्वामिभिः प्रतिपादितः। यस्यान्तःकरणस्य येन शरीरेण संबन्धो भवति तस्यान्तःकरणस्य तस्मिन् शरीरे भोगो भवति।

अन्तःकरणस्य व्यापकत्वस्वीकारे सर्वशरीराणि सर्वसाधारणानि भवेयुः। भोगोऽपि सर्वेषामापद्येत। अन्तःकरणस्य व्यापकत्वास्वीकारे नैष दोषो भवति। अन्तःकरणस्याणुपरिमाणत्वस्वीकारे शरीरैकदेशेऽन्तःकरणस्य स्थितिर्वाच्या। तथोक्तिरप्यसङ्गता। तथा सति युगपदेव पादे मस्तके च कण्टकवेधे सति द्वयोरपि स्थानयोर्युगपदेवानुभूयमाना पीडा नोपपद्येत। यद्यन्तःकरणमणु तदा तदेकस्मिन् काले एकस्मिन्नेव स्थाने स्यात्। ततश्च यस्मिन् स्थानेऽन्तःकरणं स्थितं तत्रैव पीडानुभवो युज्येत। न तु द्वयोः स्थानयोः युगपदेव पीडानुभवस्य युक्तिरस्ति।

तस्मादन्तःकरणं नाणु नापि व्यापकम्। किन्तु शरीरसमानपरिमाणकम्। अतो न कोऽपि दोषः। अणुव्यापकाभ्यां यद्विलक्षणं तन्मध्यमपरिमाणकम् इति कथ्यते।