ॐ गुरुपरमात्मने नमः

- ३१७-४६३ षष्ठतरङ्गः -- गुरुवेदान्तादिसाधनमिथ्यात्ववर्णनम्
- ३४२-४६३ गुरुवेदान्तादीनां मिथ्यात्वे दृष्टान्तप्रदर्शनम्
- ३४३-४६३ अगृधदेवस्य (इच्छारहितात्मदेवस्य) स्वप्नव्याख्यानव्याजेन तत्त्वदृष्टिं प्रति गुरोरुत्तरम्
- ३५३-३८२ अहं कः? इति प्रश्नस्योत्तरम्
- ३५६-३६४ त्रिविधनैयायिकमतवर्णनं, तन्निराकरणं च

- ३५६-३६४ आत्मनो मध्यमपरिमाणत्ववादिमतनिराकरणम्

आवर्तः ३६१ – आत्मनो मध्यमपरिणत्ववादिनैयायिकमतकथनम्

न्यायमते केचन नवीना एवमाहुः (१) आत्मा नाना, कर्ता, भोक्ता च। न तु *१ व्यापकः। अतो न भोगसाङ्कर्यम्। (२) नाप्यणुरात्मा। अत उभयत्र कण्टकवेधजन्यपीडानुभवासंभवदोषोऽपि न। किन्तु यथा वेदान्तिमते अन्तःकरणं मध्यमपरिमाणं तथा आत्मापि मध्यमपरिमाणो भवति। तस्मिन्नात्मनि चतुर्दश गुणाः सन्तीति।

*१. यथा नानाघटानां व्यापकत्वाङ्गीकारो निष्फलस्तथा प्रतिशरीरं कर्तृभोक्तृरूपनानात्मनां व्यापकत्वाभ्युपगमो निष्फलः। अथवा नानान्तःकरणाभ्युपगमेनैव भोगासाङ्कर्यसिद्धेर्व्यापकस्यात्मनो नानात्वाङ्गीकारो निष्प्रयोजनः।